________________
७२३
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।।
नन्वदर्शनाद् दर्शनस्यैव सिद्धिरेवम् । यदि दर्शनं नाभ्युपगम्यते वृक्ष इत्यत्रावृक्षाभाव एवोक्तः स्यात् तत इदमदर्शनमेवावृक्षे । तत्रावृक्षस्यैवाभावः, कुतस्तददर्शनमवृक्षस्य वृक्षदर्शनेनैव व्याप्तत्वात् । तस्माद् दर्शनमेवैवं सिध्यति ।
अपितृवदवृक्षादर्शनं व्यतिरेक इति चेत्, न उक्तवत् । व्यवस्थाकारि...... स्थिते हि वृक्षे दर्शने त्ववृक्ष इति स्यात् । स तु तव कदा........तच नेष्यत एव ।।
विधिप्राधान्ये तु पृथिवीत्वाद्युत्तरभवनं वृक्षभवनविज्ञानविध्यापाद्यं तदात्म
दर्शनोत्सर्गापवादाभ्यां वस्तुनोऽतुल्यत्वात् संशयनिश्चयाविष्येयाताम्, तत्तु नास्ति दर्शनम् । वयं ह्यानन्त्यव्यभिचारादिदोषान् दर्शनपक्षेऽपेक्ष्यादर्शनसाधनार्थम]वृक्षाद्यभावो वृक्षादिशब्दार्थ इति कल्पयामो दर्शनस्यैवाभावात् तदोषासंस्पर्शाददर्शनमात्रस्याभिन्नत्वादिति ।
___ अत्रोच्यते नन्वदर्शनादित्यादि । ननु दर्शनस्यैव सिद्धिरेवम् अदर्शनस्यादर्शनात् । तद् व्याचष्टे-10 यदि दर्शनमन्वयो विधिर्नाभ्युपगम्यते वृक्ष इत्यत्रावृक्षस्याभाव एवोक्तः स्यात्, न वृक्षो नाम कश्चित् स्यात् । ततः किम् ? तत इदमदर्शनमेवावृक्षे, व्यतिरेक एवेत्यर्थः । ततश्चाभावमात्रमेव खपुष्पादीत्यादिप्रागुक्तवन्न किश्चिदुक्तं स्यात् 'अवृक्षाभावो वृक्षः' इत्यभावमात्रत्वात् । तत्रावृक्षस्यैवाभावो वृक्षीभूतत्वात् सर्वस्यावृक्षाभावस्य कुतस्तददर्शनमवृक्षस्य वृक्षदर्शनेनैव व्याप्तत्वात् ? वृक्षदर्शनबलादेव चावृक्षादर्शनसिद्धिः, वृक्षदर्शनाच्च 'अयं वृक्षः, अयं घटादिरवृक्षः' इति सिद्धिः, नादृष्टे । तस्माद् दर्शनमेवैवं सिध्यति 15 नादर्शनमिति ।
अपितृवदवृक्षादर्शनं व्यतिरेक इति चेत् । स्यान्मतम्-'पितुरन्योऽपिता सर्वः' इत्यादिप्रागुक्तवददर्शनमिति । एतच्च न, उक्तवत् पितॄकल्पस्य दर्शनं स्यादत्रापि, न चेत् प्रागुक्तवदेवानुपपत्तिः, प्रत्यक्षदर्शनबलेन हि 'अयं वृक्षः, अयमन्योऽस्माद् घटादिरवृक्षः' इति व्यवस्थिते विधिना दृष्टेऽन्यापोहलक्षणम-४७०-२ दर्शनं स्यात्, नान्यथेति । एतदर्थप्रदर्शनो ग्रन्थः-व्यवस्थाकारीत्यादि यावत् स्थिते हि वृक्षे विधेये 20 दर्शने त्ववृक्ष इति स्यात् विधिना दर्शनान्वये सति सिध्यत्येतदिति दर्शयत्येष ग्रन्थः । व्यावृत्तिपक्षे त्वनिष्टापादनम्-स तु तव कदेत्यादि यावत् तच्च नेष्यत एव त्वयेति विभक्तिपरिणामाद् । घटादिभ्यो व्यावृत्तौ सत्यां वृक्षादिसिद्धिः तत्सिद्धौ घंटादिव्यावृत्तिसिद्धिरित्यनवस्था परस्परतः स्यात् । सा मा भूदिति दर्शनं व्यवस्थापकमेषितव्यं विधिना व्यावर्त्यव्यावर्तकयोवृक्षादिसदाद्यवृक्षाद्यसदाद्योरिति ।
कथं पुनर्विधिप्राधान्ये तदोषाभावः ? उच्यते-विधिप्राधान्ये तु पृथिवीत्वाद्युत्तरेत्यादि साधनं 25 यावत् स्वात्मवदिति । वृक्ष-पृथिवी-द्रव्य-सन्तो वृक्ष-शिंशपा-कुब्ज-कुसुमित-मूल-स्कन्ध-शाखादयश्च वृक्षादयः पूर्वे चोत्तरे च भावा विधिना दृष्टाः, पार्थिवभवनं वृक्षभवनविज्ञानविध्यापाद्यमेव वृक्षात्मकत्वात्
१ पक्षेऽपक्षादर्शन य० ॥ २ नन्वनादित्यादि य० ॥ ३ तुलना-पृ० ७१६ ॥ ४ स्तद्दर्श प्र० ॥ ५ वृक्षावृक्षदर्श य० ॥ ६ पृ० ७०८ पं० ६॥ ७ पृ० ७०९ पं०३ ॥ ८ पृ. ७०९ पं० १०॥ ९पटादिव्यावृत्तिसिद्धि भा० । पटादिव्यावृत्त्य सिद्धि य०॥ १० सामान्यभूदिति प्र०॥ ११ व्यावृर्त्यव्यावृतकयो भा० । व्यावृत्त्यव्यावृत्तकयो य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org