________________
दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६३५ शब्दैः सामानाधिकरण्यं भविष्यति तत्सामान्यगुणत्वात् तद्वाचिशब्दस्यापि तद्व्यवच्छेद्यविषयत्वात् । यत्र यत्र तत्सामान्यगुणत्वं तत्र तत्र सामानाधिकरण्यं दृष्टम् , तद्यथा अनन्यद्रव्यवर्तिनि नीलगुणेऽनीलनिवृत्तिसामान्यस्य नीलतरादिद्रव्यवृत्तित्वात् तैः सह सामानाधिकरण्यं भवति नीलतरो नीलतम इति वा।
न, सामान्यविशेषभावस्य तच्छब्दार्थाभावात् सम्प्रधार्यत्वात् । यतश्च नीलशब्दोऽपि न द्रव्यं नीलत्वेनाह, किं तर्हि ? अनीलवदभावम् । तत्र च न नीलादिभेदानां कस्यचिदपि सम्भवः । अनीलाभावभावत्वान्नेति चेत्, एवं विधिशब्दार्थता तर्हि । यस्मादेवं सतोऽपि न सामानाधिकरण्यम् , अभूतसामान्यविशेषत्वात्।
यद्यपि तद्वद् घटादि पटादिषु न वर्तते तथापि एकत्रातद्व्यावृत्त्याधारे वर्तते सत्ता, ततो बह्वशङ्कास्ति, 10 तस्यां च सत्यां घटादिभेदवादिभिः शब्दैर्येषु सा सत्ता वर्तते तैस्तद्वाचिभिः सामानाधिकरण्यं भविष्यतीति प्रतिज्ञा । तत्सामान्यगुणत्वादिति हेतुः, सा सामान्यगुणो येषां ते बहवोऽस्तित्सामान्यगुणाः, तद्भावात् तत्सामान्यगुणत्वात् । तद्वाचिशब्दस्यापि तद्व्यवच्छेद्यविषयत्वात् , तया सत्तया व्यवच्छेद्याः सर्वे विषया अर्थाः, ते विषया अस्य शब्दस्य स तद्व्यवच्छेद्यविषयः, तद्भावात् तद्व्यवच्छेद्य-४१८-२ विषयत्वात् । यत्र यत्रेत्याधुपनयः कार्यः । दृष्टान्तः-तद्यथा अनन्यद्रव्यवर्तिनीत्यादि, अनीलेतरो.हि 15 नीलगुणोऽनन्यद्रव्यवर्ती द्रव्ये 'नीलगुण एव वर्तते, नीलतरादिष्ववर्तमानेऽपि तस्मिन् नीलगुणसामान्ये अनीलनिवृत्तिसामान्यस्य नीलतरादिद्रव्यवृत्तित्वात् तैः सह सामानाधिकरण्यं भवति, यथा नीलतरः पटो नीलतम इति वेति । सोदाहरणोपसंहारे परिहारे वयमत्र ब्रूमः-तच्च न, सामान्यविशेषभावस्य नीलत्वनीलगुणद्रव्यादेरनीलत्वानीलगुणद्रव्यनिवृत्तिलक्षणस्य तच्छब्दार्थाभावात् सम्प्रधार्यत्वात् , नीलत्वजातिशब्दार्थस्यातव्यावृत्तिलक्षणस्य नीलगुणशब्दार्थस्य चाभावादनीलेतरजातिगुणद्रव्यदृष्टान्ताभावात् तत्सामान्य- 20 विशेषभावोऽत्रापि सम्प्रधार्यः । तद्भावनाहेतुः-यतश्च नीलशब्दोऽपीत्यादि, सोऽपि हि नीलशब्दो न द्रव्यं नीलत्वेनाह यत्तत्तरतमादिप्रकर्षभेदस्य सामान्यं स्यात् , किं तर्हि ? [अनीलवदभावमनीलत्वजातेरनीलगुणस्य वा निवृत्तिमाह । तत्र चाभावे न नील-नीलतर-नीलतमानां भेदानां कस्यचिदपि सम्भवः । तस्मादभावमात्राभिधानाद् नास्ति सामान्यविशेषभावः ।
अनीलाभावभावत्वाद् नेति चेत् । स्यान्मतम्-अनीलत्वजातिगुणाभावो नीलगुणद्रव्यभाव 25 एव, स च सामान्यं नीलादिभेदानाम् , इति चेन्मन्यसे । अत्रोच्यते-एवं विधिशब्दार्थता तर्हि, स एव नीलत्वजातिगुणाधारद्रव्यस्य 'विधिः । अस्तु, को दोष इति चेत्, उच्यते यस्मादेवं सतोऽपि न ४१९.१ सामानाधिकरण्यं त्वदुक्तन्यायेन अभूतसामान्यविशेषत्वात् , अनन्यद्रव्यवर्तिनि नीलगुणे नील-नीलतरनीलतमप्रकर्षभेदाभावात् सामान्यविशेषत्वाभावः । तस्मादभूतसामान्यविशेषविषयत्वात् त्वदुक्तनील
१ तुलना-पृ० ४७४-१॥२ अर्थशब्दस्य प्र० ॥ ३ तुलना पं० २८ । पृ० ६३० पं० १॥ ४ 'नीलगुणे' इति सप्तम्यन्तमेतत् ॥५°लक्ष्याभ्यनीलगुण भा० । लक्षभ्या नीलगुण य० । (°लक्ष्यस्य नीलगुण ?)॥ ६ विधेः प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org