________________
६३२
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[अष्टम उभयनियमारे
इति तदसामान्यम् , तथापि नील इत्युक्ते योऽयं नील इत्युक्तः स किं नीलतर आहोखिन्नीलतम इति विशेषाशका भवति, ततो नीलतरो नीलतम इति भेदशब्दविशेष्यते एवं सदित्युक्ते यः सन् अयं किं घट आहोस्वित् पट इति घटाद्याशङ्का भवति ततस्तच्छब्दैविशेष्यते घटः पटो वेति । योकत्रासितादिवदिति ..............तच्चेदं नास्ति । कुत इति चेत्, उच्यते-नीलशब्दो हीत्यादि । नीलशब्दो हि नीलगुणवद् द्रव्यमाह । तच्च नीलतरादिद्रव्यान्तरे न वर्तते । यन्नीलत्वं वर्तते तत्सम्बन्धो वा तस्य शब्दार्थत्वं न भवति। तस्मादत्रापि नानिमित्तः स च मतः [पृ० पं. १९] इत्येतत् समानमिति दार्शन्तिकेन समानस्य दृष्टान्तस्याप्यसिद्धिरेव । अभ्युपायेऽपीति, यद्यपि दृष्टान्तः सिध्यति तथापि सत्तायां तत्तुल्यत्वं नास्ति । तद्दर्शयति-नैतज्जातरजातित इति। न विद्यते घटत्वादिजातिरस्यां सत्ताजातावित्येवम् अजातिः सज्जातिः अजातिमतीति सत्तायां घटत्वादयो जातिविशेषा न सन्ति नीलगुणे नीलतरादिविशेषवत् यतस्त द्विशेषानुपादाय द्रव्ये वर्तेत ।...... ...तस्मात् सच्छब्दाद् घटादिविशेषाशङ्का न युक्ता । नीलगुणस्तु अनेकभेदः । स एकत्रापि द्रव्ये वर्तमानः खविशेषानुपादाय 'यथाभिसम्भवं वर्तत इति तद्वाचिनीलशब्दान्नीलतराद्याशङ्का युज्यत इति दर्शयति । नन्वेवमिति प्रकारान्तरेण विशेषाशङ्कासम्भवमाह ।........"तद्वानर्थोऽवश्य मित्यादि । जातिमानों हि शब्देनोपात्तः । स च नियोगादेव घटत्वादिसामान्येन केनचिदनुबद्धः । ततश्च तत्सामान्यभेदाक्षेपे घटादिविशेष आक्षिप्यत इति । इममपि विकल्पं निराकुर्वन्नाह-अथोक्षेपेऽप्यनेकान्त इति । अथोक्षेपो हीत्यादिना अक्षेिपस्य स्वरूपमाह । तदभावमत्र दशे यितुं यथा दिवा न भुङ्कइति वैधर्म्यनिदर्शनम् । अत्र त्वित्यादिना वैधर्म्यप्रयोगे पक्षधर्ममुपदर्शयति । आक्षेपो नास्तीति प्रमाणफलम् । यत्राक्षेपस्तत्र निश्चयः यथा दिवा न भुङ्क्ते इत्यत्र रात्रिभोजने । सदित्यभिधाने च घटादिषु न निश्चयः, किं तर्हि ? सन्देहः । इति स्वभावविरोधः ।........"तस्मादित्यादिना यथोक्तजात्याद्यभिधाननिषेधोपसंहारेण स्वपक्षमेव दर्शयति ।...... ......"आह इति अर्थगम्यांशसन्दर्शनेन अन्यापोहमेव शब्दार्थ ग्राहयति। बहधेति शिंशपादिविशेषेण पुष्पितफलितादिविशेषेण चानेकविधत्वेऽपीत्यर्थः। अभिधेय इति शिंशपादिरर्थः । तस्यैव अनेकविधत्वेऽपि न शब्दात् सर्वथा गतिः। स्वसम्बन्धानुरूप्यादिति स्वसम्बन्धोऽविनाभावित्वं तदन्वयव्यतिरेकलक्षणम् । स च तत्सामान्यापेक्षया, न तु विशेषापेक्षया । तस्माद् यादृशः सम्बन्धः प्रत्यायकत्वमपि तादृशमेव युज्यते । इदमुक्तं भवति-सामान्यापेक्षयास्य सम्बन्धः, सामान्यं च व्यवच्छेदरूपमेव यथोक्तवत् अन्यस्यायोगात् । तस्माद् व्यवच्छेदमेव कुर्वन् प्रत्याययतीति । अथ केनांशेन प्रत्याययतीति चेत्, उच्यते-अनेकधर्मा शब्दोऽपीत्यादि । स्वसामान्यधर्मरनेकधर्मा। येनार्थ नातिवर्तत इति सामान्यधर्मेण वृक्षत्वादिना येन न व्यभिचरति प्रत्याययति तेनैवेति अनेन स एव धर्मः प्रत्यायक इत्यर्थः । एवकारेण यद्वयवच्छेदस्तद् दर्शयति-न तु शब्दगुणादिभिरिति। आदिशब्देन शब्दज्ञेयत्वादयो गृह्यन्ते । अप्रत्यायकत्वं तेषामव्यभिचारित्वात्। तथाहि-ते वृक्षार्थ विनापि रसादिषु दृष्टाः, न तु वृक्षशब्दत्वादि सामान्यम् । यद्यन्यापोहमात्रमित्यादि । ....."कथमित्यादि.........। कथं न स्यादिति चेदित्यादि । यस्माद भिन्न इत्यादि अपोह्यभेदेन सहचारादर्थभेदं दर्शयति । अयं हेतुः । ये भिन्नार्थास्त न समानाधिकरणा न च विशेषणविशेष्यभूताः, घटपटादिशब्दवत् , नीलोत्पलादिशब्दा अपि तथेति व्यापकविरोधः। तेऽपीत्यादि । यद्यपि अपोह्यमेदाद भिन्नार्थास्तथाप्यस्ति विशेषः स्वार्थमेदगती जडाः प्रत्येकमिति शेषः । स्वार्थः सामान्यमुत्पलशब्दस्योत्पलमात्रम्, तद्भेदा रक्तोत्पलादयः । नीलशब्दस्यापि नीलमात्रम्, तद्भेदा भ्रमरादयः । तद्गतौ जडाः संशयहेतवः । अनेन प्रत्येकं स्वार्थभेदे संशयहेतुत्वम् अर्थापत्त्या सहितानामेव निश्चयहेतुत्वं विशेष उक्तः। यस्मादेवमुत्पलनीलादिशब्दानां परस्परार्थे स्वार्थविशेषे प्रत्येकं संशयहेतुत्वं सहितानामेव निश्चयहेतुत्वं तस्मादेकस्मिन् वस्तुनि नीलोत्पलमित्यभिन्नकार्यत्वं विशिष्टाभिव्यक्तिलक्षणं युज्यते। तस्मादेकत्राभिन्नकार्यत्वात् सामानाधिकरण्यं तस्माच विशेषणविशेष्यभाव उपपद्यते। ............. अपोह्यमेदे सत्यपि इति, इदमपि पूर्ववदपोह्यभेदेनार्थभेदं दर्शयति । स्वार्थविशेषव्यक्त्यर्थमिति स्वार्थविशेष उत्पल. नीलादिशब्दानामुत्पलनीलादिः, तदभिव्यक्त्यर्थमिति । अनेनाभिन्नकार्यत्वमुक्तम् । स्थाणुकाकनिलयनवत् स्वापोहार्थमिति नीलसामान्योत्पलसामान्ययोः [अपोहार्थम् ] एकत्र समुदिता इति । ........तथाहि-ते प्रत्येकं स्वार्थविशेषे संशयहेतवः। अर्थापत्त्या सहितानां निश्चयहेतुत्वमुच्यते। यस्माद् नीलोत्पलादिशब्दाः प्रत्येकं स्वार्थविशेषे सन्देहहेतवः सहिता एव निश्चयहेतवः, तस्मात् साहताः स्वार्थविशेषकार्थव्यञ्जकाः समानाधिकरणभूताः। शब्दान्तरसहितप्रकाश्यार्थासम्भवाच्चेत्यादि । शब्दान्तरेण नीलादिशब्देन सहितस्य उत्पलशब्दस्य प्रकाश्यो विशिष्टोऽधः स उत्पलशब्दे केवले न
, 1 यथानीलसम्भवं (2) P. ed. ॥ 2 वैधोपयोगे D. ed. । वैधोपयोगेन P. ed.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org