Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७१२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे - द्रव्यादिसामान्यशब्दार्थेष्वपि अनङ्गीकृतार्थान्तरतायां तेनैव न्यायेन भावितवदभ्युपगमत्यागः। अथान्तरापोहतायां प्रतिवसन्यायाद् यथायोगं योज्यं तथैव । - ननूच्यमानसच्छब्दवदेतत्सिद्धिः। अत्र ब्रूमः-यदि सच्छब्दोऽसच्छब्दोऽपि भवति तत एव घटशब्दाद्युदाहरणमवकाशं लभते, अन्यथा कुतोऽस्यावकाशः? 5 सच्छब्द एव हि सन्नसच्छब्दो भवत्येव इतरथा घटस्य सतः पटाद्यसत्त्वाभावे कस्य सतः शपनाच्छब्दः स्यात् सच्छब्दः। एवमर्थतः 'सच्छब्दोऽसच्छब्दो न भवति'
द्रव्यादिसामान्यशब्दार्थेष्वपि द्विविधा सैव, अङ्गीकृतान]ङ्गीकृतभेदार्थवृत्तित्वात् । तत्र तावदनङ्गीकृतार्थान्तरतायामित्यादिः स एव न्यायः प्राक्तनः “अद्रव्यं न भवति' इति [द्वि]नप्रयोगाद्
द्रव्यमेवेति सिद्धे सत्यारम्भो नियमार्थः, यो न भवति येन न भवतीत्यादि स एव ग्रन्थो विधिप्रधान10 पर्युदासात्मकाद्रव्यशब्दार्थत्यागादिदोषापादनः प्रसज्यप्रतिषेधमात्रार्थत्वादित्येतदर्थातिदेशो गतार्थो यावद्
भावितवदभ्युपगमत्यागः । द्वितीयविकल्पेऽपि अर्थान्तरापोहतायामित्यादि तमेव न्यायमतिदिशतिप्रतिस्वसन्यायात् , प्रतिस्वद्रव्यत्वात् सर्वद्रव्याणां व्यमित्यद्रव्यं न [न] भवति इतरेतराभावादिभ्य
इत्यादि यथायोगं योज्यं तथैव । ४६३-२ . अत्राह-ननूच्यमानसच्छन्दवदेतत्सिद्धिः, सिद्धं सच्छब्दमसत्स्वरूपविनिर्मुक्तं मन्यमानश्चोदयति 15 यः सँच्छब्दः [स] सतः शपनादावानात् , अतः शब्दाद् यथा सच्छब्द एव संदर्थवाच्येव च नासच्छब्दो
नांसदर्थवाची वा तथा सद्वस्त्वपि स्यादिति । घटशब्दादिरपि विशेषशब्दस्तदर्थश्च तथा न पटादिशब्दस्तदर्थो वा भवितुमर्हतीति । तस्मादयुक्तमुच्यते सनसन् भवतीति ।
अत्र ब्रूमः-यदि सच्छब्दोऽसच्छब्दोऽपीत्यादि । नाभ्युपगच्छाम एतत् 'सच्छब्दोऽसच्छब्दो न भवति' इति, तथोदाहरणत्वासम्भवात् सच्छब्दासच्छब्दत्व एवोदाहरणत्वसिद्धेः । यदि हि सच्छब्दो20 ऽसच्छब्दोऽपि भवति तत एव लोकेऽन्यापोहवादे च घटशब्दाद्युदाहरणमवकाशं लभते, अन्यथा कुतोऽस्य घटायुदाहरणस्यावकाशः ?
तद् व्याचष्टे-सच्छब्द एव हि सन्नसच्छब्दो भवत्येव, सदेव शब्दयन् घटादि पटाद्यशब्दनादसच्छब्दो भवत्येव, इतरथा घटस्य सतः पटाद्यसत्त्वाभावे सत्त्वाभावः, सत्त्वाभावात् सङ्करादिदोषौच्चासत्त्वे कस्य सतः शपनौच्छब्दः स्यात् सच्छब्दोऽङ्गीकृतभेदार्थत्वे ? तस्मादयुक्तमुक्तम् सच्छब्द25 वदसन्न भवति सद्वस्त्विति । एवमर्थतः 'सतः शब्दः सच्छब्दः' इत्यर्थद्वारेण 'सच्छब्दोऽसच्छब्दो न
भवति' इत्ययुक्तम् ।
१अनङ्गीकृताङ्गीकृत इत्यपि भवेदत्र पाठः॥ २'त्यादि य०॥ ३ प्राक्तनो द्रव्यं न प्र०॥ ४ दृश्यतां पृ० ७१० पं० २२॥ ५भाविततदभ्युप° प्र०॥ ६ दृश्यतां पृ० ७११ पं० १७ ॥ ७ सशब्दः प्र०॥ ८ सदवाच्येव प्र०॥ ९नावदर्थ प्र०॥ १०°रपि र विशेष य० । र विशेष भा०॥ ११ भवत्येव प्र०॥ १२ दोषाच्च सत्त्वे प्र.॥ १३ नात् सब्दः स्यात् सच्छाङ्गीकृत भा० । 'नात् शब्दः स्यात् शब्दोङ्गीकृतय.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403