________________
६३८
न्यायागमानुसारिणीवृत्यलङ्कतं [अष्टम उभयनियमारे विधिः । नन्विदमेव विधिना वाचकत्वेऽनुमानं शब्दस्य । यदन्यत्वेऽपि न सामान्य
'अन्यत्वेऽपि न सामान्य-भेद-पर्यायवाच्यनुत् , अविरोधात्' इति । किं कारणमनारभ्यम् ? विधिः । विधिना हि सामान्योपसर्जनं विशेषं शब्दोऽभिदधानो विरोधाभावात् तानपि गमयति तदङ्गभावाद्
१ दिङ्गागेन प्रमाणसमुच्चयवृत्तौ यदभिहितं तदत्र भोटभाषानुवादतः संस्कृते परिवोपन्यस्यते । तच्च यथायोगमत्रानुसन्धेयम्
"तत्र अन्यत्वेऽपि न सामान्यभेदपर्यायवाच्यनुत् ॥ २५ ॥ अन्यत्वे तुल्येऽपि सामान्य-भेद-पर्यायशब्दानामर्थ शब्दो नापोहते। कुत इति चेत्, अविरोधात् । 'पर्यायशब्दस्य तावदपोह्यस्तुल्यः, युगपदप्रयोगात् । खार्थश्च प्रतिक्षेप्तं न युक्तः । सामान्यशब्देनापि स्वभेदेष्वर्थान्तरापोहो भेदशब्देन न नानुमन्यते अर्थित्वात् । यथा शिंशपा न पलाशादि एवं घटाद्यपि न । एतेन *सामान्यसामान्यशब्दार्थाप्रतिक्षेपोऽप्युक्तः । एवं सामान्यशब्दः स्वार्थमभिमतविषये स्थापयन् भेदशब्देन भेदभेदशब्देन वा कथं 'नोपेक्ष्यते ? एवमविरोधात् सामान्यादिशब्दा
पोहो न युज्यते । समूहश्च तथार्थान्तरवाचकः । एवं च सामान्यविशेषशब्दयोः स्वार्थसामान्ये प्रवर्तमानयोद्वयोर्बहूनां वा तद्विशिष्टार्थान्तरवाचकत्वं यथापूर्वोक्तवदुपपद्यते । आह च
.. 'तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येन नोज्झितः।
नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः ॥२६॥ अनेकमपि सामान्यं भेदेनाव्यभिचारिणा।
उपात्तं न तयोस्तुल्या विशेषणविशेष्यता ॥ २७ ॥ [इति संग्रहश्लोकी Psvi] ... किं पुनरत्र कारणं येन मेदशब्दो भेदान्तरशब्दार्थमपोहत इति चेत् ,
भेदो भेदान्तरार्थ तु विरोधित्वादपोहते । भेदार्था हि शब्दाः परस्परविरोधिनः सामान्यार्थापहारित्वाद् राजपुत्रवत् । ततः परस्परार्थं न सहन्ते, यथायं [ वृक्षः] शिंशपेति शिंशपाशब्दो वृक्षशब्देन सह प्रयुक्तो धवादिभ्यो वृक्षत्वमाच्छिद्य स्वविषये स्थापयन् । एवमितरत्रापि । एवं तावद् 13भेदशब्द एकद्रव्यापहारित्वाद् भेदान्तरशब्दार्थमपोहते [इति ] युज्यते । .. अथ घटादिकमसम्बद्धं सामान्यान्तरभेदार्थ कुतोऽपोहत इति चेत्, यस्मात्
____सामान्यान्तरमेदार्थाः स्वसामान्यविरोधिनः ॥ २८॥ वृक्षशब्देन तु घटादीनां पार्थिवत्वाद्यपहाराद् विरोधः । तेन तदपोहः क्रियमाणोऽनुमन्यते मित्रशत्रुवत् । अर्थतस्तत् तेनापोढमिति गम्यते । एतेन सामान्यान्तरभेदानां गुणादीनां तद्भेदानां च रूपादीनां सम्बद्ध सम्बन्धाद् मित्रमित्रशत्रुवद्
___1 पर्यायशब्दे (?) Psv | पर्यायशब्दस्तावत् तुल्यापोह्यः (?) PSV VT. | 2 न च स्वार्थप्रतिक्षेपो युक्तः (१) VT | 3 'अनुमन्यते' इत्यपि पाठोऽत्र स्यात् । 'अगृहीतो नास्ति' (?) Psv' | न सह्यते (?) Psv* ॥ 4 सामान्यसामान्यशब्दार्थप्रतिक्षेपः प्रत्युक्तः Psv'॥ 5 निवेशयन् (?)। प्रवर्तयन् (?)॥ 6'नापेक्ष्यते' इति Psv'मध्ये दृश्यते इत्यपि ध्येयम् ॥ 7 तत्त्वसं० पं० पृ० ३०७ । सन्मतिवृ०। तत्त्वार्थसिद्ध०३० पृ० ४१२ । शरिका पृ० ७२ ॥ 8 "अत्र भिक्षुणा पाशः शिंशपेति सामानाधिकरण्यं न भवतीति दर्शयतोक्तम्-भेदो भेदान्तरार्थ तु विरोधित्वादपोहते-इति । मेदशब्दा हि पलाशशिंशपादय एकं वृक्षत्वसामान्यमन्योन्यमपहृत्य राज्यमिव राजपुत्राः स्वविषये स्थापयन्तः परस्परविरोधिनो वर्तन्ते । तेनैकापोहेनैकः प्रवर्तमानः कथं तेन सामानाधिकरण्यं लभतामित्यर्थः ।"-शर्करिका पृ० ६९ । नयचक्र-वृत्ति. पृ० ६१३ पं०६, २७ ॥ 9 ततश्च (?)॥ 10 यथा Psy | 11 वृक्षत्वं व्यवच्छिद्य Psvi ॥ 12 स्थापयति (?)॥ 13 भेदशब्दे Psv' । मेदशब्देन...... शब्दार्थापोहो युज्यते' इत्यपि पाठोऽत्र स्यात् ॥ 14 °मपोहमानो युज्यते (?)॥ 15 अर्थाच्च तत् Psvin 16 'तेनापोह्यत इति गम्यते' इत्यपि पाठः स्यात् ॥ 17 'सामान्यान्तरभेदा गुणादयस्तद्भेदाश्च रूपादयः सम्बद्धसम्बन्धाद् मित्रमित्रशत्रुवद् मित्रशत्रुमित्रवच्चापोढा उपेक्षिताश्च वेदितव्याः' इत्यपि पाठोऽत्र भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org