________________
दिमागप्रणीतापोहवादनिरासः]
द्वादशारं नयचक्रम् ।
७२५
तथाहि-अयमनग्नौ सर्वत्र न दृष्टः, अन्यत्र च दृष्टः ।
गुणत्वगन्धसौरभ्यतद्विशेषैरनुक्रमात् ।
__ अद्रव्यादिव्यवच्छेद एकवृद्ध्योत्पलादिवत् ।। २।१३३ ॥ तत्र गुणत्वेन अद्रव्याद् गन्धत्वेनापार्थिवादद्रव्याच्च सौरभ्येणासुरभिसाधारणात् सौरभ्यविशेषणानुत्पलादेर्व्यवच्छेद एकैकवृद्ध्या क्रियते । अन्यथा
दृष्टवद् विधिरूपेण यदि लिङ्गं प्रकाशयेत् ।
'सर्वत्राप्रतिपत्तिः स्यात् सर्वथा वा गतिर्भवेत् ॥ २॥१४३ ॥ यदि च यथा धूमोऽग्नौ दृष्टस्तथोत्तरकाले प्रकाशयति कदाचिदपि नैव प्रकाशयेत् । यथानग्नौ सर्वत्र न दृष्टस्तथा सर्वत्राग्नावपि न दृष्टः । यदि च यथा दृष्टस्तथा प्रकाशयति [ तथा सति ] दीप्तितण्यादयो विशेषा अपि गम्येरन् । यस्मात सामान्यरूपेणैवानग्निप्रतिषेधेन प्रकाश्यते तस्माद् विधिनापि तदेवास्य रूपं दृष्टमिति प्रतीयते न विशेषरूपम् ।
सामान्यं यद्यपि भवेदाश्रयाणामदर्शनात् ।
ततोऽन्यत् तद् न दृश्येत, भेदो वैकत्र दर्शनात् ॥ २॥१५३ ॥ अग्नित्वं तावदग्नितोऽन्यत् सामान्यं नास्ति । सत्त्वेऽपि तद्दर्शनस्य न सम्भवः, सर्वेषामाश्रयाणामदर्शनात् । द्वित्वादीनामनेकसाधारणानामाश्रयाग्रहणे[5] ग्रहणं दृष्टम् । कस्यचित् सादृश्यवादिनः सादृश्यस्यापि न । अथ सामान्यमेकाश्रयग्रहणेऽपि समस्तं गृह्यते तथा सति आश्रयवद् नाना स्यात् । यथा चानुमेयं केनचिदंशेन गम्यते
तथाङ्गं येन रूपेण लिङ्गिनं नातिवर्तते ।
तेनैवानेकधर्मापि गमयेदितरैर्न तु ॥ २॥१६३ ॥ धूमोऽपि धूमत्वपाण्डुरत्वादिना येनांशेनाग्निं न व्यभिचरति तेनैव गमयति, न द्रव्यत्वादिभिः, व्यभिचारात् । आह च
गम्यन्ते तेऽपि लिङ्गन ये लिङ्गिन्यनुबन्धिनः । विशेषा न तु गम्यन्ते तस्यैव व्यभिचारिणः ॥ २॥१७३ ॥ लिङ्गानुबन्धिनस्त्वर्था गमयन्ति न लिङ्गिनम् ।
व्यभिचाराद् विशेषास्तु प्रतीताः प्रतिपादकाः ।। २।१८३ ॥ इत्यन्तरश्लोकौ ।” -Psvc.ed. D. ed. पृ. ३० b-३१a, N. ed. पृ. ३० b-३१ at PSvN. ed. पृ० ११४ b-११६ a, P. ed. पृ० ११३ । दृश्यतां पृ. ६७४-६७५ ।
अस्य जिनेन्द्रबुद्धिना रचिता विशालामलवती टीकापि भोटभाषानुवादात् संस्कृते परिवत्येहोपन्यस्यते-अनुबन्धिव्यवच्छेद इति । अनुबन्धिना सम्बन्धिना येनांशेनाग्निः प्रतीयते तस्य द्रव्यत्वादेः विपक्षादन्यस्माद् व्यवच्छेदो व्यावृत्तिः प्रतीयते । के पुनरनुबन्धिनो विशेषा इति चेत् , यदभावेऽग्निर्न भवतीत्यादि । ननु धूमस्य प्रकाशकत्वाद् 'यदभावे धूमो न भवति' इति वक्तव्यम् , कुत एवमुच्यत इति चेत् । अयमेवार्थोऽनेन प्रकारेणोक्त इति न दोषः । तथाहि-यदभावेऽग्निर्न भवति तदभावे धूमोऽपि न भवत्येव । अथवा ये सम्बन्धिन इति धूमस्यैवानुबन्धिन इति योज्यम् । ये धूमस्यैवानुबन्धिनस्तानेव दर्शयितुमाह-यदभावे इत्यादि । यदभावेऽग्निर्न भवति त एव धूमस्यानुबन्धिनः । अनुबन्धिनामन्यस्माद् व्यावृत्तिः प्रतीयत इत्यत्रोदाहरणमाह-यथाग्नेरनग्नितो व्यावृत्तिमात्रमित्यादि । कस्माद् व्यावृत्तिमात्रं गम्यते न विशेष इत्याहस्वसम्बन्धानरूप्यादित्यादि। अयं कारको हेतुः, न लिङ्गम् । तथाहि-अयमिति तत्सम्बन्धानुरूप्यमाह । अनग्नौ सर्वत्र न दृष्ट इत्यनेन व्यावृत्तेः प्राधान्यं विपक्षे सर्वत्रादर्शनेन कथयति अन्यत्र च दृष्ट इति चशब्देन क्वचिददर्शनमपीति द्योतनेनान्वयाप्राधान्यम् । एवं यस्मादन्वय उपचरितो व्यावृत्तिस्तु मुख्यः सम्बन्धः स च सामान्येनैव सम्भवति न विशेषेण तस्मात्
___1 'सर्वत्रादर्शनान स्यात्' इति पाठो विशालामलवत्यामादृतो भाति ॥ 2 तावदग्नावन्यत् Psv ॥ 3 'न सम्भवः' इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org