________________
६२८
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे एतावच्च.............. स्वाधारो वा। न चास्ति सम्भवः । मात्रशब्दापादित सत्ताद्यर्थोऽप्यतो न सः। अलमतिप्रसङ्गेन ।
अथवा मेदादिति यस्माद् व्यावृत्तिमानसदसत्वान..... स एव दोषः, तेन सहाभूतसामान्यत्वात् , यथा सत्वदर्थसच्छब्दस्य घटादिभेदार्थत्वाभावात् तेन 5सहासामानाधिकरण्यं तथा तवापि असदसदर्थसच्छब्दस्य घटादिभेदार्थत्वाभावात् सामानाधिकरण्याभावः।
शब्दमात्रमेव प्रतीयते नार्थ इत्यादिः सह टीकया भाष्यग्रन्थो द्रष्टव्यो यावद् न गुणत्वादिव्यभि४१७१ चारादित्यवधिराचार्येण यावत्कारितः सव्याख्यानः सामान्यपरीक्षाकारलिखित एवात्रापीति न लिख्यते ।
तदुपसंहारः-एतावच्चेत्यादि यावत् स्वाधारो वा । न चास्ति सम्भव इति यथा विचारित10 मिति मात्रशब्दापादितसत्ताद्यर्थोऽप्यतो न स इत्युपसंहारः । अलमतिप्रसङ्गेनेति, “भेदात्' इत्येत
प्रसङ्गागतसाक्षाद्विधिवादिमतदूषणमिदं [स]प्रसङ्गमुक्तम्-सत्ताद्यर्थोऽप्यतो न स इति, मात्रग्रहणस्य एतावद्विषयसम्भवानतिवर्तित्वात् ।
अधुना भवन्तं प्रति मात्रग्रहणात् तत्सम्भविनो विकल्पास्त एवेति तान् दूषयिष्यामः । तद्यथाअथवा भेदादिति यस्माद्यावृत्तिमानित्यादि, 'भेदात्' इत्ययं हेतुर्व्यावृत्तिमत्पक्षे दोषमापादयितुमित्थं 15 व्याख्यायते । यस्माद् व्यावृत्तिमानसदसत्वानिति पूर्वेभ्यः पक्षेभ्यो विशेषं दर्शयति । शेषं तुल्यं यावत्
स एव अतद्भेदत्वे सामानाधिकरण्याभाव एव दोषः प्रतिज्ञातस्त्वां प्रत्यापाद्यते । कस्मात् ? * 'तेन सहाभूतसामान्यत्वात् । 'घटः' इत्युक्ते यस्मिन्नसदसत्त्वं घटे स घटोऽन्यत्र घटान्तरे पटादौ च न वर्तते, अतो भिन्नः, भिन्नत्वाच्चातद्भेदा घटादयः, तस्मात् * तेन सहाभूतसामान्यत्वं सिद्धम् । यो येन सहाभूतसामान्यस्तस्य तेन सामानाधिकरण्यं न भवति । यथा सत्वदर्थेत्यादिनिदर्शनदण्डकः, सत्वानर्थोऽस्य सच्छब्दस्य 20 सोऽयं सच्छब्दः सत्वदर्थः, तस्य घटादिभेदार्थत्वं नास्ति त्वन्मतेन, तदभावात् तेन सहासामानाधिकरण्यम् , ४१७-२साक्षाद्विधिवादिमत इव तवापि सच्छब्दो[ऽसद]सदों घटादिभेदार्थो न भवति, अतस्तद्वदेव सामाना
धिकरण्याभाव इति ।
१'एतावच्चात्र भवेत्-भेदा वा, सत्तामात्रं वा, सत्तासम्बन्धो वा, सत्तायाः स्वाधारो वा।' इत्याशयोऽत्र भाति । तुलनापृ० ६२६ पं० ४ ॥ २'यस्माद् व्यावृत्तिमानसदसत्वानर्थोऽन्यत्र न वर्तते ततो भिन्नः । भिन्नत्वाचातद्भेदत्वे स एव दोषः' इत्याशयः सम्भाव्यते ॥ ३ यावन गुण भा० । यावदगुण य० । दृश्यतां पृ० ४१९-२॥ ४ दिनागरचिते सामान्यपरीक्षाग्रन्थे 'न जातिशब्दो भेदानामानन्त्याद् व्यभिचारतः। वाचको योगजात्योर्वा भेदार्थैरपृथक् श्रुतेः ॥ तद्वतो नास्वतन्त्रत्वाद् भेदाजातेरजातितः । अर्थाक्षेपेऽप्यनेकान्तस्तेनान्यापोहकृच्छ्रुतिः ॥' इति श्लोकद्वयं तद्व्याख्या च विस्तरेण सम्भाव्यते ॥ ५ नवास्ति प्र० । दृश्यतां पृ. ४१९-२॥ ६ दृश्यतां पृ. ६२५ पं०८॥ ७°द्वषण भा० । द्वेषण य.॥ ८ दृश्यतां पृ. ६२६ पं०४ ॥ ९** एतच्चिह्नान्तर्गतः पाठो य०. प्रतौ नास्ति ॥ १०दिकागेन सवृत्तिके प्रमाणसमुच्चये पञ्चमेऽपोहपरिच्छेदे यदभिहितं तस्य प्रारम्भिकोंऽश इह पृ. ६०७६०८ इत्यत्रास्माभिर्भोटभाषानुवादात् संस्कृते परिवर्त्य प्रदर्शितः। ततोऽग्रेतनोंऽश इहोपन्यस्यते । स चात्रापोहपरीक्षायां यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |