Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । इत्ययुक्तम् । शब्दतोऽपि चास्ति सच्छब्दोऽन्य एव । सदेर्धातोः सच्छब्दोऽप्यन्य एव । एवं द्रव्यादिशब्देषु वाच्यम् ।
विशेषशब्दार्थेषु तु 'घट इत्यघटो न भवति' इत्यत्रापि न न भवत्यघटः । तद्यथा आमच्छिद्रादिघटा एवाघटा अचेष्टत्वात् । घटयन् वा घटः स्यात् । तदभावादप्यघटो भवत्येव । अघटोऽपि च घटो भवति, घटते घटयति वा तन्तुतन्तु- 5 वायगवाश्वादिः।
तथा प्रत्यक्षप्रसिद्धेरनन्यत्वं सिद्धं गोशब्दस्य वागादिषु वर्तमानस्य, तच्छब्द
शब्दतोऽपि च 'अस्ति'सच्छब्दः असेर्धातोः शत्रन्तस्य 'सत्' इति रूपसिद्धेर्यः सच्छब्दः सोऽन्य एव । सदेर्धातोः क्विबन्तस्य यः सच्छब्दः सोऽप्यन्य एव, संदिप्रकृतिः सच्छब्दो न भवत्येव असिप्रंकृतिः सच्छब्दः । तस्माच्छब्दतोऽपि सच्छब्दो[ऽसच्छब्दो] भवत्येव न न भवतीति ।
10 ___ एवमित्यादि । यथा सच्छब्दस्य रूपसिद्धिकृतनानात्वकृते सत्त्वासत्त्वे तथा द्रव्यशब्दस्यापि ४६४-१ द्रष्टव्ये । तथा 'द्रोर्विकारो द्रव्यम् , द्रोरवयवो वा द्रव्यम् , द्रव्यं च भव्ये [ पा० ५। ३ । १०४ ] भवतीति भव्यं द्रव्यम् , द्रवतीति द्रव्यं द्रूयते वा, द्रवणाद् गुणानां गुणसन्द्रावो द्रव्यम् , इत्यादिव्युत्पत्त्या पृथिव्यादिखभेदापेक्षया च द्रव्यशब्दः सन्नद्रव्यशब्दश्च । 'द्रव्यादिशब्देषु' इति आदिग्रहणात् पृथिव्युदकादिसामान्यशब्देष्वपि स्वभेदापेक्षेषु वाच्यमित्यतिदेशार्थः । एवमर्थेऽपि द्रष्टव्यम् । एवं तावद् महासामान्या- 15 परसामान्यशब्दार्थेषु सर्वस्यादर्शनादयुक्तोऽन्यापोहः ।
विशेषशब्दार्थेष्वित्यादि । तुशब्दो भेदाङ्गीकरणाकरणविकल्पाभावं सामान्यशब्दार्थाद् विशेषशब्दार्थेषु दर्शयति । 'घट इत्यघटो न भवति' इत्यत्रापि न [न] भवत्यघटो भवत्यघट इति । तद्यथा-आमच्छिद्रादीति, आमघटश्छिद्रघटो न भवति, आदिग्रहणाच्चित्रलेप्यादिघट इत्यादयो घटा एवाघटा घटनसामर्थ्याभावादचेष्टत्वात् । घटयन् वा घटः स्यात् प्रयोक्तकर्तरि, तदभावादप्यघटो भवत्येवेति । किश्चा-20 न्यत्-अघटोऽपि च घटो भवति चेष्टार्थवत्त्वात् स्वतत्रः प्रयोक्ता चे, तद्दर्शयति-घटते घटयति वा तन्तुतन्तुवायग[वा]श्वादिरिति प्रकृत्यन्ताद् ण्यन्ताद्वा कर्तर्यचो विहितत्वात् ।
तथा प्रत्यक्षेत्यादि । 'गौरित्यगौर्न भवति' इत्येतदपि न युक्तम् , यस्माद् ‘गौरगौर्भवति, अगौरपि गौर्भवति' इत्येतत् प्रदर्श्यते । तत्र हि द्वयी शब्दानां गतिः-एकः शब्दोऽनेकार्थः, अनेकः शब्द एकार्थो भवति । तत्र य एकोऽनेकार्थः स चिन्त्यते । गोशब्दस्य तावद् वागादिषु वर्तमानस्य एकत्वं प्रत्यक्षप्रसिद्धम् , ४६४-२
१ 'आमच्छिद्रादि, अचेटत्वात् ।' इति ‘आमश्छिद्रादि, अचेष्टत्वात् ।' इति वा मूलं चिन्त्यम् ॥ २ वास्ति प्र० ॥ ३ असतातोः य०॥ ४ सदिति प्रकृतिः प्र. । (सदतिप्रकृतिः ?)॥ ५कृतिसच्छब्दः प्र०॥ ६न भवती भा० ॥ ७ (तद्यथा-2)॥ ८ दृश्यतां टिपृ० १६ पं० २४-टिपृ० १७ पं० ६ ॥ ९ भेदोंगीक भा० । मेयोऽगीक य० ॥ १० तद्यथामिच्छ(मश्छि ?)द्रादीति आमघटच्छिद्रघटो प्र० ॥ ११ घटत्वा घटः य० ॥ १२ प्रयोक्त कर्तरि प्र० ॥ १३ चा भा०॥ १४ तंपु तंतवाय भा० । तंतुतंतवाय य० ॥ १५ कर्तुयवो वि य० । कर्तुयवों वि भा० । “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।"-पा० ३।१।१३४ ॥
नय० ९० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403