________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
उपेत्यापि तु सामान्य विशेषत्वा भावमसदघटादिव्यावृत्तिमतां ब्रूमो जातेरजातितः । न ह्यभिधानप्रत्यय हेताव सदभावात्मिकायां सज्जातावघटाभावाद्यात्मिका घटत्वादिजातिरस्ति यथा नीलगुणे द्रव्ये नीलप्रकर्ष भेदः यतोऽसदसत्वतोऽघटाभावघटत्वादीनुपादाय प्रवर्तेत । न चाविद्यमानः स्वात्मन्यर्थो विशेषणेन शक्यते विशेष्यवस्तुन्यध्यारोपयितुं स्वरूपवत् । तस्मात्" सामानाधिकरण्यं स्यात् । न सद् घटादि विशेषयिष्यति, अविद्यमानतद्रूपत्वात्, नीलमिव मधुरम् ।
अर्थाक्षिप्तस्तर्हि घटादयो भवितुमर्हन्ति, असद्व्यावृत्तिमतोऽन्यतमघटत्वादि
६३६
10
नीलतरादिवत् सामानाधिकरण्याभाव इति दृष्टान्तासिद्धेः संच्छब्देऽसद्वयावृत्त्या भेदानामसद्वयावृत्तिपक्षे विधिपक्षे वा नास्ति सामानाधिकरण्यम् ।
उपेत्यापि तु, न व्यावृत्तिमदभिधानं सच्छब्देन, असद्व्यावृत्तिमतः सतोऽभिधानमभ्युपगम्याि सामान्यविशेषत्वाभावमसदघटादिव्यावृत्तिमतां ब्रूमः । कुतः ? जातेरजातितः, नास्यां जातिर्विद्यत इति [अ]जातिरिति विग्रहात् सामान्यानामसामान्याधारतां दर्शयति । न ह्यभिधानप्रत्यय हेतावित्यादि यावत् प्रवर्तेतेति, सदभिधान- प्रत्य[य] योर्हेतुरसदभावात्मिका सज्जातिः सत्ता, तस्यां त्वघटाभावात्मिका घटत्वजातिर्नास्ति, यथा नीलगुणे द्रव्ये नीलप्रकर्षभेद इति दृष्टान्तदाष्टन्तिकयोर्वैधर्म्यं दर्शयति । 15 यतोऽसदसत्वतो वस्तुनः अघटाभावघटत्वादीनुपादाय प्रवर्तेतेत्यसम्भवमन्योन्येषु दर्शयति । द्रव्याणि तावदपोहवादिनस्तेऽस्माकम सत्योपाधिसत्यविशेषविधिवादिनामिव घटाद्यभिधानानां न हेतवः । यान्यघटासत्त्वादीनि तत्कारणानि तानि नासदसत्तायां सन्ति । तस्माज्जातिरजातिरिति सिद्धम् ।
४१९-२
ततः किम् ? ततो न चाविद्यमानः स्वात्मन्यर्थः सत्ता- नीलत्वादिविशेषणेन शक्यते २ विशेष्यवस्तुनि घटोत्पलादावध्यारोपयितुम् । किमिव ? स्वरूपवदिति वैधर्म्यदृष्टान्तः, यथा स्वरूपं 20 शब्दो विशेष्ये ऽध्यारोपयति न तथेति । तस्मादित्यादि प्रस्तुतोपसंहारो यावत् सामानाधिकरण्यं स्यादिति र्गतार्थः । प्रयोगश्चात्र - न सद् घटादि विशेषयिष्यति, अविद्यमानतद्रूपत्वात्, अविद्यमानतद्रूपत्वं प्रतिपादितत्वात् सिद्धम् । नीलमिव मधुरमिति दृष्टान्तो गतार्थः ।
अर्थाक्षिप्तास्तत्यादि । यदि घटादयोऽतद्भेदत्वादनाक्षिप्ताः सामान्यनाम सामान्यत्वात् अर्थतस्तर्ह्याक्षिप्ता भवितुमर्हन्ति । कुतः ? असद्व्यावृत्तिमतोऽन्यतमघटत्वादिसामान्य विशेषानुबद्धत्वात्, 25 असद्व्यावृत्तिमद्धि वस्तु घटत्वादीनां सामान्यविशेषाणामन्यतमेनावश्यमनुबद्धम्, अंसच्चेन्न भवति अवश्यं सद् भवति, सच्च घटत्वाद्यन्यतमदिति परो मन्येत ।
१ 'तस्मादसदपोहेऽघटापोहाभावात् स्वात्मन्यविद्यमानमघटापोहमसदपोहो नाक्षेप्तुं समर्थ इति सच्छब्दस्य न घटादिशब्दैः सामानाधिकरण्यम्, विशेषणविशेष्यभावे हि सामानाधिकरण्यं स्यात्' इत्याशयो भाति ॥ २ सच्छन्दोसा प्र० ॥ ३ सच्छेन सच्छब्देन प्र० ॥ ४ मतां घटः कुतः य० ॥ ५ नास्या य० ॥ ६ न्यानामनान्याधारतां भा० । न्यानां मानाभ्याधारतां य० । ( न्यानामनन्याधारतां ? ) ॥ ७ विशेषोध्यारो य० । विशेपोध्यारो भा० ॥ ८ गतार्थ प्र० ॥ ९ असत्वेन भा० । असत्वेन य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org