Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे विशेषानिरूप्यत्वात् तत्सम्बन्धाशक्यत्वम् । तस्मादेकात्मत्वं गोशब्दस्य । तस्मिंश्चैकात्मत्वे शक्तिभेदात् तत्तदर्थप्रत्यायनशक्तयः प्रकल्प्याः , एकपुरुषपितृपुत्रादिवत् प्रतिसम्बन्धमन्यथावृत्तेः।
___ गदनादिविशेषनिरूप्यान्यत्वे वा गवान्तरवद् गौरेवेति गौरित्यगौर्न भवती5 त्यपि न, वागादिगवानां व्यतिरेकात् ।
सकृदुच्चरितम्य वाग्दिग्भूरश्म्यादिषु दृष्टत्वात् । अतः प्रत्यक्षप्रसिद्धरनन्यत्वं सिद्धम् , तच्चानाशङ्कनीयम्किमन्योऽनन्यो गोशब्द इति । तस्मादन्याय्यमन्यत्वम् । स्यान्मतम्-भिन्नार्थगते!शब्दस्यान्यत्वम् , साहश्यात्तु ‘स एव' इति भवतीति, एतच्च न, तच्छब्दविशेषानिरूप्यत्वात् , 'अयमुदात्तोऽनुदात्तः स्वरितो वाचि वर्तते, अयं दिशि' इत्यादिविशेषरूपस्यानिरूप्यत्वाद् नास्त्यन्यत्वं प्रत्यक्षस्यानुमानाद् 10 बलीयस्त्वाच्च । ततः किम् ? ततस्तत्सम्बन्धाशक्यत्वम् , अनिरूप्यात्मरूपाणामसतां पृथगनुपलब्ध
नानाथैः सह न शक्यः सम्बन्धः कर्तुम् । अकृतसम्बन्धानां च शब्दानामर्थप्रत्यायनमन्याय्यम् , म्लेच्छप्रयुक्तशब्दश्रवणादप्यर्थप्रतीतिप्रसङ्गात् । तस्मादेकात्मत्वं गोशब्दस्य । तस्मिंश्चैकात्मत्वे सति शब्दस्य शक्तिभेदात् सम्बन्धिभिरभिव्यक्तात् तत्तदर्थप्रत्यायनशक्तयः प्रकल्प्याः , किमिव ? एकपुरुषपितृपुत्रादिवत् , यथैक एव पुरुषोऽनेकशक्तिसम्बन्धिभेदापेक्षया पिता पुत्रो मातुलो भागिनेय इत्यादि15 व्यपदेशभागू भवति तथा गोशब्दोऽपि वागादिषु । कस्मात् ? प्रतिसम्बन्धमन्यथा वृत्तेः, स एव
सम्बन्धं सम्बन्धं प्रति [प्रतिसम्बन्धं ] सम्बन्धिजनितमन्यत्वमन्यथान्यथा वर्तते । तस्मादेकत्वाद् गोशब्दस्य वागादिभिन्नार्थवाचित्वाद् गौरेव वागादिरगौर्भवति, अगौरपि गौर्भवति ।
स्यान्मतम्-निमित्तभेदाद् गोशब्दा भिद्यन्ते, तानि च निमित्तानि गदन-गर्जन-गमन-गिरणादीनि, ४६५-१ पृषोदराद्याकृतिगणत्वाद् रूपसिद्धेरन्यत्वमेवेति । एतच्चोक्तविधिना न युक्तमप्यभ्युपगम्य गदनादिविशेष20 निरूप्यान्यत्वे वा गवान्तरवद् गौरेव, यथा हि गोशब्दः सानादिमत्येकस्मिन्नप्यर्थे गमननिमित्ते
वृत्तोऽपि खण्ड-मुण्ड-शाबलेय-बाहुलेय-सौरभेयादिभेदेषु गवान्तरेषु गौरेव । इति हेत्वर्थे, यस्मात् खण्डादिविशेषापेक्षया सामान्यशब्दो गोशब्दस्तस्मात् पूर्ववदस्मिन्नपि पक्षे गौरित्यगौर्न भवतीत्यपि न, कस्मात् ? वागादिगंवानां व्यतिरेकात् , तद्यथा 'गौः' इत्युक्ते वागादिषु न व्यतिरिच्यते गोत्वं
गोशब्द[वत्] वागित्युक्ते दिगादिभ्यो व्यतिरिच्यते 'वाग् न दिक्' इति । ततः 'गौरगौरपि भवति' इति 25 गतार्थमुदाहरणम् ।
१ भूरित्यादिषु प्र० । दृश्यतां पृ० ५२४ पं० ५॥ २ स एव भवतीति य० ॥ ३°लब्धा भा० ॥ ४ तदर्थ भा० ॥ ५ °वृत्तेः स्म एव य० । वृत्तेस्म एव भा० । (वृत्तेस्तमेव ! ) ॥ ६ गराणा प्र० । दृश्यतां पृ० ११४ टि०६॥ ७ हेत्वों भा० ॥ ८ भवतीत्यपि म तस्माद् प्र०॥ ९गवानं व्यतिरेकातिरेकात् य० । (गवानां व्यतिरेकाव्यतिरेकात् ?)॥ १० (गोशब्दो वा । वागित्युक्ते)?॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403