Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 374
________________ ७२० न्यायागमानुसारिणीवृत्त्यलङ्कृतं विकल्पोऽपि स्वसम्बन्ध्यन्यप्रतिषेधार्थत्वात् । द्रव्यार्थतः न च तेन [ 'सह कस्यचिद् विरोधः, आराध्यत्वाच्छरणत्वाच्च ] सर्वेषामपि । ततश्चेदमपि दुरधीतमेवान्यापोहवादिना - [दृष्टवद् विधिरूपेण यदि लिङ्गं प्रकाशयेत् । ] सर्वथाऽप्रतिपत्तिः स्यात् सर्वथा वा गतिर्भवेत् ॥ [ प्र० स० ३ | १४ ] इति यत्तूक्तम् अन्वयद्वारेण चानुमानेऽयं दोषः - यस्मादनुगमोऽस्ति वृक्षशब्दस्यार्थादिसहितस्य शिंशपादिष्वपि तस्मात् केवलोऽपि शिंशपावाची स्याद् वृक्षशब्दः । अथ बहुषु पलाशादिष्वपि दृष्ट इति संशयो भवति, एवं सति वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्वानि सन्ति तेषु वृक्षशब्दस्य समानत्वात् संशयः स्यात्, 10 निश्चयस्तु दृष्टः, अवृक्षनिवृत्त्याऽर्थामिधानवदपृथिव्यद्रव्या सत्त्वव्यावृत्त्या वृक्षाभिधानात् । यथा हि वृक्षशब्दोऽवृक्षनिवृत्त्यैकार्थको पार्थिवव्यावृत्त्यापि स्वार्थे वर्तते तथा वृक्षपार्थिवद्रव्यसच्छन्दा आनुलोम्येन त्रिद्वयेकार्थनिश्चयहेतवः प्रातिलोम्येन संशयहेतव इति । 5 दर्शयति यथासङ्ख्यम् – द्रव्यार्थत इत्यादि गतार्थं सोदाहरणं यावत् स्यादनपोह इत्यादि । आदिग्रहणा15 दन्यदपि यत् किञ्चिदन्यैरप्युग्राहितं वस्तूदाहरणमेवास्य सर्वगतासर्वगतकारणकार्यत्वादीत्यभिप्रायः । न च तेनेत्यादि यावत् सर्वेषामपीति वादपरमेश्वरत्वप्रदर्शनं स्याद्वादस्य गतार्थम् । [ अष्टम उभयनियमारे 'स्यादनपोह इत्यादि । ततश्चेदमपि दुरधीतमेवान्यापोहवादिना इत्युक्तार्थानुसारेणातिदेशेन दूषयति कारिकाम्, अन्यापोहस्य केवलस्य दूषितत्वाद् दर्शनबलेनैव शब्दार्थप्रतिपत्तेर्व्याख्यातत्वात् अन्ते वा स्याद्वादोपसंहारादेकान्तविधिवाददूषणस्य प्रकाशित प्रकाशनवद् वैयर्थ्यादिति । 20 यतूक्तमित्यादि यत् परेण दोषजातमुपन्यस्तं विधिवादिनं प्रति तत् परिहर्तुकामः पूर्वपक्षयति । 'वृक्षो मञ्चकः क्रियते' इत्याद्यैर्थप्रकरणशब्दान्तरसन्निध्यादिभिः शिंशपादिष्वपि दृष्टत्वात् सर्वत्र सर्वथा केवलोऽपि शिंशपावाची स्याद् वृक्षशब्दः, अनिष्टं चैतत् केवलस्याप्रत्यायनात् । अथ बहुष्वित्यादि सोऽन्यापोहवाद्येव परमतमाशङ्कते । बहुषु पलाशादिष्वपि दृष्टोऽयं वृक्ष [शब्द]स्तस्मात् कतम एषां विवक्षितः स्यात् ? इति सामान्यात् संशयो भवतीत्याशङ्कय तत्रापि दोषं ब्रूया25 दन्यापोहवादी एवं सतीत्यादि, वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्वानि दृष्टानि तेषु निश्चयो दृष्ट इत्यनैकान्तिकमेतत् । केन पुनर्न्यायेनेति चेत्, अवृक्षनिवृत्याऽर्थाभिधानवदपृथिव्यद्रव्यासत्त्वव्यावृत्त्या वृक्षाभिधानाद् व्यावृत्तिबलेनेति । अस्य च न्यायस्य गुणोपचयवर्णनम् - यथा हि वृक्षेत्यादि गतार्थं यावत् संशयहेतव इति । ४६८-२ ५ 'यथा हि वृक्ष १ दृश्यतां पृ० ४३६ पं० ३, १८-२१ ॥ २ पृ० ७०७ ॥ ३ तुलना - पृ० ६५२ पं० २३ ॥ सत्त्वद्रव्यत्वपार्थिवत्वादिषु कस्मान्निश्चयो भवति' इत्यपि मूलं स्यादत्र । दृश्यतां पृ० ७२१ पं० १४ ॥ [ पार्थिवद्रव्यसच्छन्दा आनुलोम्येन त्रिद्व्येकार्थनिश्चय हेतवस्तथा प्रतिलोम्येन ] संशयहेतवः' इत्यपि पाठोऽत्र भवेत् ॥ ६ पृ० ६५२ पं० २३ । हृदयतां पृ० १२७ पं० ११-१४, टिपृ० ५६ टि० १ ॥ ७ ध्यादिभिः शिशपादिभिः शिंशपादिष्वपि प्र० । अत्र 'दिभिः शिंशपादिभिः शिंशपा इति पाठो द्विर्भूतः प्रतीयते ॥ ८ तुलना - पृ० ६५२ पं० २४ ॥ ९ तुलना - पृ० ६५२ पं० २४ ॥ १० निश्चयो न दृष्ट य० ॥ ११ तुलना - पृ० ६५३ पं० १२ ॥ Jain Education International For Private & Personal Use Only ४ एवं सति वृक्षा www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403