________________
दिनागप्रणीतापोहवादनिरासः]
द्वादशारं नयचक्रम् ।
६२९
यत्र यथा यथोपयुज्यते तथा तथानुसन्धेयः । प्रमाणसमुच्चयान्तर्गतोऽपोहवादः
___"भेदेषु जातौ तद्योगे दोषस्तुल्यो हि तेष्वपि ॥७॥
"यतो जातिः स्वरूपं च तद्वद्रूपं न युज्यते । भेदरूपेणाभिधानेऽपि अवश्यं जातिरूपेण भेदाभिधाने जातौ साक्षाद् भेदेषूपचारात् तद्वतीव सर्वत्र दोषो वाच्यः, जातावप्यभिधेयायां शब्दस्वरूपाध्यारोपेण जात्यभिधानात् सम्भवात् । जातियोगो जातिरूपेण सदादिनाभिधीयत इत्यत्रापि यथासम्भवं दोषो वाच्यः ।
"तद्वांश्च भेद एवोक्तः स च पूर्व निराकृतः ॥ ८॥ 10"न जातिशब्दो भेदानां वाचकः' इति "पूर्व निराकृतः स च जातिमान् । ननु चोक्तम्-जातिशब्दो जातिमन्मात्रस्य वाचको न तु भेदरूपेणेति । यद्येवम् ,
"तद्वन्मात्रेऽपि सम्बन्धः सत्ता वेति विचारितम् । तद्वन्मात्रं हि तद्वत्त्वं भावप्रत्ययः । १३स च सम्बन्धे गुणे वा स्यात् । यथोक्तम्-समासकृत्तद्धितेषु सम्बन्धाभिधानं [भावप्रत्ययेन ?] अन्यत्र रूट्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः [
] इति । तत्रापि न वाचको योगजात्यो मेदाथैरपृथक् श्रुतेः' इत्युक्तम् ।
____ "तद्वानों घटादिश्चेन्न पटादिषु वर्तते । सामान्यमर्थः स कथम् ? अनेकवत्ति हि सामान्यम। तच्च यदि सामान्यवान घटादिः स पटादिषु अवर्तमानः कथं तेषां सामान्यमिति युज्यते? ननु च सामान्यवानभिधीयते, किमर्थं तत्र सामान्यत्वमारोप्यते इति चेत्, यस्मात् सच्छब्दः सामान्यस्य वाचक इति प्रतिज्ञातम् । सत्तादिषु च सत्ताद्यभावात् तद्वान् नोच्यते । तस्मादर्थेऽवश्यमर्थसामान्यमभ्युपगन्तव्यम् । तच्चार्थे नास्ति । तस्मात
ऽत्र केवलः । तद्वान् घटादिः सच्छब्दवाच्यत्वात् तुल्यः, न तु तद्वता केनचित् [अपि V'.] । सत्तायोगौ च पूर्व निषिद्धौ । नानिमित्तः स च मतः। शब्दश्च भिन्नेषु निमित्ताभावेऽभिन्नो न दृष्टः । ततश्च किं न युज्यते ?
1 मेदे जातौ च तद्योगे Psv | Vr. मध्ये तूभयथा दृश्यते, दृश्यतां पृ. ६३० पं० २९, पृ० ६३१ पं० ३२॥ 2 यतो जातिः खरूपं तद्वद्रूपं च न युज्यते (?) ॥ 3 वा Psvin 4 भेदस्वरूपेणा Psvi॥ 5भेदाभिधानम् (१)॥ 6 जातिषु (2) साक्षाद् भेदेषूपचार इति तद्वतीव सर्वो दोषो वाच्यः Psv' ॥ 7 °धानात् सम्भवः Psv | धानमिति सम्भवात् Psv॥ 8 सदादि (2) अभिधीयते rsvi9 “यत् पुनरेतस्मिन्नेव पक्षे भिक्षुणोक्तम्-जातिविशिष्टेष्वभिधीयमानेषु स्खलक्षणान्येवाभिधेयानि प्राप्नुवन्ति, तेषामानन्त्यव्यभिचाराभ्यामवाच्यत्वमुक्तम्-इति । तदुक्तम्-'तद्वांस्तु भेद एवेष्टः सच पूर्व निराकृतः' इति ।"-शर्करिका पृ० ६२ ॥ ".."स तु..." न्या०र० पृ. ६००॥ 10 जातिशब्दः पूर्व निराकृतः 'न जातिशब्दो मेदानां वाचकः' इति । स च जातिमत्यपि उक्तः (तेन जातिमत्यपि उक्तम् ? ?)।-PSv' | 11 पृ० ६०७ पं० ११॥ 12 यच्चात्र भिक्षुणा जातिमन्मात्रं वाच्यं भविष्यतीत्याशङ्कय विकल्पितम्-अथ जातिमत्त्वं किं जातितद्वतोः सम्बन्धः किं वा सामान्यरूपमिति । एवं च विकल्प्य 'पूर्वोक्तजातिसम्बन्धाभिधानदोषो योजनीयः' इत्युक्त्वोक्तम्तद्वन्मात्रेऽपि सम्बन्धः सत्ता वेति विचारितम' इति ।"-शर्करिका. पृ० ६२ । न्या०र० पृ० ६०१॥ 13 तेन सम्बन्धो गुणो वा स्यात् (१)। तुलना-"किञ्च, अपोहवत्त्वमिति मतुबन्तादयं भावप्रत्ययः । स च सम्बन्धवाच्यपि स्मयते । यथाह-समासकृत्तद्धितेषु सम्बन्धाभिधानं भावप्रत्ययेन अन्यत्र रूढयव्यभिचरितसम्बन्धेभ्यः [ ] इति । न च सम्बन्धस्य वाच्यत्वमस्तीत्युक्तम् ।"-शर्करिका. पृ० ६३ । न्या०र०पृ० ६०१॥ 14 “यदपि चास्मिन् पक्षे भिक्षुणोतम्-यदा गोत्वविशिष्टः शाबलेयो गोशब्दस्य वाच्यत्वमित्यङ्गीकृतं तदासौ बाहुलेये नास्तीति तत्र गोशब्दप्रवृत्तिने स्यादिति । तदुक्तम्-तद्वानों घटादिश्चेन्न पटादिषु वर्तते । सामान्यमर्थः स कथम-इति । तदपि समानम् ।"-शकेरिका पृ०६३ । “भिक्षुणोक्तम्-'तद्वानों घटादिश्चेन्न पटादिषु वर्तते । सामान्यमर्थः स कथमिति तद्वदवाच्यता ॥' इति।"-न्या०र०. ६०१॥ 15 न युज्यते Psy | 16 सामान्यमारोप्यते Psy'n 17 तत्र वृत्तिोंच्यते Psy | 18 अवश्यं सामान्यमभ्युपगन्तव्यम् Psv 19 यस्मात VP. ॥ 20 शब्दार्थः केवलः समः Psv' । अत्र शब्दः केवलं तुल्यः Psv' | इदमत्रावधेयम्-PS'मध्येऽयं कारिकांशो दृश्यते, PS मध्ये तु न दृश्यते । अतोऽयं वस्तुतः कारिकांशो वृत्त्यंशो वेति निर्धारयितुं न पार्यते ॥ 21 'नानिमित्तः स चेष्यते इति 'निनिमित्तं च तन्नेष्टम्' इत्यपि वा पाठोऽत्र भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org