________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशार नयचक्रम् । भावदर्शनाद् द्रव्याद्यभावदर्शनानभ्यनुज्ञानादतिस्फुट एवायं विधिवादस्त्वयाभ्युपगतः भवनपरमार्थार्थाभ्युपगमात् । यत् कोऽपि भवति [तद् भवनपरमार्थत एव......] वैधर्येण खपुष्पवत् । योऽप्यसौ [व्यावर्तते सोऽपि भवनपरमार्थत एव ] भवत एव व्यावृत्तेः, देवदत्तादिव्यावृत्तिवत् , न खपुष्पादिवत् ।
एवं भवद्भवननिरूपणे स्थित एवार्थ; स चान्यश्चेत्यन्यापोह परिग्रहे सर्वथा वा 5 गतिर्भवेत् । अनुगमो विधिरेव ।
अथवा अनिर्वाहकैकान्तव्याख्याविकल्पप्रदर्शनात् सर्वथा वा विकल्पानां गतिरनेकान्तः स एवैवं भवेत् । विधिविकल्पोऽपि सदाद्यात्मकार्थग्रहणात् । अपोहकस्मात् ? द्रव्याद्यभावदर्शनानभ्यनुज्ञानात् । पृथिवीद्रव्यसत्त्वाभावे दर्शनं वृक्षस्य वृक्षाभावे वा : पृथिव्यादिभावदर्शनं वृक्षात्मविषेयं नाभ्यनुज्ञायते यस्मात् तस्मादेकभवनात्मकत्वानुज्ञानादन्याभावादतिस्फुट 10 एवायं विधिवादस्त्वयाभ्युपगतः, पूर्वेष्वपि पक्षेषु स्फुट एव विधिवादः, अस्मिंस्त्वतिस्फुटः । कस्मात् ? ४६७ भवनपरमार्थार्थाभ्युपगमात् , वृक्षशब्दस्य सद्व्यपृथिवीमृदादिवृक्षैकभवनात्मकः परमार्थतोऽर्थ इत्यभ्युपगतत्वात् । यत् कोऽपि भवतीत्यादिना भवनमेवेति दर्शयति यावद् वैधयेण खपुष्पवदिति । योऽप्यसावित्यादि ध्यावाभिमतोऽपि भवनपरमार्थत इति दर्शयति । भवत एव व्यावृत्तेरिति हेतुः, भवन्नेव व्यावर्तते कर्तरि षष्ठीविभक्त्युत्पत्तेः, पर्वते प्रतिहतस्य देवदत्तस्य व्यावृत्तिवत् सत एव व्यावृत्तेरित्यपादान-15 लक्षणा पञ्चमी वा, यो भवति पर्वतादिः तस्माद् भवत एव पर्वतादेर्देवदत्तादेावृत्तिवत् न खपुष्पादिवदिति विधिवाद एव स्फुटीकृतः।
___ ततः किम् ? तत इदम् ---एवं भवद्भवनेत्यादि। इत्थं भवदेव भवतीति निरूपणेऽयमस्य स्थित एवार्थःस चान्यश्चेत्ययमन्यापोहपरिग्रहः, तस्मिंश्च सति सर्वथा वा गतिर्भवेत् , *अनुगमो विधिरेवेत्युपसंहरति ।
अथवा अनिर्वाहकेत्यादि, ये त्वमी व्याख्याविकल्याः कल्पिता* विधिवादेऽन्यापोहवादे 20 "चैकान्तरूपास्ते सर्वे न निर्वहन्तीत्युपेक्ष्याः। तत्प्रदर्शनात् सर्वथाशब्दो विमर्दरमणीयः परिनिष्ठितोऽतीतसर्वविचारस्यायं पिण्डार्थ इत्येतदाख्यानार्थः । कोऽसौ पिण्डार्थ इति चेत्, उच्यते-वेति 'वा'शब्दो विकल्पार्थः, विकल्पानां गतिरिति विकल्पानामेव ज्ञानं निश्चयः परिनिष्ठा सर्वथा घटो घटोऽप्यघटोऽपीत्यादि निश्चयः। का सा गतिः ? अनेकान्तः, स एव एवं भवेत् स एवानेकान्तो विमर्दक्षमो विचारपर्यवसानेऽवतिष्ठतेत्थम् , सर्वन्यायपरिशुद्धि फलत्वादस्य सर्वविकल्पाः, सङ्केपेण विधि-प्रतिषेधौ, तावुभावित्थं 25 गृहीताविति दर्शयति विधिविकल्पोऽपि सदाद्यात्मकार्थग्रहणादिति विधिम् , अपोहविकल्पोऽपि ४६८स्वसम्बन्ध्यन्यप्रतिषेधार्थत्वादिति प्रतिषेधम्। एतौ त्वद्वचनादेवापतितौ । तेन सर्वथा विकल्पानां वा गतिः स्याद्वादः । स च द्रव्यार्थपर्यायार्थावेकान्तत्यागरूपैकवाक्यमत्यात्मकौ, तयोर्विषयविभागेन शब्दार्थमुपसंहृत्य
१ 'यः कोऽपि' इति चेत् पाठः स्यात् तदा 'यः कोऽपि भवति [ स भवनपरमार्थत एव ]' इति मूलं सम्भावनीयम् ॥ २°षयन्नाभ्य भा० । षयत्वाभ्यय०॥ ३ व्यावृत्त्या प्र०॥ ४ यत्कोऽपि प्र० । अत्र 'यः कोऽपि' इत्यपि भवेत् पाठः ॥ ५ पृ. ७०७ पं० १२, पृ० ७१७ पं० १८॥ ६* एतदन्तर्गतः पाठो भा० प्रतौ नास्ति । ७ वैकान्त° य०॥ ८ दाख्या-नार्थः भा० । दाख्यापनार्थः' इति पाठोऽप्यत्र सम्भाव्येत ॥ ९°ध्यम् प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org