________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६३३ शब्दमात्रं हि....."तन्निमित्ताभावात् छत्रिदण्डिवत् । भेदाद् व्यावृत्तिसामान्यानाम् ..........एकस्मिन्नर्थे यदा बहवो वक्तारो भवन्ति 'घटः पार्थिवो द्रव्यं सन् शुक्लः' इत्येवमादिविशेषैस्तदा सोऽर्थो घटरूपेण कृत्स्नो वाभिधीयेत एकदेशेन वा ? न तावत् कृत्लः, वक्त्रन्तरस्य पार्थिवत्वेनाभिधानासम्भवप्रसङ्गात् । अन्यतरसामान्यविशेषणाभावः, कृत्स्नाभिधेयस्वरूपोपादानशब्दाभिहितत्वात्, घट- 5
शब्दमात्रं हीत्यादि त्वन्मतदोषोक्तिस्तुल्या तवापि यावत् तन्निमित्ताभावात् छत्रिदण्डिवदिति । यथा छत्रनिमित्तश्छत्री दण्डनिमित्तो दण्डी भिन्ननिमित्तत्वात् परस्पर म]समानाधिकरणौ तथा व्यावृत्तिमत्सच्छब्दपक्षेऽपीति । 'भेदाद् व्यावृत्तिसामान्यानामित्यादि, विधिपक्षदूषणवदिहापि व्यावृत्तिसामन्यवद्भेदादन्यदेवासद्व्यावृत्तिसामान्यात् [अ]घटनिवृत्तिसामान्यम् , अतः 'सन् घटः' इति भिन्नव्यावृत्तिविशिष्टसन्घटत्वसामान्ययोर्भेदादिति । अत ऊर्ध्वं तुल्यगमनीयमेव विधिपक्षदूषणेन सर्वमिति तद्व्याख्यैवेयं 10 लिख्यते- एकस्मिन्नर्थे घटादौ घटत्व-पृथिवीत्व-द्रव्यत्व-सत्त्वादिभिन्नेषु वक्तृषु कश्चिद् ‘घटः' इति ब्रूते कश्चित् 'पृथिवी' इत्यादि यावत् 'सन्' इति, तत्र घटाभिधाने सोऽर्थो घटरूपेण कृत्स्नो वाभिधीयेत, एकदेशेन वा ? न तावत् कृत्स्नः, तस्मिन्नेव काले वक्त्रन्तरस्य पार्थिवत्वेनाभिधानासम्भवप्रसङ्गात्, न हि [अ]घटव्यावृत्तिरूपसामान्यं गृहीत्वाऽतद्रूपाभिप्रायिशब्दप्रयोगो युक्तः, स चेतरवक्तृवशात् कृत्स्नो घटरूपेण स्थित इत्यसम्भवो रूपान्तरस्य कृत्स्नस्यैकस्य । [अनेक?]वृत्तिसामान्यरूपप्रतीतेस्तद्वतस्तत्सारूप्येण युगपद् 15 वक्त्रभिप्रायभेदेन युक्तो ‘भावः सन् घटः' इति प्रयोगः ।
अत्र साधनम्-अन्यतरसामान्यविशेषणाभाव इति प्रतिज्ञा । कृत्स्नाभिधेयस्वरूपोपादानशब्दाभिहितत्वात् , यत्र कृत्स्नाभिधेयस्वरूपं तदुपादानेन शब्देनाभिधीयते तत्रान्यस्य सामान्यविशेषण
सम्भवति । एवं नीलशब्देऽपि उत्पलशब्देन सहितस्य यः प्रकाश्यः स केवले न सम्भवतीति शब्दान्तरसान्निध्येन विशिष्टार्थे प्रवृत्तेः परस्परं विशेषणविशेष्यभावः । .....'नन्वेकाधिकरणं यत् तदिति, विग्रहकाले 'नीलं च तदुत्पलं च' इति क्रियते तस्मात् पृच्छति । अनेन यदुक्तं 'शब्दान्तरसहितेनैव शब्देन विशेष्यार्थः प्रकाश्यते' इत्यत्राभ्युपगमबाधामाह । न हि तत् केवलं नीलम् इति केवलनीलनिषेधेन नीलशब्दमात्रवाच्यत्वस्य निषेधः। एवं नच केवलमुत्पलमिति उत्पलशब्दमात्रवाच्यत्वस्य केवलस्य । तथाहि-केवलनीलशब्देन केवलोत्पलशब्देन च यदभिधीयते तत् केवलं नीलं केवलं चोत्पलमिति प्रसिद्धम् । कस्मात् पुनः नीलोत्पलशब्दाभ्यां केवलाभ्यां तन्नाभिधीयत इति चेदुच्यते-समुदायाभिधेयत्वादिति । यस्मात् सहिताभ्यामेव नीलोत्पलशब्दाभ्यां सोऽर्थोऽभिधीयते न केवलाभ्याम् , अन्यथा एकेन तदर्थस्याभिहितत्वे पर्यायशब्दवत् तयोः सह प्रयोगो नोपपद्यते । ततोऽनेन विग्रहकालेऽपि सहिताभ्यां नीलोत्पलशब्दाभ्यां तदभिधीयत इत्यभ्युपगमाद् नाभ्युपगमबाधेति दर्शयति । ननु केवलाभ्यां किं प्रतीयते इति चेत् , न किञ्चिदपि, यस्माद् वर्णवत् तन्निरर्थकम् । कथं पुनरंशानां निरर्थकत्वे तत्समुदायस्यार्थवत्त्वमिति चेदुच्यते-यथेत्यादि ।"-विशालामलवती. VT. D. ed. पृ. २४८ A-२५८ A , P. ed. पृ. २८० A-२९१ B॥
१'शब्दमात्रं हि तुल्यं नार्थः । शब्दश्च निमित्तमुपादाय प्रवर्तते, अतो व्यावृत्तिमत्पक्षे व्यावृत्तिमतां भेदान्न सामानाधिकरण्यम् , एकत्र तन्निमित्ताभावात् छत्रिदण्डिवत्' इत्याशयोऽत्र भाति ॥ २ यावत्तमित्ताभावात् य०॥ ३°ब्दमपेक्षेपीति य० ॥ ४ मेदाद्वाभ्यावृत्ति भा० । भेदाद्वा व्यावृत्ति इत्यपि पाठोऽत्र भवेत् ॥ ५वक्तृषु वक्तृषु भा० । वक्तृषु २ य० ॥ ६°त्वातद्रूपा य० । त्वतद्रूपा भ० ॥ ७°मत्तद्वत भा० ॥
नय०८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org