________________
.
.
..
७१६
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे एवं श्रुतिमात्रतत्त्वो गवादिरेकः शब्दोऽनेकार्थगमकशक्तियुक्तः एकादित्य[तपन-प्रकाशन......."अनेकार्थ]कारित्ववत् । प्रत्यर्थवृत्ति .......
संसर्गो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दस्यार्थव्यवच्छेदे विशेषस्मृतिहेतवः ॥ [वाक्यप० २। ३१७, ३१८) अथोच्येत--सर्वथाऽदृष्टत्वात् स्थिते तु स्वार्थस्याभावे सामान्याभावमात्रनिवृत्तिरभावभेदासंस्पर्शात् ।
अथ स्वार्थाभावाभावमात्रत्वे कः शब्दार्थः 'वृक्ष [इत्यवृक्षो न भवति' इति] तच्छब्दधूमलिङ्गाभ्यामन्यावपोह्याववृक्षानग्नी भेदासंस्पर्शेन । तत्र च प्रसह्यप्रतिषेधार्थे तन्मात्रमेव च गम्येत । न वृक्षपर्युदासेन घटादिरर्थात्माऽन्यः कश्चिल्लभ्यते।
__ एवं श्रुतिमात्रेत्यादि । अनेनोक्तन्यायेन श्रुतिमात्रतत्त्वो गवादिरेकः शब्दो[ऽप्र]तिलब्धविभागोऽनेकार्थगमकशक्तियुक्तः । किमिव ? एकादित्येत्यादि यावत् कारित्ववदिति गतार्थः प्रोक्तार्थोपसंहारः। 15 स्यान्मतम् -एकस्यानेकार्थकारित्वे विभागप्रतिपत्त्यभावादव्यवच्छेदप्रसङ्ग इति । तन्न, प्रत्यर्थवृत्तीत्यादि यावद् विशेषस्मृतिहेतवः इति यथासङ्ख्यं संकरभायुदाहरणभावितार्थ कारिकाद्वयं निमित्तान्तरादेकार्थावच्छेदाख्यानम् । आदिग्रहणाद् गौण-मुख्य-स्तुति-निन्दादिभावार्थकृतव्यवच्छेदादिति ।।
अथोच्यतेत्यादि । अथ परेणोच्येत-ननूक्तमेव "गुणसमुदायमात्रस्य काणकुण्टादेर्दर्शनासम्भवः, सत्यपि च दर्शने सर्वथानुमानासम्भवः सर्वप्रकारेणादृष्टत्वात्' इति निराकाङ्कीकृते मूलत एव 20 पुनरिदानी को विचारः-दर्शनं स्यात् न स्यादिति ? स्थिते तु स्वार्थस्याभावे सामान्यरूपस्याभावमात्रस्य निवृत्तिरभावभेदासंस्पर्शात् 'वृक्ष इत्यवृक्षो न भवति अग्निरित्यन ग्निर्न भवति' इत्यवृक्षानन्यभावभेदा
संस्पर्शेनोच्यते, न वाऽभावस्य भेदाः सन्ति । तस्मात् सर्वाभावभेदेदर्शनेन विनैवापोहो गमक इति । ४६६-१ अत्रोच्यते-अथ स्वार्थाभावाभावमात्रत्वे त्वदिष्टे कः शब्दार्थ इति पृच्छति वृक्ष इत्यादि
प्रत्युच्चार्यात्राप्यपोहाभावमापादयितुकामः । तच्छब्दो वृक्षशब्दः परार्थेऽनुमाने स्वार्थे धूमश्च लिङ्गे, 25 ताभ्यामन्या[व]पोह्याववृक्षानग्नी घटादिभेदरूपाण्यसंस्पृश्येत्यभिमतोऽर्थः, तत्र च "प्रसह्यप्रतिषेधार्थे 'वृक्षो
न भवत्यवृक्षः' इति तन्मात्रमेव च गम्येत, न च गम्यत इत्यभिप्रायः । वृक्षादन्योऽवृक्ष इति न वृक्षपर्युदासेन घटादिरात्माऽन्यः कश्चिल्लभ्यते, अन्यस्यासत्त्वादविवक्षितत्वाच्च वृक्ष एव व्याख्येयो विवक्षित
१ दृश्यतां पृ० १२७ पं० ११-१४ । टिपृ. ५६ टि. १॥ २ तुलना पृ० ७०५॥ ३'सकरभा धेनुरानीयताम्' इत्यत्र 'करभ'संसर्गाद् विशिष्टा एव धेनुरवगम्यते । एवमन्यान्यप्युदाहरणानि टिपृ० ५६ टि. १ इत्यतोऽवसेयानि ॥ ४ अथोच्यते प्र०॥ ५ तुलना-पृ० ६५२ पं० १४ । पृ. ६६२ पं० २ पृ. ७०९ पं. ९ ॥ ६ स्यात् न य० प्रतौ नास्ति ॥ ७ तुलना पृ० ७१७ पं० २७ ॥ ८ वाभावस्य प्र० । 'चाभावस्य' इत्यपि भवेत् पाठः ॥ ९°दादर्शनेन प्र०॥ १० द्विवचनान्तमिदं पदम् ॥ ११°मतोर्थसूत्रं च प्र०॥ १२ (प्रसज्यप्रति°१)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org