________________
७२६
न्यायागमानुसारिणीवृत्त्यलकृतं
[अष्टम उभयनियमारे
तदानुरूप्याद् व्यावृत्तिद्वारेण 'अत्राग्निरेव, नानग्निर्भवति' इति अनग्नितो व्यावृत्तिमात्रं प्रतीयते न विशेषः। यथा चाग्नित्वेन सम्बन्ध एवं द्रव्यत्वगुणित्वादिभिरपीति तेषामप्यद्रव्यत्वादिभ्यो व्यावृत्तिरेव प्रतीयते । व्यावृत्तिद्वारेणैव हेतुर्गमक इत्यत्र हेत्वन्तरमाहगुणत्व-गन्ध-सौरभ्य-तद्विशेषैरित्यादि । एकवृद्ध्येति एकैकवृद्धयेत्यर्थः । गुणत्वेन अद्रव्यादिति 'इदं द्रव्यं गुणत्वात्' इति गुणत्वेनाद्रव्यव्यवच्छेद उत्पलादौ क्रियते । तथाहि-तत् सर्वत्राद्रव्ये न दृष्टम् , द्रव्ये दृष्टम् । अत्राद्रव्यव्यवच्छेद आद्ये न वृद्धिरेकस्मिन् । यदपेक्षया गन्धेनैकवघ्या व्यवच्छेदः क्रियते तत्प्रदर्शनार्थ 'गुणत्वेन अद्रव्यात्' इत्युक्तम् । अत एव गुणत्वस्याप्येकवृद्ध्या व्यवच्छेदं प्रति अङ्गभावोऽस्ति । यदि तेनाद्रव्यव्यवच्छेदो विधीयते तर्हि गन्धेनैकवृद्ध्या व्यवच्छेदः क्रियते, नान्यथा । तथा च कारिकायां द्वन्द्वसमासान्तत्वेन गुणत्वशब्दस्याविरोधः पदान्तरेण तुल्यसामर्थ्यात् । गन्धत्वेनापार्थिवादद्रव्यत्वाञ्चेति 'इदं पार्थिवं द्रव्यं च गन्धत्वात्' इति अपार्थिवादद्रव्याच्च व्यवच्छेदः क्रियते । पौरभ्येण असुरभिसाधारणादिति सौरभ्येण पूर्वाभ्यामसुरभिसाधारणाच्च व्यवच्छेदः क्रियते । गन्धविशेषसुरभिसाधारणं सामान्यं सुरभिसाधारणम् , यद् न सुरभिसाधारणं तत् तथोक्तम् । गन्धाभाव इत्यर्थः । सौरभ्यविशेष उत्पलादौ गन्धविशेषः । एवमद्रव्यादिव्यवच्छेद एकैकवृद्ध्योत्पलादिषु गुणत्वादिभिः क्रियमाणो दृष्टः । स कथम् ? यदि विपक्षाद् व्यावृत्तिद्वारेण हेतुर्गमकः, अन्यथा न युज्यते । दृष्टवद् विधिद्वारेण सर्वत्र सर्वेषां द्रष्टणां निर्विशेषत्वात् समाना प्रतीतिः स्यात् । तस्मात् व्यावृत्तिद्वारेणैव हेतुर्गमक इत्यभ्युपगन्तव्यम् । ये तन्नेच्छन्ति तान् प्रयाह-दृष्टवदित्यादि । दृष्टेन तुल्यं दृष्टवत् । यथा पूर्व सम्बन्धकाले लिङ्गमुपलब्धं तथा यदि प्रकाशयेदित्यर्थः । विधिरूपेण 'अग्निरत्र भवति' इति, न व्यतिरेकरूपेण 'अत्राग्निरेव, नानग्निः' इत्येवम् । सर्वत्रादर्शनात् प्रकाशनं न स्यादिति विज्ञेयम् , 'प्रकाशयेत्' इत्यस्य प्रकृतत्वात् यदि च यथाग्नौ दृष्ट इत्यादि । यद्येवमभ्युपगम्यते विधिवादिना 'यस्मादग्नावेव धूमो दृष्टः, नानग्नौ, तस्मात् प्रत्याययति' इति, तथा सति प्रतिषेधद्वारेणैव प्रकाशयेत् । तस्मात् तेनैवम
