________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
७१७ वृक्ष एव व्याख्येयः। स स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् 'अवृक्षो मदभावः' इति, तस्य भावेन लभ्यात्मलाभत्वात् ।
ततश्च वृक्ष इत्यवृक्षो न भवतीतीदमुक्तं भवेत्-योऽभावाभावः स वृक्षः । ततो घटपटादीनामभावनिवृत्तिमात्रत्वाद् वृक्षशब्दार्थवत्त्वं प्राप्तम् , कुतोऽपोहस्तेषां स्यात् ।
__ सर्वथा वा गतिर्भवेत् । सर्वदर्शननिराकासन्तायां शब्दादनुमानाद्वा वृक्षोऽग्निरिति च विशेषवचनप्रत्ययानर्थक्यं स्यात् , अभावाभावमात्रस्यैकत्वात् , भेदविषयवचनानुमानव्यवहारनिर्विषयत्वात् अभूतभेदविषयत्वात् खपुष्पादिवत् ।।
अत्रोच्येत-नाप्यशेष...... .......... । किं तर्हि ? स्वसम्बन्धित्वात्, स स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् 'अवृक्षो वृक्षाभावो मदभावः' इति, 10 खपुष्पमिव वन्ध्यापुत्रः ? कस्मात् ? तस्याभावस्य भावेन लभ्यात्मलाभत्वात् स स्वयमसन् कथमसतो विशेषणं स्यात् ? उभयत्र चान्वये व्यतिरेके च घटादीनां भेदरूपाणां सपक्षासपक्षयोरसंस्पृश्यत्वेनेष्टत्वाद् न किञ्चित् केनचिद् विशेषयितुं शक्यम् ।
ततश्चेत्यादि । अस्मादुक्तन्यायादेष शब्दार्थः संवृत्तः, 'वृक्ष इत्यवृक्षो न भवति' इत्युक्ते इदमुक्तं भवेत् सम्भाव्येत योऽभावेत्यादि, अभावस्याभावो वृक्ष इत्युक्तं स्यात् , नान्यदभावनिवृत्तेः । ततो घट-15 पटादीनामभावनिवृत्तिमात्रत्वाद् वृक्षतावद् वृक्षशब्दार्थवत्त्वं प्राप्तम् , कुतोऽपोहस्तषां स्यात् ? तत्संस्पर्शे हि स्यादपोहँस्ते वृक्षो न भवतीति । इत्थमपोहाभावः, अनिष्टं चैतत् ।
किश्चान्यत् , सर्वथा वा गतिर्भवेत् , अभावाभावमात्रं हि वृक्षोऽग्निर्वा स्यात् , न सपक्षासपक्षभेदसंस्पर्शेन दृष्टवत् । अतः सर्वदर्शननिराकाङ्कता, तस्यां च सत्यां शब्दाद् वृक्षादनुमानाद्वा धूमादभावाभावमात्रवृक्षाग्नित्वाददृष्टभेदासंस्पर्शादेव त्वदुक्तात् 'वृक्षोऽग्निः' इति च विशेषवचनप्रत्ययानर्थक्यं स्यात् । 20 कस्मात् ? अभावाभावमात्रस्यैकत्वादिति स्वपरार्थानुमानयोः सामान्येन हेतुः खपुष्पादिवदिति ४६६-२ दृष्टान्तः । विशेष्य वा हेतुः-भेदविषयवचनानुमानव्यवहारनिर्विषयत्वात् , अभूतभेदविषयत्वादिति सामान्येन । स एव दृष्टान्तः सर्वत्र, अन्तेऽभिहितत्वात् । अयमन्यो व्याख्याविकल्पः, तद्यथा विकल्पः-सर्वथा वाऽगतिर्भवेत् प्रश्लेषलभ्याकारत्वात् । अगतिरज्ञानं वृक्षशब्दोच्चारणाद् भवेत् सर्वथा। कस्मात् ? गन्तव्याभावात् । गन्तव्याभावश्वाभावाभावमात्रवृत्तित्वाच्छब्दानुमानयोरिति ।
25 अत्रोच्येतेत्यादि । स्वभेदाभावव्यावृत्तिलक्षणान्यापोहेऽनन्तत्वादसँम्भवसम्बन्धाभिधानादिदोषा उक्ताः । सामान्याभावाभावमात्रे सर्वैकत्वानर्थक्यापोहोभावदोषा उक्ताः । तेषां पक्षद्वयानभ्युपगमात परिहारः-नाप्यशेषेत्यादि । किं तर्हि ? इति पक्षान्तरं श्रयते निर्दोष मन्यमानः, स्वसम्बन्धिवृक्षस्याग्ने,
१ पृ. ७०७ पं० १२ पृ. ७१९ पं० १९॥ २ अवृक्षो भावो मद भा० ॥ ३ स्पृशात्वे प्र०॥ ४ सभाव्येत य० । सभावोत भा० ॥ ५ (वृक्षता भवेद् ! ) ॥ ६ ( °हस्तेषां वृक्षो न भवतीति ? ) । (°हस्ते वृक्षो न भवन्तीति?) तुलना पृ० ७१८ पं० २४ ॥ ७त्वादृष्टमेदाभा०॥ ८°संभवसंभवसंबंधाप्र०॥ ९पृ० ७१६ पं० २०॥ १० पृ० ७१७ पं० २१ ॥ ११ पृ० ७१७ पं० २०॥ १२ पृ० ७१७ पं० १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org