________________
न्यायागमानुसारिणीवृत्यलङ्कृतं
[ अष्टम उभयनियमारे
सामान्यधर्मेषु तदनुबन्धिभेदेषु चाविनाभाविषु दर्शनसंस्पर्शेन तद्व्यतिरिक्तेष्वदर्शन संस्पर्शेनान्यापोहस्य प्रवृत्तत्वाददोषः । अत एव चेदं स्वसम्बन्धिभ्योऽन्यत्रादर्शनात् तद्व्यवच्छेदानुमानम् । यत्र दृष्टः सोऽत्र सम्बन्ध्यभिप्रेतो न त्वविनाभावित्वसम्बन्धेन । अन्यत्रादर्शनादिति अनुमेयाभावेऽदर्शनात्, अन्यथा हि वृक्षशब्दस्य धूमस्य च तस्मिन् वस्तुनि पृथिवीद्रव्याद्यभा5 वेsपि दर्शनं वक्तव्यं स्यात् । तद्वयवच्छेदानुमानमिति यत्रैवादर्शनमुक्तं वृक्षाभावेऽवृक्षेऽन्यभावेऽनग्नौ वा ततो व्यवच्छेदानुमानम् - अवृक्षोऽनग्निर्वा न भवतीति । एवं च कृत्वा वृक्षशब्दाद् धूमाच्च द्रव्यत्वाद्यनुमानमुपपन्नं भवति । इतरथा तु द्रव्यादीनामप्यन्यत्वादतुल्य एव वृत्तेरपक्षधर्मत्वानैकान्तिकत्व - विरुद्धत्वानुमानाभावदोषाः स्युः । द्रव्यादित्यागे तइविनाभाविनः स्वार्थस्य चासम्भव एव । तस्मात् स्वसम्बन्ध्यभावेऽदर्शनादनुमानस्य सिद्धिः [ ] इति ।
10
७१८
एवं तर्हि यदि सत्तादीनि विशेषणानि वृक्षो भवन्ति स वा तानि भवति एक भवनात्मकोsर्थोऽस्य वृक्षशब्दस्य तत्स्वात्मवत् ततोऽनन्यत्वात् द्रव्यादिवृक्ष
सत्ताद्रव्यत्वादिसामान्यधर्मास्तदनुबन्धिनो भेदाश्च शिंशपादयः तेष्वविनाभाविषु दर्शनसंस्पर्शेन तद्व्यतिरिक्तेषु घटादिष्वदर्शनसंस्पर्शेन जलादिषु चान्यापोहस्य प्रवृत्तत्वान्न सम्भवन्त्युभयपक्षगता दोषाः ।
अत एव चेदमित्यादि एतत्पक्षसंश्रयदर्शनार्थं भाष्यग्रन्थमाह स्वसम्बन्धिभ्योऽन्यत्रादर्शनादि - 15 त्यादि । अस्य व्याख्या टीकाग्रन्थो यत्र दृष्ट इत्यादिः यावदवृक्षोऽनग्निर्वा न भवतीति गतार्थः । एवं च कृत्वेत्यादि यावदुपपन्नं भवतीति, अनेक विनाभाविनां पृथिवीद्रव्यत्वादीनां वृक्षशब्दाद् धूमाच्चा४६७- १ नुबन्धिनामनुमानं युज्यते तद्दर्शनस्पर्शेन, वृक्षत्वात् पृथिवी द्रव्यं सच्च धूमत्वाच्च वृक्षवदद्भिवश्चेति । इतरथा त्वित्यादि, अत्यन्तव्यतिरेके सम्बन्धित्वाभावेऽनुबन्धिनां द्रव्यादीनामप्यन्यत्वादतुल्ये विपक्ष एव वृत्तेरपक्षधर्मत्वनैकान्तिकत्वविरुद्धत्वानुमानाभावदोषाः स्युः । अनुबन्धिनां द्रव्यादीनां त्यागे तदविनाभाविनो 20 वृक्षस्य स्वार्थस्यासम्भव एवेति च दोषः । ततः प्रत्याय्य प्रत्यायनयोरर्थशब्दयोरनुपपत्तिः । तस्मात् स्वसम्बन्ध्यभावेत्याद्युक्तोपसंहारः, सम्बन्धिनोऽर्थान्तरस्य भावे दर्शनात् सम्बन्धिन एव भावाभावेऽदर्शचानुमानस्याभिप्रेतस्य सिद्धिरिति ।
अत्रोत्तरमुच्यते एवं तर्हीत्यादि । यदि सत्तादीनीत्यादि सत्ताद्रव्यपृथिव्यादीनि विशेषणानि वृक्षस्य वृक्षादभिन्नानि सन्ति वृक्षो भवन्ति तानि वृक्ष एवेत्यर्थः, स वा वृक्षस्ता भवन 25 विशेष्यन्ते देवदत्तपाण्यादिवदेकभवनात्मनेत्येतदापन्नम् । तस्मिन्नेकभवने प्रयोगः शाखादिमति दर्शनमित्युच्यते ऽस्यार्थः स एकभवनात्मकोऽर्थोऽस्य वृक्षशब्दप्रयोगस्य । किमिव ? तत्स्वात्मवत् सत्ताद्रव्यत्वादिवृक्षस्वात्मवद् वृक्षस्य सत्ताद्रव्यत्वादिस्वात्मवत् एकभवनात्मवदित्यर्थः । कस्मात् ? उक्तन्यायेन ततोऽनन्यत्वात् तेभ्यस्तस्य तस्माद् वा तेषामनन्यत्वात् द्रव्यादिवृक्षभावदर्शनाद् वृक्षद्रव्यादिभावदर्शनादित्यर्थः ।
I
१ तुलना- पृ० ६५२ पं० २२ ॥ २ 'स्वसम्बन्ध्यभावादर्शनात्' इत्यपि भवेदत्र पाठः । भा० प्रत्यनुसारेण 'सम्बन्ध्यभावादर्शनात्' इत्यपि भवेत् ॥ ५ इत्यादि य० ॥ ६ पृ० ६५२ पं० २२ ॥ ७ वृक्षवाद अयमपि पाठः समीचीनो भाति, ११ ऽस्योस्यार्थः भा० ॥
९ तस्मात् सम्बन्ध्य भा० ॥
१० (नात्मतेत्येतदापन्नम् ? ) ।
Jain Education International
३ पृ० ६५२ पं० ४ ॥ ४ पृ० ६५२ पं० १८ ॥ भा० । वृक्षत्वाद य० ॥ ८'त्वान्नै' य०॥ व्याख्यायां 'सम्बन्धिनोऽर्थान्तरस्य' इति दर्शनात्
॥
For Private & Personal Use Only
www.jainelibrary.org