________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[अष्टम उभयनियमारे
ततश्च विशेषणविशेष्यत्वाभावः। अथापि [स्यात् अनन्यद्रव्यवर्तिनि सद्गुणे सच्छब्दाद् घटाद्याशङ्कायां विशेषणविशेष्यभावो भविष्यति नीलतरादिवदिति चेत्, यद्येकत्रासितादिवत् । तच्च नास्ति । नीलशब्दो हि नीलतरादिष्वन्याभावे तद्वति न युज्यते। नीलत्वं सम्बन्धश्च न शब्दार्थ इत्युक्तम् । किञ्चान्यत्, अभ्युपायेऽपि नैतजातेरजातितः। नीलतरादिषु नीलसामान्याभ्युपगमेऽपि यथा नीलगुणस्त्रिधा भिन्न एवं घटत्वादिजातिमती सजातिर्नास्ति यतस्तद्विशेषानुपादाय द्रव्ये वृत्तौ घटादिविशेषे वृत्तिराशयेत । तस्मादिदमपि न कल्पनीयम् ।। - नन्वेवमशब्दवाच्येष्वप्याक्षिप्तेषु घटादिषु तद्वानर्थोऽवश्यं घटत्वादिना केनचिदनुबद्ध इति विशेषणविशेष्यभावो भविष्यतीति चेत्, अर्थालेपेऽप्यनेकान्तः। अर्थाक्षेपो हि यत्रार्थसामर्थ्याद् निश्चय उत्पद्यते यथा दिवा न भुते इति रात्रिभोजने निश्चयः । अत्र तु सदित्युक्ते घटादिष्वनिश्चयात् [ संशय इति Psvi] अर्थाक्षेपो नास्ति । 'तस्माजातिशब्दः कथञ्चिदपि भेद-सामान्य-सम्बन्ध-जातिमतां वाचको न युज्यते तेनान्यापो तिः । तस्मात् 'कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते' [पृ० ६०७ पं० ८ ] इति स्थितम् । आह च
बहुधाप्यभिधेयस्य न शब्दात् सर्वथा गतिः । स्वसम्बन्धानुरूप्यात्तु व्यवच्छेदार्थकार्यसौ ॥ १२ ॥ अनेकधर्मा शब्दोऽपि येनार्थ नातिवर्तते ।
प्रत्याययति तेनैव न तु शब्दगुणादिभिः ॥ १३ ॥ [इति सङ्ग्रहश्लोकौ Psvi] यद्यन्यापोहपात्रं शब्दार्थः कथं नीलोत्पलादिशब्देषु सामानाधिकरण्यं विशेषणविशेष्यभावश्च स्यात् । कथं न स्यादिति चेत् , यस्माद् भिन्नः सामान्यविशेषशब्दानामपोह्य इति चेत् , नायं दोषः । तेऽपि
अपोह्यभेदाद् भिन्नार्थाः स्वार्थभेदगतौ जडाः।
एकत्राभिन्नकार्यत्वाद् विशेषणविशेष्यकाः ॥ १४ ॥ नीलोत्पलादिशब्दा अपोह्यभेदे सत्यपि स्वार्थविशेषव्यक्त्यर्थं स्थाणुकाकनिलयनवत् स्वापोहार्थमेकत्र समुदिताः समानाधिकरणभूताः । तथाहि-ते प्रत्येकं स्वार्थविशेषे संशयहेतवः । शब्दान्तरसहित प्रकाश्यार्थासम्भवाच्च विशेषणविशेष्यभूताः । नन्वेकाधिकरणं यत् तद् नीलमपि नोत्पलमपि नेति कथं तद् 1 नीलं च तदुत्पलं चेति नीलोत्पलमित्युच्यत इति चेत् ,
मैं हि तत् केवलं नीलं न च केवलमुत्पलम् ।
समुदायाभिधेयत्वात्, 1 नीलोत्पलशब्दाभ्यां ते समुदिते प्रतीयेते, न केवले, केवलयोस्तु वर्णवत् तन्निरर्थकम् । यथा नीशब्द-लशब्दौ सन्तावपि नीलाभिधाने निरर्थको [एव Psvi] एवमत्र [ अपि Psvi]-Psvic. ed. D. ed. पृ० ६७ B-६९ A । N. ed. पृ० ७५ B-७७ A | Psvs. N. ed. पृ० १५९ ५-१६० B | P. ed. पृ० १५७ B-१५९ B॥
अस्य सवृत्तिकस्य प्रमाणसमुच्चयस्य जिनेन्द्रबुद्धिना विरचिता विशालामलवती व्याख्या भोटभाषानुवादात् संस्कृते परिवात्रोपन्यस्यते
"मेदेष्वित्यादिना तद्वत्पक्षेऽभिहितं दोषं पक्षान्तरेष्वतिदिशति । उत्तरार्धेन अत्रैवोपपत्तिमाह । जातिरूपं भेदेषु न युज्यते, शब्दस्वरूपं जातौ, शब्दस्वरूपवजातिरूपं सम्बन्धे। सम्बन्धिरूपेण सतोऽर्थस्य स्वयं वचनविषयीकर्तुमशक्यत्वाद
1 'अनन्यद्रव्यवर्ती सद्गुणः' इत्यपि पाठश्चिन्त्यः ॥ 2 शर्करिका पृ. ६४ । तुलना-"तदुक्तम्-मा भूदर्थान्तरे वृत्तियोकत्रासितादिवत् । प्रकर्षादिविशिष्टत्वम्' इति । एवं चाशङ्कय दूषितम्-'नैवं जातेरजातितः' इति ।"-न्या. र० पृ. ६०१-६०२ ॥ 3 'द्रव्ये वर्तमानस्य' इयपि पाठो भवेत् ॥ 4 शर्करिका. पृ. ६४ । न्या०र० पृ. ६०२ ॥ 5 अर्थाक्षेपो नाम PS 6 देवदत्तो दिवा न Psv' ॥ 7 यस्माजातिशब्दः Psv* ॥ 8 इति यत् तदेव स्थितम् Psy* ॥ 9 नय चक्रवृत्ति. पृ०४२७-२ । 'स्वसम्बन्धानुरूपेण'-शर्करिका. पृ० ४६ ॥ 10 "भावश्च कथं स्यात् Psy | 11 तत्त्वसं०पं० पृ. ३०७ । सन्मतिव० 12 समुदयेन Pavi-213 नीलं चोत्पलं चेति चेत्, उच्यते-न हि तत् केवलं......"Psvi॥ 14 तत्त्वसं०पं० पृ. ३०८ । सन्मतिव०॥ 15 'नीलोत्पलशब्दाभ्यां. समुदिताभ्यां तदुच्यते न केवलाभ्याम्, केवलं तु वर्णवत् तन्निरर्थकम् ।' इत्यपि पाठः Psvi VT. अनुसारेण सम्भाव्यते ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org