Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 395
________________ सामान्योपसर्जनस्य विशेषस्य निराकरणम् ] द्वादशारं नयचक्रम् | खपुष्पवदेवाविशेष इति पूर्वोक्तवदाविर्भावादिभेदानुपपत्तिविरोधाः । ननु विशेषः प्रत्यक्षत एवोपलभ्यते । दृश्यमानत्वेऽपि तथा तस्याभवनादसत्त्वं दृष्टम्, यथा मृगतृष्णिकागन्धर्वनगरयोः । मृगतृष्णिकागन्धर्वनगर योहि प्रत्यक्षत्वेऽपि शीतादिविशेषा सत्त्वादसत्त्वं दृष्टं तथा विशेषस्य प्रत्यक्षत्वेऽप्यसत्त्वम् । अथोच्येत - शीतादिर्जीवाजीवादिश्च विशेषो मृगतृष्णिकासलिले गन्धर्व - 5 नगरे च नास्तीति विशेषासत्त्वात् स्यादसत्त्वम्, नावश्यं विशेषे विशेषैर्भाव्यं यतो विशेषासत्त्वादसत्त्वं कल्प्येत । यदि स्युर्विशेषे विशेषा अविशेष एव स्यात्, , विशेषवत्त्वात्, सद्दव्यपृथिव्यादिसामान्यवत् । अपि च वयमप्येतदेव ब्रूमः - अन्वय एव स्यादिति । स च नास्ति खपुष्पवत् । विशेषजातमपि । तत्प्राधान्याद् विशेषस्य भावानुरोधात् सामान्योपसर्जनविशेषप्रधानप्रति [ ज्ञा] हानि: 110 एवं तावद् घटो भाव ईत्ययुक्तम् । ७४ स्यान्मतम् - घटस्य भावो विशेषस्य सम्बन्धिनः सम्बन्धषष्ठ्या । यथा घटस्य विनष्टस्य कपालान्यभावस्य भावहेतुत्वान्निरुद्धेस्य, कपालानि हि घटनिरोधहेतुकानि उत्पद्यन्ते तदुपकारित्वात् । किमिव ? यथाङ्कुरस्य बीजं निवर्तमानमुपकारीति । एतच्च नाप्यस्य भावः । कस्मात् ? ततश्चासत्त्वाविशेषात् खपुष्पवदेवाविशेष इति पूर्वोक्तवदाविर्भावादिभेदानुपपत्तिविरोध इत्यनेनातीतं ग्रन्थमतिदिशति 15 यदेतदसत्त्वं नाम त्वया क्वचिद् मन्यते ततोऽन्यत् कार्यम्, तदसमर्थविकल्पत्वात्, घटपटवत् । विकल्पासामर्थ्य चासत्कार्ययोरित्यादि यावत् स्ववचनादिविरोधोपसंहारेण विशेषविरोधोऽप्रयोगप्रसङ्गात् स्वरूपविरोध इति । आह - ननु विशेष इत्यादि । सामान्योपसर्जनो विशेषः प्रत्यक्षत एवोपलभ्यते । तस्माद् दृष्ट- ४७९-१ विरुद्वेयं कल्पनेति । अत्रोच्यते - दृश्यमानत्वेऽपि प्रत्यक्षव्यभिचारप्रदर्शनसाधनम् । यथा दृश्यते तथा 20 तस्याभवनादसत्त्वं दृष्टम् । यथा मृगतृष्णिकेत्यादि दृष्टान्तः । तद्व्याख्या - मृगतृष्णिका - गन्धर्वनगरयो हत्यादि, भवनस्य पृथग्भावेन भवनात् परमार्थसत्त्वात् सलिल-नगरयोरसत्त्वं दृष्टं यथा तथा सामान्योपसर्जनतायां विशेषस्यं प्रत्यक्षत्वेऽप्यसत्त्वमिति । अथोच्येत त्वया शीतादिरित्यादि । मृगतृष्णिका सलिले शीत-मृदु-द्रवतादिविशेषाभावात् गन्धर्वनगरे दृश्यमानजीवाजीवविशेषधर्माभावात् स्यादसत्त्वम् । नाऽवश्यं विशेषे घटादौ पृथिवी [वि]शेष (णा - 25 मश्मसिकतादिभेदैर्भाव्यं यतो विशेषासत्त्वं कल्प्येत । यदि स्युर्विशेषे विशेषा अविशेष एव स्यात्, सामान्यमेव अन्वय एव स्याद् विशेषो विशेषवत्त्वात्, द्रव्यपृथिव्यादिसामान्यवत् । य० ॥ ४ दृश्यतां पृ० अत्राचार्य आह-अपि च वयमप्येतदेव ब्रूमः - अन्वय एव अविशेषं सामान्यमेव स्यादिति । १ इत्यतयुक्तम् प्र० । ( इति न युक्तम् ? ) ॥ २ द्धस्या प्र० ॥ ३धादित्य १६० पं० ४–पृ० १६१ पं० १| तुलना - पृ० ४३० पं० १ ॥ ५ पृ० १७१ पं० ३ ॥ ६ पृ० १७२ पं० ३ ॥ ७ ( परमार्थतोऽसत्त्वात् ? ? ) ॥ ८ नगरसत्त्वं भा० ॥ ९ स्य च प्रत्य भा० ॥ १० क्षत्वेव्यस प्र० ॥ ११ घटाघटादौ प्र० । 'घटपटादौ' इत्यपि भवेदत्र पाठः ॥ १२ द्रव्यपृथिं भा० | सद्रव्यत्वपृथिं य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403