________________
दिशागप्रणीतापोहयादनिरासः]
द्वादशारं नयचक्रम् ।
वश्यमित्युक्तम् । ननु तद्वत्पक्षाद् भेदपक्षस्य को विशेष इति चेत्, तद्वत्पक्षे सज्जातिरूपेण सच्छब्देनाभिधानम् , भेदपक्षे तु द्रव्यादिरूपेण । एवं हि ते भेदरूपेणाभिहिता भवन्तीति विशेषः । तत्रापि द्रव्यत्वादिषु साक्षाद् भेदेखूपचार इति पूर्ववदेव दोषो वक्तव्यः-साक्षाद् उपचारप्रवृत्तत्वं क्रमेणानभिधानं गुणोपकारविरोधश्चेति । सम्भवादिति जात्यभिधाने 'प्रकर्षः स्याद् विना धिया' इत्यस्यासम्भवात् । सम्बन्धाभिधानेऽप्यत एव 'सम्भव'वचनम् । ननु पूर्व सम्बन्धस्यानभिधेयत्वमुक्तं तत् कथमिदानीं सद्रूपेणाभिधानमाश्रीयते कथं चात्र अभेदोपचारः सम्बन्धस्याङ्गीक्रियते ? पूर्व हि असत्त्वभूतत्वाद् आख्यातार्थे शब्दस्याभेदोपचारानुपपत्तेरनभिधानमुक्तम् , सम्बन्धोऽप्यसत्त्वभूत एव, तत् कथं तस्य सत्त्वं सच्छब्देनाभेदोपचारो वा ? अभेदोपचाराभावे च कुतः पूर्वोक्तदोषप्रसङ्गः ? अथ सत्तया अभेदोपचारेण स उच्यते कथं सद्योगशब्दयोः सामानाधिकरण्यानुपपत्तिरिति चेत्, नायं दोषः, सम्बन्धाभिधानमभ्युपगम्यास्य दोषस्योक्तत्वात् । 'यदि च सम्बन्धोऽभिधीयते तथापि तद्वत्पक्षदोषानतिक्रम एव जातिमता तुल्यसामर्थ्यात्' इति दर्शनार्थमिदमुक्तम् । तद्वांश्चेत्यादिनास्य पक्षान्तरत्वमेव निराकरोति । ननु चोक्तमित्यादिना पक्षान्तरत्वं दर्शयति । अत्र भेदा भेदरूपेण नाभिधीयन्ते, किं तर्हि ? जातिमतां तेषां यन्निविशेष रूपं सत्त्वेनारोपितं तदेव भेदरूपासंस्पृष्टमभिधीयते । तथा च भेदपक्षात् पक्षान्तरमेवेदमिति मन्यते । यद्येवम् इत्यादिना जातियोगपक्षयोरन्तर्भूतत्वादस्य पक्षान्तरत्वं निषेधति । कथं पुनस्तद्वन्मानं सत्ता सम्बन्धो वा भवतीति चेदुच्यते-तद्वन्मात्रं हि इयादि । 'मात्र' शब्देन विशेषनिराकरणे सामान्यं सर्वानुगतिरूपं शब्दार्थ इत्युक्तं भवति। तच्च प्रवृत्तिनिमित्तत्वाद् भावप्रत्ययेन उच्यमानं सत्तां सम्बन्धं वा विहाय नान्यदुपलभ्यते, भावप्रत्ययस्य तत्रैव विहितत्वात् । इदमागमेन दर्शयितुमाह-समासकृत्तद्धितेषु इत्यादि सम्बन्धस्याभिधेयत्वे आगमः । राजपुरुषत्वं पाचकत्वम् औपगवत्वमित्येतेषु समासादिषु स्वस्वामि-क्रियाकारक-निमित्तनैमित्तिकसम्बन्धा उच्यन्ते यथासंख्यम् । ततोऽत्रापि सच्छब्दः कृदन्तत्वात् सम्बन्धवाचकः स्यात् । अन्येऽस्यैवापवाद वदन्ति-अन्यत्रेत्यादि । अयं गुणवाचित्वे आगमः । रूढे..... अत्र जातिमात्रमभिधीयते, न सम्बन्धः । अभिन्नरूपात् तद्धितात्..... अत्र च गुण एवोच्यते । अव्यभिचरितसम्बन्धात्..... 