________________
६३४
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे पार्थिवत्वादिवत् । अथास्यैकदेशं गृह्णाति, तदयुक्तमप्रतीतेः । न हि व्यावृत्तिसामान्यशब्दैस्तद्वत एकदेशो वक्तुं शक्यः, अतदसत्वत्सामान्यविषयत्वात् , यथा आचार्यो मातुल इति ।
अथापि स्यात्-असद्यावृत्तिजातिमति बह्वाशङ्कायां घटादिभेदवाचि
5 प्रयोगस्याभावो दृष्टः, यथा परं प्रति त्वदुदाहृतघटपार्थिवत्वोक्तौ 'यदि घटत्वेन समस्तं वस्तु विशिष्टं ४१४-१ ततः पार्थिवत्वस्यावकाशाभावान्न युज्यते' इति इष्टो दोषस्तथा यद्यघटत्वनिवृत्तिविशिष्टं वस्तु समस्तमुक्तं ततोऽपार्थिवनिवृत्तिविशिष्टं न युज्यत इति समानः ।
अथास्यैकदेशं 'घटः' इत्यघटनिवृत्त्या गृह्णाति एकः, अपरोऽपार्थिवनिवृत्त्या देशं 'पार्थिवः' इति गृह्णातीति मतम् तदयुक्तमप्रतीतेः, न हि निमित्तान्तरैरुच्यमानस्य एकदेशप्रतीतिर्दृष्टा यथा आचार्यो 10 मातुल इति तथा न हि व्यावृत्तिसामान्यशब्दैस्तद्वत एकदेशो वक्तुं शक्यः । कस्मात् ? अतदसत्वत्सा
मान्यविषयत्वात् । अतस्य अन्यस्य व्यावृत्तस्य असत्त्वम्, तदस्यास्ति 'सन् घटः' इत्यादिसामान्ये, स विषयोऽस्य शब्दस्य सोऽतदसत्वत्सामान्यविषयः, यत्रातदसत्वत्सामान्यविषयत्वं शब्दे तस्यैकदेशो न शक्यो वक्तुम् । किमिव ? आचार्यो मातुल इत्यादिनिमित्तान्तरोक्तैकदेशानुक्तिवत् ।।
अथापि स्यादित्यादि परमताशङ्का । यथा विधिवादिमतमाशङ्कयते तथापोहवादिमतम्-असद्व्या15 वृत्तिजातिमतीत्यादि शब्दविशेषितग्रन्थमर्थतस्तुल्यं यावद् नीलतम इति वेति । अस्य व्याख्या
१“सम्बन्धिभेदेनैक एवार्थोऽनेकरूपत्वेन प्रतिभासत इत्यत्र भाष्ये [ पा० म० भा० ३।३।१८] निदर्शनमुपन्यस्तं व्याचष्टे-आचार्यों मातुलश्चेति यथैको व्यपदिश्यते । सम्बन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः ॥ [वाक्यप० ३।८।६३], उक्तमिदं भाष्ये-उपाध्यायस्य शिष्यो मातुलस्य भागिनेयं गत्वाह-उपाध्यायं भवानभिवादयतामिति । स गत्वा मातुलमभिवादयते । तथा मातुलस्य भागिनेय उपाध्यायस्य शिष्यं गत्वाह-मातुलं भवानभिवादयतामिति । स गत्वोपाध्यायमभिवादयत इति । अत्र च यथैकोऽर्थः कश्चित् प्रत्युपाध्यायो भवति कञ्चित् प्रति मातुलो भवति तथा स प्रकारः पक्तिभावयोबौधे च । स्वगतविशेषापेक्षया सामान्यखभावोऽपि पचिर्भावं प्रति विशेषः, भावः पुनः पचिं प्रति सामान्यमेव ।" इति वाक्यपदीयस्य हेलाराजरचितवृत्तौ ३।८।६३ ॥ २ तुलना-“यदपि च भिक्षणा शङ्कितम्-'मा भूत् पिण्डान्तरेण विशेषणविशेष्यभावः । तस्मिन्नेव पिण्डे सत्तादिविशिष्टेऽभिहितेऽपरतद्गतविशेषाकांक्षायां विशेषणादिव्यवहारो भविष्यति 'सन् घटः' इति । यथा नीलशब्देन नीलगुणेऽभिहिते तद्गत विशेषापेक्षया तरबादिविशेषणं भवति नीलतरो नीलतम इति' [ ] इति । तदुक्तम्-'योकत्रासितादिवत् [पृ. ६३०] इति । एवं चाशय परिहृतम्-'युक्तं तत्र नीलो गुणः प्रकर्षाप्रकर्षादि. भेदभिन्नस्तरबादिभिर्विशेष्यते। सत्ताजातिस्तु घटादिजातिशून्या स्वात्मविशिष्टं पदार्थ प्रतिपादयन्ती नैव घटत्वादीनाकाक्षतीति न तत्र विशेषणाभिधानं भवति' [ ]। तदुक्तम्-'नैतज्जातेरजातितः' [पृ० ६३०] इति । तदेतदपि समानम् । तवापि ह्यसदपोहे नैवाघटापोहोऽस्ति । अतश्चात्मन्यविद्यमानमघटापोहमसदपोहो नैवाक्षेप्तं समर्थ इति तै घटापोहै विशेष्यते यथाऽनीलापोहः स्वगतैरप्रकर्षापोहैविशेष्यते । तदेतत् सर्वमाह-'नात्मन्यविद्यमानत्वाद्विशेषापोहसूचनम्। तस्मान्न तैर्विशेष्यत्वं प्रकृष्टत्वेन नीलवत् ॥ १३२ ॥' इति । यत् पुनः 'अशब्दवाच्यैरेव घटादिभिः सज्जात्याक्षिप्तैर्विशेषणादिव्यवहारो भविष्यति' [ ] इत्याशय भिक्षुणा दूषितम्-'अनैकान्तिको घटाक्षेपः, पटेऽपि सङ्क्रान्तिसम्भवात् [
] इति । तदुक्तम्-'अर्थाक्षेपेऽप्यनेकान्तः' [पृ० ६३० पं० ७] इति । तदेतदपि [ समानम् ] । न ह्यसदपोहोऽनैकान्तिको धूमवदग्निमघटापोहमाक्षेप्तुं समर्थ इत्याह-'अर्थाक्षेपोऽपि नास्त्येव सन्देहाल्लिङ्गलिङ्गिवत् ।' इति ।"-मी० श्लो० वा० शर्करिका. पृ० ६४ ॥ ३ तुलना-पृ. ६०८ पं० १४ ॥ ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org