________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६३७ सामान्यविशेषानुबद्धत्वात् । नैतदस्ति अर्थाक्षेपेऽप्यनेकान्तः।.......... असद्वयावृत्तिमता विशेषाक्षेपो युज्यते चेत् घटादिभेदानां व्यभिचाराद् द्रव्यत्वमात्राक्षेपस्तर्हि भविष्यति, तदपि न, गुणादिव्यभिचारात् ।
एतावच्च.........। न चास्ति सम्भवः । तेन नापोहकृच्छ्रुतिः। किमन्यत्वे न सामान्यभेदपर्यायवाच्यनुत् ?
अत्रोच्यते-नैतदस्ति, अर्थाक्षेपेऽप्यनेकान्तः । अस्य भाष्यं सव्याख्यानं गतार्थं यावदसद्व्यावृत्तिमता विशेषाक्षेपो युज्यते चेत् घटादिभेदानां व्यभिचारादू द्रव्यत्वमात्राक्षेपस्तहि भविष्यति, 'मात्र'ग्रहणाद् द्रव्यत्वसामान्यविशेषमात्रं गृह्यते सद्विशेषणेनेति । अत्रोच्यते तदपि न, गुणादिव्यभिचारात् । गुणकर्मणोरपि सद्भावात् 'किं द्रव्यं गुणः कर्म वा सत् स्यादसट्ट्यावृत्तिमत्' इति संशय एव ।
एतावच्चेत्याद्युपसंहारः । पूर्वविधिवादिदूषणोपसंहारवदन्यापोहमात्रेऽपि उपसंहारः । न चास्ति 10 सम्भव एतेषां विकल्पानां दोप॑वत्त्वात् तेन नाऽपोहकृछुतिरिति ।
___ यथा विधिवादिनामन्यापोहवादिनश्च दोषास्तथा सामान्योपसर्जनविधिप्रधानवादिनोऽपीति मा मंस्थाः, मा च मंस्था अन्यापोहवादिलक्षणवदतिप्रसक्तत्वादपवादोऽस्याप्यारब्धव्यो लक्षणस्येत्यत आहकिमन्यत्वे न सामान्यभेदपर्यायवाच्यनुत् ? 'अविरोधात्' इति वाक्यशेषः । 'किम्' इति प्रश्ने, "किं ४२०-१ त्वं मन्यसे-अन्यत्वे सामान्य भेद-पर्यायशब्दानामर्थं वृक्षश्रुति पोहते पृथिवी-शिंशपा-तर्वादिशब्दानाम-15 विरोधात् , विरोधाच्च पटादीनपोहत इति, यतोऽस्य विरोद्धाविरुद्धयोरन्यत्वादपोहानपोहप्रसङ्गे तुल्ये त्वयेव मयापि यथा शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते इति लक्षणस्यातिप्रसङ्गभयादारब्धव्यम्
१ अयमत्राशयो भाति-अर्थाक्षेपेऽपि न नियमः, सच्छब्दादसद्वयावृत्तिमतार्थेन घटादेरिव पटादेरप्याक्षेपसम्भवात् । तथा च 'सन् घटः' इत्यत्र घटाक्षेपनियमाभावात् सच्छब्दस्य न घटशब्देन सामानाधिकरण्यम् । अथ मा भूद् व्यभिचाराद् घटादीनामाक्षेपः, द्रव्यत्वमात्राक्षेपो भविष्यति असद्यावृत्तिमता अव्यभिचारात् । तदप्ययुक्तम् , गुणादिव्यभिचारात् । सच्छब्दस्य गुणादिष्वपि सम्भवाद् द्रव्यत्वमात्रस्यापि नियमेनाक्षेपाभावादिति ॥ २'एतावचात्र भवेत्-अन्यापोहवन्तो भेदा वा, अन्यापोहो वा, अन्यापोहसम्बन्धो वा, अन्यापोहस्य स्वाधारो वा' इत्याशयोऽत्र सम्भाव्यते । तुलना-पृ० ६२८ पं० १॥ ३ 'अन्यत्वेऽपि न सामान्यभेदपर्यायवाच्यनुत्' इति दिनागेनाभिहितं प्रमाणसमुच्चयादौ । तत्र सामान्य-भेद-पर्यायवाचिनामनपोहे विधिरेव वस्तुतः कारण मिति विधेरेव शब्दार्थत्वं सिध्यतीत्याशयेन उभयनियमनय उपकामति । तुलना-"अत्र च भिक्षुणा 'वृक्षः शिंशपा' इति सामानाधिकरण्यं दर्शयतोक्तं-'वृक्षस्तरुरिति पर्यायाणां च परस्परमनपोह्यत्वम्, अन्यत्वेऽपि च सामान्यभेदपर्यायवाचिनामविरोधात् [ ] इति । तदिदमनपोहे कारणं नातीव बुध्यत इत्याह-'सामान्याद्यनपोहश्च नाविरोधेन कल्पते।' इति । किमिति नावकल्पत इत्याह-न हि शब्दस्वरूपाणां स्याद् विरुद्धाविरुद्धता ॥ १४९ ॥ इति ।"मी० श्लो० वा० शर्करिका. पृ. ६९,७० ॥ ४चेद घटादिभेदानामव्यभि भा० । चेद घटादिमेदानामाव्यभि° य० ॥ ५ दृश्यतां पृ० ६२७ पं० ७॥ ६ दृश्यतां पृ० ६२८ पं० १॥ ७ दोषबंधात्तेन प्र० ॥ ८ वापोह भा०। चापोह य० । 'अर्थाक्षेपेऽप्यनेकान्तस्तेनान्यापोहकृच्छ्रुतिः' इति यदुक्तं दिङ्गागेन तत् प्रतिविधातुमत्र मलवादिसूरिभिः
नापहिकृच्छ्रुतिः' इत्युक्तम् ॥ ९वाच्यनुदि विगेधात् य० । दृश्यतां पृ० ६३८ पं० ७॥ १० 'किं त्वं मन्यसे त्वयेव मयापि अतिप्रसङ्गभयादारब्धव्यम्-अन्यत्वेऽपि न सामान्यभेदपर्यायवाच्यनुदिति ?' इति सम्बन्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org