________________
७२४
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे कत्वात् ततोऽनन्यत्वाद् वृक्षखात्मवत् । तथा वृक्षादिपूर्वभवनं शिंशपाद्युत्तरभवनविज्ञान विध्यापाद्यं तदात्मकत्वात् ततोऽनन्यत्वाद् वृक्षमूलादिवत् ।
व्यावृत्तिप्राधान्ये तु दृष्टवत् पार्थिवत्वाद्यसिद्धौ वृक्षो नैव वृक्षः स्यात् पार्थिवत्वेनासिद्धत्वात् तोयवत् । तथा पार्थिवं द्रव्यत्वेनासिद्धत्वात् पार्थिवं नैव स्यात्, 5 गुणवत् । एवं द्रव्यं न द्रव्यं स्यात् सत्त्वेनासिद्धत्वात् खपुष्पवत् । तथा सदपि न सत्, द्रव्यादित्वेनासिद्धत्वात् ।
ततोऽनन्यत्वाद् वृक्षखात्मवत् , वृक्षात्मकत्वं च पार्थिवत्वादीनां पूर्वमापादितं मूलागुत्तरभवनानां चेत्यतस्तदेकात्मकत्वसिद्धौ सत्यां साधनस्य साधीयस्त्वम् । तथा पृथिवीभवनमेव · द्रव्यभवनम् , द्रव्यभवनमेव
सद्भवनमिति । तथा वृक्षादिपूर्वेत्यादि साधनं तद्विपर्ययेण उत्तरभवनधर्मापादनम् , तदनतिरिक्तात्मकत्वात 10 ततोऽनन्यत्वात् , वृक्षमूलादीति दृष्टान्तः । शिशपाद्युत्तरभवनविज्ञानविध्यापाद्यो वृक्षः, तदात्मकत्वात् ,
मूल-स्कम्ध-पलाशादिधर्मात्मना वृक्ष एव यथा भवन् दृष्टस्तथा शिंशपाद्यात्मना वृक्ष एव भवतीति । एवं
विधिरूपेण दृष्टवदेवानुमानं विधिप्राधान्ये युज्यतेऽभिधानं च ।। ४७१-१ त्वन्मते व्यावृत्तिप्राधान्ये तु दोषः । तद्यथा-दृष्टवत् पार्थिवत्वाद्यसिद्धौ पार्थिवद्रव्यसदे
कात्मकभवनमेव वृक्षभवनमनिच्छतोऽस्मन्मतं ते वृक्षो नैव वृक्षः स्यात् पार्थिवत्वेनासिद्धत्वात् तोय15वत् , यथा तोयं पार्थिवत्वेनासिद्धं वृक्षो न भवति एवं वृक्षोऽपि वृक्षो नैव स्यात् । तथा पार्थिवं द्रव्य
त्वेनासिद्धत्वात् पार्थिवं नैव स्यात् , गुणवत्, यथा गुणस्य द्रव्यत्वेनासिद्धत्वादपार्थिवत्वं तथा पार्थिवस्यापि अपार्थिवत्वं स्यात् । एवं द्रव्यं न द्रव्यं स्यात् , सत्त्वेनासिद्धत्वात् , खपुष्पवदिति । पार्थिवद्रव्यसत्त्वासिद्धयोऽसिद्धा इति चेत् , न, व्यावृत्तिप्राधान्येऽन्यत्वात् स्वार्थानुबन्धिभेदानामपि व्यावृ
त्तत्वात् स्वार्थाभावाभावशदार्थत्वात् । प्रसिद्धिविरोधदोष इति चेत्, तवैव व्यावृत्तिप्राधान्याभ्युपगमा20 दोषो न ममेति । तथा सदपि न सत्, द्रव्यादित्वेनासिद्धत्वात् 'खपुष्पवत्' इति वर्तते । एवं पूर्व पूर्व नात्मरूपभाक् स्यात् , उत्तररूपेणाभूतत्वात् , अग्निवदिति यथावद् गतार्थमनिष्टापादनम् । येदप्युक्तम्
गुंणत्व-गन्ध-सौरभ्य-तद्विशेषैरनुक्रमात् ।
अद्रव्यादिव्यच्छेद एकवृद्धयोत्पलादिवत् ॥ [प्र० समु० २ । १४ ] 25 इति व्यावृत्तिप्राधान्ये गुणवत्त्वादिभिरद्रव्यादिव्यच्छेद एकवृद्ध्या युज्यते ।
१ भावनानां प्र०॥ २"मूलादीनि' इत्यपि पाठोऽत्र स्यात् ॥ ३°नुवत्विभेदा प्र० । 'नुवर्तिमेदा इत्यपि स्यादत्र पाठः ॥ ४ शब्दार्थत्वाभावात् य० ॥ ५ पृ० ७२७ पं० १२ 'तदपि' इत्यनेनास्यान्वयः ॥ ६ सवृत्ति के प्रमाणसमुच्चये द्वितीये स्वार्थानुमानपरिच्छेदे दिङ्गागेन यदभिहितं तदत्र भोटभाषान्तरतः संस्कृते परिवोपन्यस्यते
__ अनेकधर्मणोऽर्थस्य न लिङ्गात् सर्वथा गतिः।
अनुबन्धिव्यवच्छेद इतर(एवान्य?)स्मात् प्रतीयते ॥२।१२३ ॥ वह्वेर्दीप्तितैक्षण्यादयो यावन्तो विशेषास्ते सन्तोऽपि धूमेन न गम्यन्ते व्यभिचारात् । ये पुनरनुबन्धिनो यदभावेऽग्निर्न भवति तेषां द्रव्यत्वगुणत्वादीनामद्रव्यादिभ्यो व्यावृत्तिरेव प्रतीयते, यथाग्नेरनग्नितो व्यावृत्तिमात्रं स्वसम्बन्धानुरूप्यात् प्रतीयते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org