________________
दिङ्गागप्रणीता पोहवादनिरासः ] द्वादशारं नयचक्रम् ।
७१५
एकोत्तरशतनामत्वाच्चाम्भसो विषमविषं भवति अविषमपि विषं भवतीत्यादि । तथा पीलुवृक्षो वृक्षत्वादपीलुर्भवति धवादिवत्, हस्तिवत् पीलुर्वा । अतः पीलुरपीलुरपि पीलुश्च, अपीलुरपीलुरपि पीलुश्च । एवं हरिरामार्जुनादयोऽपि ।
|
एवं तावदनेकार्थैकशब्दत्वेऽन्यापोहाभावः । अनेकशब्देकार्थत्वेऽपि तद्यथा - एकोत्तरशतनामत्वाच्वाम्भस इत्यादि । 'सलिलमुदकममृतं वा जीवनं विषम्' इत्याद्येकोत्तरं शतमुदकनामानि निरुक्ते पठ्यन्ते । ततो विषमविषं भवति, अंविषमपि विषं भवति, अपानीयं ग्रन्थिसर्पादिविषं मारणात्मकं न, जीवनात्मकम् । जीवनात्मकमप्युदकादि मारणात्मकं दुष्प्रयोगादित्यादि गमनिका । आदिग्रहणाद् घृतमघृतमित्यादि । तथा पीलुवृक्षः वृक्षत्वादपीलुर्भवति धेवादिवत्, हेस्तिवत् पीलुर्वा । हस्त्यपि पीलुरपीलुर्भवति हैंस्तित्वाद् मनुष्यवत् । तथा विपर्ययेणाह स्तित्वादपीलुर्भवति पीलुवृक्षः, अवृक्षत्वादपीलुर्हस्तीति । अत इत्युपसंहरति । पीलुरपीलु पीलुश्च, अपीलुरपीलुरपि पीलुश्चेति । ' एवं हरिरामार्जुनादयोऽपि 10 ईति च व्यापितामप्यस्य न्यायस्योदाहरणबाहुल्येन दर्शयति । क्र -सिंह- वासुदेव- मण्डूक-वानर- ह्यादिषु ४६५-२ हरिशब्ददर्शनादहरिर्हरिश्च । रोमो रम्यवर्ण- दाशरथि बलदेव - जामदम्येषु अर्जुनस्तृण- सुवर्ण-वृक्ष-पाण्डवकार्तवीर्येषु दर्शनादित्यादि तच्चातश्च पूर्ववत् ।
१ " अर्णः । क्षोदः । क्षद्म । नभः । अंभः । कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु । पुरीषम् । पिप्पलम् | क्षीरम् । विषम् । रेतः । कशः । जन्म । बृबूकम् । बुसम् । तुम्या । बुर्बुरम् । सुक्षेम । धरुणम् । सिर । अररिन्दानि । ध्वस्मन्वत् । जामि । आयुधानि । क्षपः । अहिः । अक्षरम् । स्रोतः । तृप्तिः । रसः । उदकम् । पयः । सरः । भेषजम् । सहः । शवः । यहः । ओजः । सुखम् । क्षत्रम् । आवयाः । शुभम् । यादुः । भूतम् । भुवनम् । भविष्यत् । महत् । आपः । व्योम । यशः । महः । सकम् । स्तृतीकम् । सतीनम् । गद्दनम् । गभीरम् । गंभरम् । ईम् । अन्नम् । हविः । सद्म । सदनम् । ऋतम् । योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । बर्हिः । नाम । सर्पिः । अपः । पवित्रम् | अमृतम् । इन्दुः । हेमः । खः । सर्गाः । शंबरम् । अभ्वम् । वपुः । अंबु । तोयम् । तूयम् । कृपीटम् । शुक्रम् । तेजः । स्वधा । वारि । जलम् । जलाषम् । इदमित्येकशतमुदकनामानि ॥ १।१२ ॥” इति यास्कनिरुक्ते नैघण्टुककाण्डे १०१ नामानि । "नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं तोयं जीवन जीवनी यसलिला स्यम्बु वाः संवरम् । क्षीरं पुष्कर मेघपुष्पकमलान्यापः पथःपाथसी कीलालं भुवनं वनं घनरसो यादो निवासोऽमृतम् ॥४|१३५ ॥ कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।” - अभिधानचिन्ता० । “ शेषश्चात्र -- जले दिव्य मिरासेव्यं कृपीटं घृतमङ्कुरम् । विषं पिष्पलपातालमलिलानि च कम्बलम् ॥ पावनं षइरसं चापि वहूरं तुसितं पयः । किट्टिमं तदतीसारं सालूकं पङ्कगन्धिकम् । अन्धं तु कलुषं तोयमति स्वच्छं तु काचिमम् ॥” - अभिधानचिन्तामणिखोपज्ञवृत्तिः ४।१३५ ॥ २ ऽविषमपि य० । विषमपि भा० ॥ ३ मरणा प्र० ॥ ४ धनादि य० ॥ ५ " द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ।" - अमरकोश. ३।३।१९३॥ ६ हस्तवत्त्वादित्यर्थः ॥ ७० ॥ लुरपि य० ॥ ९ इति व व्यापी भा० । इति व्यापि य० । १० 'हुल्येन न दर्शयति य० निलेन्द्र चन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ - अमरकोष ३।३।१७४ ॥ १२ "बले रामो नीलचा रुसित त्रिषु । ” – अमरकोष. ३।३।१४० । “रामः पशुविशेषे स्याजामदभ्ये हलायुधे । राघवे च सितश्वेतमनोज्ञेषु च वाच्यवत् ॥”विश्व ॥ १३ " अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद् धवले पुनरन्यवत् ॥ नपुंसके तृणे नेत्ररोगे स्यादर्जुनी गवि । उषायां बाहुदानद्यां कुहन्यामपि च क्वचित् ॥" - मेदिनी ॥
॥
Jain Education International
For Private & Personal Use Only
८ लुपी
११ " यमा
5
www.jainelibrary.org