'अत्र तदेव सत्त्वमभिधीयते, न सम्बन्धः । तद्वानों घटादिरित्यादिना अनेकत्रावर्तमानताया हेतुः प्रकाशितः । सामान्यमर्थः स कथमिति प्रमाणफलम् । यदनेकत्र न वर्तते तन्न सामान्यम् , स्वलक्षणवत् , तद्वांश्च तथा, इति व्यापकाभावः । सामान्यं ह्यनेकत्र वर्तते इति व्यतिरेकः । तच्चेत्यादिना हेतोरेवार्थ विवृणोति । कथमित्यादिभिः प्रतिज्ञार्थम् । ननु चेत्यादिना सिद्धसाध्यतामाह, तद्वतः सामान्यरूपत्वेनानिष्टत्वात् । तदनिष्टत्वं सामान्यरूपारोपस्य प्रकाशयन्नाह-किमर्थमित्यादि । यस्मादित्यादि सिद्धसाध्यतायाः प्रतिविधानम् । एवं मन्यते-सम्बन्धसौकर्यादव्यभिचारवचनाच्च सच्छब्दस्य सामान्यवाचित्वमाश्रीयते भेदशब्दैः सह सामानाधिकरण्याभ्युपगमाच, सामान्यविशेषभावाभावे सामानाधिकरण्यं नोपपद्यत इति । तथाहि-सामान्यशब्दाद् निर्विशेषं प्रवर्तमाना बुद्धिर्विशेषशब्देर्भेदान्तरेभ्यो व्यवच्छिद्य विशिष्टविषयेऽवस्थाप्यते । तत् सामान्याभावे नोपपद्यते । अत्र च सामान्येन तद्वानित्यभ्युपगमे विकल्पद्वयम्-किं सत्तादिसामान्यस्य तद्वत्त्वम् आहोखित् तद्वतो घटादेः समानत्वमिति । तत्र पूर्वस्यासम्भव इति दर्शयति-सत्तादिषु चेत्यादि । सत्तादिषु जात्यन्तरं नास्ति जातीनामजातित्वात् । ततोऽवश्यं द्वितीयविकल्पोऽभ्युपगन्तव्य इति दर्शयति-तस्मादित्यादि । अथै इति प्रकृतत्वात् तद्वति घटादौ । स्यादेतत् (?) ननु तत्रैवेति चेत्, अत्रोच्यतेतच्चेत्यादि । कस्मानास्तीति चेत्, यस्मादित्यादि । केवलवचनेन अभिधेयं तुल्यं निराकरोति। शब्द एवाभिधायक एते[षां] तुल्यः, न वाच्यमेवं किञ्चिदपीत्यर्थः। तद्वता केनचिदपि नेति, अभिधानसाम्येनैव एतेषां समानत्वम्, न त्वभिधेयेन तद्वद्वस्तुरूपेण केनचिदित्यर्थः । ननु सत्ता शब्दखरूपेण तद्वती अभिधीयते, सम्बन्धश्च सत्तारूपेण । तस्मात् सत्तायाः सम्बन्धस्य वा अभिधेयेन तद्वता तुल्यत्वं भविष्यतीति चेत्, उच्यते-सत्तायोगी चेत्यादि । भेदे जातौ च तद्योगे दोषस्तुल्यो हि तेष्वपि [पृ० ६३० पं० २] इत्यादिना पूर्वमेव निराकृतं जातियोगयोस्तद्वत्त्वेनाभिधानम् । यदि घटादिषु शब्दः समानस्तदा स एव शब्दः शब्दत्वेन तद्वान् तेषां सामान्यं स्यादिति चेत्, उच्यते-नानिमित्त इत्यादि । ......... निमित्तवतो यस्य शब्दस्य यत्र निमित्ताभावः तस्य तत्र योगो भवितुं नाहति यथा दण्डशब्दस्य दण्डरहिते पुरुषे। घटादिष्वपि निमित्तवतो जातिशब्दस्य निमित्ताभाव इति कारणानुपलब्धिरुक्ता। ततश्चेत्यादौ यदि सामान्यमभिधेयं ततस्तद्विशेष्यार्थ घट इत्युच्यत इति सामानाधिकरण्यं स्यात् । सामान्याभिधानाभावे किं कस्य विशेष्यम् ? ततश्चाभ्युपगमहानिः । अथापीति सामान्यविशेषभावाभावेऽपि प्रकारान्तरेण विशेषणविशेष्यत्वं ग्राहयति । द्रव्यान्तरे न वर्तत इति अनन्यद्रव्यवर्ती सहुणो घटादि द्रव्यम् । सहुण इति सत्तागुणवानित्यर्थः, सत्ता गुणोऽस्यति कृत्वा । अनेनातुल्यत्वमुच्यते । एवमतुल्यत्वे सत्यपि सच्छब्दादू घटाद्याशङ्कायां विशेषणविशेष्यभावो भविष्यति नीलतरादिवत् । नीलगुणवद् द्रव्यं नीलतरादिद्रव्यान्तरेऽतद्गुणे न वर्तते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org