________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
७२१ अत्र ब्रूमः-गुणदोषाभिमानस्ते खपक्षरागात् । अन्वयद्वारेण चानुमानेऽयं गुणः-दृष्टबलेनैवार्थादिभिः सह शिंशपादिषु वृक्षशब्दस्य दृष्टत्वान्निश्चयो भवति केवलात् संशयो यथादर्शनमनुमानप्रवृत्तेः । एवमेव च वृक्षार्थ[भवनेन विना वृक्षो न भवतीति वृक्षशब्दात् तद्भवनं यथा प्रतीयते तथा पार्थिवद्रव्यसत्त्वानि प्रतीयन्ते, तैर्विना] वृक्षभवनस्यैवादर्शनात् । विधिरूपेण दर्शनसामर्थ्येनैव च 5 वृक्षपार्थिवद्रव्यसच्छब्दा आनुलोम्येन त्रिद्वयेकार्थनिश्चयहेतवः, प्रातिलोम्येन संशयहेतवः । एवं गम्यताम् ...........
यदप्यनियतशिंशपं गम्यते तत्रापि विशेषादर्शनादगतिविशेषदर्शनाद गतिः। यथा अविभातैकदेश......"तथा वृक्षशब्दात्...."संशयः, तद्भावदर्शनन्यायवत् ।
वयं त्व[त्र] ब्रूमः-गुणदोषाभिमानस्ते स्वपक्षरागादिति । व्याख्या-अन्वयद्वारेण *चानु-10 मानेऽयं गुण इत्यादि, दृष्टवलेनैव हि अर्थ-प्रकरण-विशेषणादिभिः सह शिंशपादिषु दृष्टत्वान्निश्चयो भवति, तैर्विना * नै दृष्टत्वात् केवलात् संशयः, किं कारणम् ? यथादर्शनमनुमानप्रवृत्तः । विशेष (वार्थादिरपि शिंशपादिवत् , विशेषादर्शनादेव पलाशाद्यपि । वृक्षशब्दसामान्यात् संशयो भवति अदृष्टत्वाद् विशेषविरहितस्य । निश्चयस्तु विशेषसहितस्य दृष्टत्वात् । यदप्युच्यते- सत्त्व-द्रव्यत्व-पार्थिवत्वादिषु कस्माद् निश्चयो भवति ? इति, तत्रापि दृष्टबलादेव, एवमेव च वृक्षार्थेत्यादि यावद् वृक्षभवनस्यैवादर्शनादिति 15 एतदुक्तं भवति-यथा वृक्षः स्वार्थभवनेन विना न भवतीति वृक्षशब्दात् तद्भवनं प्रतीयते तथा पार्थिवद्रव्यास्तित्वैर्विना वृक्षत्वस्याभवनाद् वृक्षत्वभवनप्रतीतिवत् पार्थिव-द्रव्य-सत्त्वानि प्रतीयन्ते तैर्विना तस्यैवादर्शनादिति । यदपि च वृक्षशब्दात् पार्थिव-द्रव्य-सत्त्वत्र्यर्थगतिः पार्थिवशब्दाद् द्रव्य-सत्त्वव्यर्थगतिः ४६९.१ द्रव्यशब्दात् सत्त्वगतिः प्रतिलोम्येन सदाद्यानुलोम्येन चोत्तरेषु पूर्वस्मात् संशय इति तदपि विधिरूपेण दर्शनसामर्थेनैव च वृक्षपार्थिवद्रव्यसच्छब्दा आनुलोम्येनेत्यादि तत्प्रदर्शनं गतार्थं यावत् संशयहेतव 20 इति दर्शनस्यव निश्चय-संशयहेतुत्वात् ।।
एवं गम्यतामित्यादिरुक्तोपसंहारो तु[ य?]दर्थप्रकरणादिसहिताद् वृक्षशब्दाच्छिशपाव॒क्षत्वतत्त्वाद् धवादिभ्योऽर्थेभ्योऽन्यस्माच्छिशपादिशब्दाद् विशेषात्मकादिव विशेषदर्शनादेवेति ।
यदप्यनियतशिंशपमित्यादि । योऽयं वृक्षशब्दोच्चारणे कदाचिच्छिशपाया गतिः कदाचित् तदगतिरित्यनियमः स विशेषादर्शनादगतिः विशेषदर्शनाद् गतिः । तत्र निदर्शनम्-यथा अविभातैकदेशे-25 त्यादि धूमविषयं प्राग्वर्णितं दर्शनं संशयाय, विशिष्टं तु निश्चयायेति दृष्टान्तः । दार्टान्तिकोऽर्थः-तथा वृक्षशब्दादित्यादि यावत् संशयः। केन पुनायेनैतदेवम् ? इति तद् व्याचष्टे-तद्भावदर्शनन्यायवत् , यथोपवर्णितं प्राग् "देश एवाग्निधूमात्मकस्तद्भावेन दृष्टो विधिना आत्मानमेवात्मना साधयतीत्यादि स एवात्रापीति ।
१द्वारेणा य०॥ २ * * एतदन्तर्गतः पाठो य. प्रतौ नास्ति ॥ ३ नष्टत्वात् यः॥ ४ अर्थादिःअर्थप्रकरणलिङ्गादिः ॥ ५ आतिलों प्र०॥ ६ अत्र कश्चित् पाठः खण्डितः प्रतीयते ॥ ७ वृक्षतत्त्वाद् भा० ॥ ८तसंशयमित्यादि य० ॥ ९प्राग्वर्णनं य० ॥ १० यायाविशिष्टं प्र० ॥ ११ देश वाग्नि य० ॥ १२ त्यादिः प्र०॥
नय०९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org