________________
७२०
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
विकल्पोऽपि स्वसम्बन्ध्यन्यप्रतिषेधार्थत्वात् । द्रव्यार्थतः न च तेन [ 'सह कस्यचिद् विरोधः, आराध्यत्वाच्छरणत्वाच्च ] सर्वेषामपि । ततश्चेदमपि दुरधीतमेवान्यापोहवादिना -
[दृष्टवद् विधिरूपेण यदि लिङ्गं प्रकाशयेत् ।
]
सर्वथाऽप्रतिपत्तिः स्यात् सर्वथा वा गतिर्भवेत् ॥ [ प्र० स० ३ | १४ ] इति यत्तूक्तम् अन्वयद्वारेण चानुमानेऽयं दोषः - यस्मादनुगमोऽस्ति वृक्षशब्दस्यार्थादिसहितस्य शिंशपादिष्वपि तस्मात् केवलोऽपि शिंशपावाची स्याद् वृक्षशब्दः । अथ बहुषु पलाशादिष्वपि दृष्ट इति संशयो भवति, एवं सति वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्वानि सन्ति तेषु वृक्षशब्दस्य समानत्वात् संशयः स्यात्, 10 निश्चयस्तु दृष्टः, अवृक्षनिवृत्त्याऽर्थामिधानवदपृथिव्यद्रव्या सत्त्वव्यावृत्त्या वृक्षाभिधानात् । यथा हि वृक्षशब्दोऽवृक्षनिवृत्त्यैकार्थको पार्थिवव्यावृत्त्यापि स्वार्थे वर्तते तथा वृक्षपार्थिवद्रव्यसच्छन्दा आनुलोम्येन त्रिद्वयेकार्थनिश्चयहेतवः प्रातिलोम्येन संशयहेतव इति ।
5
दर्शयति यथासङ्ख्यम् – द्रव्यार्थत इत्यादि गतार्थं सोदाहरणं यावत् स्यादनपोह इत्यादि । आदिग्रहणा15 दन्यदपि यत् किञ्चिदन्यैरप्युग्राहितं वस्तूदाहरणमेवास्य सर्वगतासर्वगतकारणकार्यत्वादीत्यभिप्रायः । न च तेनेत्यादि यावत् सर्वेषामपीति वादपरमेश्वरत्वप्रदर्शनं स्याद्वादस्य गतार्थम् ।
[ अष्टम उभयनियमारे 'स्यादनपोह इत्यादि ।
ततश्चेदमपि दुरधीतमेवान्यापोहवादिना इत्युक्तार्थानुसारेणातिदेशेन दूषयति कारिकाम्, अन्यापोहस्य केवलस्य दूषितत्वाद् दर्शनबलेनैव शब्दार्थप्रतिपत्तेर्व्याख्यातत्वात् अन्ते वा स्याद्वादोपसंहारादेकान्तविधिवाददूषणस्य प्रकाशित प्रकाशनवद् वैयर्थ्यादिति ।
20
यतूक्तमित्यादि यत् परेण दोषजातमुपन्यस्तं विधिवादिनं प्रति तत् परिहर्तुकामः पूर्वपक्षयति । 'वृक्षो मञ्चकः क्रियते' इत्याद्यैर्थप्रकरणशब्दान्तरसन्निध्यादिभिः शिंशपादिष्वपि दृष्टत्वात् सर्वत्र सर्वथा केवलोऽपि शिंशपावाची स्याद् वृक्षशब्दः, अनिष्टं चैतत् केवलस्याप्रत्यायनात् ।
अथ बहुष्वित्यादि सोऽन्यापोहवाद्येव परमतमाशङ्कते । बहुषु पलाशादिष्वपि दृष्टोऽयं वृक्ष [शब्द]स्तस्मात् कतम एषां विवक्षितः स्यात् ? इति सामान्यात् संशयो भवतीत्याशङ्कय तत्रापि दोषं ब्रूया25 दन्यापोहवादी एवं सतीत्यादि, वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्वानि दृष्टानि तेषु निश्चयो दृष्ट इत्यनैकान्तिकमेतत् । केन पुनर्न्यायेनेति चेत्, अवृक्षनिवृत्याऽर्थाभिधानवदपृथिव्यद्रव्यासत्त्वव्यावृत्त्या वृक्षाभिधानाद् व्यावृत्तिबलेनेति । अस्य च न्यायस्य गुणोपचयवर्णनम् - यथा हि वृक्षेत्यादि गतार्थं यावत् संशयहेतव इति ।
४६८-२
५ 'यथा हि वृक्ष
१ दृश्यतां पृ० ४३६ पं० ३, १८-२१ ॥ २ पृ० ७०७ ॥ ३ तुलना - पृ० ६५२ पं० २३ ॥ सत्त्वद्रव्यत्वपार्थिवत्वादिषु कस्मान्निश्चयो भवति' इत्यपि मूलं स्यादत्र । दृश्यतां पृ० ७२१ पं० १४ ॥ [ पार्थिवद्रव्यसच्छन्दा आनुलोम्येन त्रिद्व्येकार्थनिश्चय हेतवस्तथा प्रतिलोम्येन ] संशयहेतवः' इत्यपि पाठोऽत्र भवेत् ॥ ६ पृ० ६५२ पं० २३ । हृदयतां पृ० १२७ पं० ११-१४, टिपृ० ५६ टि० १ ॥ ७ ध्यादिभिः शिशपादिभिः शिंशपादिष्वपि प्र० । अत्र 'दिभिः शिंशपादिभिः शिंशपा इति पाठो द्विर्भूतः प्रतीयते ॥ ८ तुलना - पृ० ६५२ पं० २४ ॥ ९ तुलना - पृ० ६५२ पं० २४ ॥ १० निश्चयो न दृष्ट य० ॥ ११ तुलना - पृ० ६५३ पं० १२ ॥
Jain Education International
For Private & Personal Use Only
४ एवं सति वृक्षा
www.jainelibrary.org