व्यं 'यस्मादग्नौ दृष्ट एव, नादृष्टः, तस्मात् स तं गमयति' इति । ततश्च नैव प्रकाशयेत् । यस्मात् स सर्वत्राग्नौ न दृष्टः, देशावस्थादिभिन्ने सर्वत्राग्नौ दर्शनस्यासम्भवात् । यदि चेति दोषान्तरमाह । यदा धूमोऽग्नौ दृष्टस्तदा दीयादिविशेषाणामन्यतरेण युक्त एव दृष्टः । ततश्च तेऽपि प्रकाश्येरन् । तथा च न। तस्माद्दर्शनमात्रमनुमेयप्रतीतेन कारणम् , तद्भावेऽपि तदभावादिति । ननु प्रतिषेधवादिनापि दर्शनमिष्यत एव, तथाहि-कार्यत्वेनाविनाभावित्वाद् धूमो हतभुजो हेतुः, कार्यकारणभावश्च दर्शनादर्शनाभ्यां सहि]ताभ्यां सिध्यति न केवलाददर्शनादिति चेत्, उच्यते-यस्मादित्यादि । एतद् दर्शयति-यस्माद् धूमेनाग्निः सामान्यरूपेण प्रकाश्यते, न दीप्त्यादिविशेषरूपेण, तस्मात् कार्यकारणभावसिद्धये विधिनापि तदेवास्य रूपं दृष्टमिति कार्यकारणव्यपदेशसिद्धेः कारणत्वेन प्रतीयते, न विशेषरूपमित्याशयः । दीप्त्यादिविशेषदर्शनं कार्यकारणव्यपदेशसिद्धेर्न कारणम् , तदभावेऽपि धूमदर्शनात् ।..... ..........स्यादेतत्-सामान्यमेकमेव वस्तु व्यक्तिषु ताभ्यो भिन्नं ताभ्योऽभिन्नं वास्ति । तस्य च प्रतिव्यक्ति सर्वात्मना परिसमाप्तत्वादेकस्यामेवाग्निव्यक्तौ दर्शनमुपपद्यते ततः 'सर्वत्रादर्शनात् प्रकाशनं न स्यात्' इत्येतन्न युज्यत इति, उच्यते-सामान्यं यद्यपीत्यादि । यद्यपीत्यनेन 'तदभाव एव, तथाप्यभ्युपगम्य दोष उच्यते' इत्येतद् दर्शयति । अग्नित्वं तावद् नास्तीत्यादि । यदि व्यक्तिभ्योऽन्यत् सामान्यं स्यात् [तथा सति ] बुद्धौ प्रतिभासेत, न चास्ति प्रतिभासः ।....... यद्यनन्यत् तथापि व्यक्तिवत् तत् सामान्यमेव न स्यात् । तथाप्यभ्युपगम्य तदर्शनासम्भवं साधयितुमाह-तत्सत्त्वेऽपीत्यादि । यदनेकसाधारणमगृहीत समस्ताश्रयं तद् द्रष्टुं न शक्यते, यथाऽगृहीतसमस्ताश्रयं द्वित्वादिकम् , अग्नित्वमपि तथेति व्यापकविरोधः । सादृश्यस्यापि नेति आश्रयादभिन्नत्वात् सादृश्यस्य भेदेनोपन्यासः । अत्रापि स एव प्रयोगो वक्तव्यः । अथैकग्रहणेऽपि समस्तं गृह्यते तथा सति तस्य प्रत्येक सर्वात्मना परिसमाप्तत्वाद् गुणवद् नानात्वं स्यात् ।.....अनेकत्वाच्च तत् सामान्यमेव न स्यात् आश्रयवत् , सामान्यस्यैकत्वेनेष्टत्वात् । तथेत्यादि । ...."अङ्गं लिङ्गमुच्यते । नातिवर्तत इति न व्यभिचरतीत्यर्थः । अनेकधर्मापीति सामान्य विशेषधमैः । धूमत्व-पाण्डुरत्वादिनेति'.........। न द्रव्यत्वादिभिरिति ।...... उक्तार्थमेव संग्रहश्लोकाभ्यां सुखेन प्रतिपादनाय गम्यन्ते तेऽपि लिङ्गेनेति । तेऽपि अनुबन्धिनो द्रव्यत्वादयो गम्यन्ते.....। लिङ्गानुबन्धिनस्त्वर्था इति अविशिष्टा द्रव्यत्वादिसामान्यधर्माः । विशेषास्त्विति धूमत्वादयः । ते चाविशिष्टद्रव्यत्वादिसामान्यापेक्षया विशेषा इत्युच्यन्ते, न त्वसाधारणरूपापेक्षया ।"-VT. D. ed. पृ. १०.a-१०२ b, P. ed. पृ. ११२a-११५b॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org