________________
७२२
न्यायागमानुसारिणीवृत्त्यलङ्कतं अष्टम उभयनियमारे एवं वृक्षत्वस्य पृथिवीत्वादिभिस्त्रिभिः पृथिव्या द्रव्यसत्त्वाभ्यां द्रव्यस्य सत्त्वेनानुलोम्येन तथा दर्शनात् प्रातिलोम्येन तथाऽदर्शनाच निर्णयसंशयौ।।
अथ मन्येत-तावेतौ न युक्तौ दर्शनादुभयतोऽपि अविशेषो निश्चय एव वा स्यात् । मन्मते तु युक्ती, अतुल्यत्वात् खार्थाभावे वृत्त्यवृत्त्योः । संशयहेतवस्तावद् 5 वृक्षादिशब्दाः, शिंशपादिखार्थाभावेऽपि पलाशादौ वृत्तेः। निश्चयहेतवस्तु वृक्षावयवान् व्यामुवन्तस्तदनुवन्धिनश्वार्थान् , खार्थाभावेऽवृत्तेः ।
न दर्शनस्यैवोत्सर्गापवादभूतत्वाद् वस्तुनोऽतुल्यत्वात्, स्थाणुपुरुषोर्द्धत्वसामान्यशकुनिनिलयनवस्त्रसंयमनविशेषदर्शनवत्।
ननूक्तम्-अवृक्षादावदर्शनात् 'तद्व्यवच्छेदानुमानं स्वार्थाभिधानम् [प्र० समु० वृ० ५। 10३४ ] इति । एवं च सति क तद् दर्शनम् ? ।
एवं वृक्षत्वस्येत्यादि प्रकृतोपसंहारः, शिंशपादिविशेषेषु पृथिव्यादिसामान्येषु च तुल्यमप्यनेकत्र वृत्तं वृ[क्ष]त्वं स्वार्थेन सहैव वृत्तेः पृथिवीत्वादिभिर्गम्यते त्रिभिरानुलोम्येन पृथिवी-द्रव्य-सत्त्वैः पृथिवी, द्रव्य-सत्त्वाभ्यां द्रव्यं, सत्त्वे त्वेकमेव आनुलोम्येन तथा दर्शनात् । सत्त्वाद्यत्तरोत्तरसंशयस्तु प्राति
लोम्येनादर्शनादेव तथेति यावद् निर्णयसंशयाविति गतार्थः । ४६९-२ अथ मन्येतेत्यादि परमतमाशङ्कते । तावेतौ निश्चयसंशयौ न युक्तौ दर्शनादुभयतोऽपि वृक्षदर्श15 नस्य धव-शिंशपयोरविशेषो निश्चय एव वा स्यात् । मन्मते पुनरन्यापोहे स्वार्थाभावे [वृत्तः] संशयो युज्येत अवृत्तेश्च निश्चयः, कस्मात् ? अतुल्यत्वात् स्वार्थाभावे वृत्त्यवृत्त्योः, ते हि स्वार्थाभाववृत्त्यवृत्ती यथासङ्ख्यं संशयनिश्चयहेतू । तद् व्याचष्टे-संशयहेतवस्तावद् वृक्षादिशब्दाः शिंशपादिस्वार्थाभावेऽपि पलाशादौ वृत्तेः, सदादिशब्दाश्च द्रव्यादिस्वार्थाभावेऽपि गुणादौ वृत्तः संशयहेतवः। निश्चयहेतवस्तु 20 वृक्षावयवाञ्छाखादीन् व्याप्नुवन्तः पार्थिवमृद्रव्यत्वादींश्चानुबन्धिनोऽर्थान् स्वार्थस्याभावे न वर्तन्ते, ततस्ते व्यावृत्तिबलेनैव निश्चयहेतव इति ।
___ एतच्च न, दर्शनस्यैवोत्सर्गापवादभूतत्वात्, वृक्षभवनदर्शनमेव हि पलाशशिंशपादिषूत्सर्गेण प्रवृत्तं [संशयाय] शिंशपाभवननियतमपवादभूतं निश्चयाय । कस्मात् ? वस्तुनोऽतुल्यत्वात् , वस्त्वेव हि विशिष्टमतुल्यं शिंशपापलाशाख्यं परस्परतः, तदुपकारित्वात् सामान्यवृक्षभवनस्य सामान्यादुपसर्जनात् 25 इत्युक्तन्यायत्वात् । किमिव ? स्थाणु-पुरुषेत्यादि दृष्टान्तो यावद् दर्शनवदिति यथा ऊर्द्धत्वं सामान्य 'स्थाणुः स्यात् पुरुषः स्यात्' इति संशयहेतुः, शकुनिनिलयनं 'स्थाणुरेव' इति निश्चयहेतुर्विशिष्टत्वात् , वस्त्रसंयमनं वा 'पुरुष एव' इति, तथैव वृक्षशिंशपादिष्वपि दर्शनादेव ।
अत्राह-ननूक्तमित्यादि । वृक्षादेरभावो हि अवृक्षादि, तत्रैवादर्शनम् , ततो व्यवच्छेद्यमानं यत् तवृक्षादि न भवतीति तदेव स्वार्थाभिधानमिति । एवं च सति क तद् दर्शनं यत् त्वयेष्टम् ? यतो
१ दृश्यतां पृ. ६५० पं० २० ॥ २ प्रकृतोपसंहारो गतार्थ इति वक्ष्यमाणेन सम्बन्धः ॥ ३ वृत्तं वृत्वं भा० । वृत्तं वृत्तं य०॥ ४ सत्वे त्वेकमेव प्र० । ( सत्त्वेकमेव ?)॥ ५पृ. ६१४ पं० ४ ॥ ६ ऊर्द्धत्वसामान्य भा० ॥ ७'व्यवच्छेदानुमानम्' इति पाठोऽत्र सम्यग् भाति, तुलना-पृ० ६५० पं० २० ॥ ८ ततो भा०॥
४७०-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org