________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
ने जातिशब्दो भेदानामानन्त्याद् व्यभिचारतः। वाचको योगजात्योर्वा भेदार्थैरपृथक्श्रुतेः॥ तद्वतो नास्वतन्त्रत्वाद भेदाजातेरजातितः।
अर्थाक्षेपेऽप्यनेकान्तः सत्ताद्यर्थोऽप्यतो न सः॥ .. . जातिशब्दस्तावत् सदादिः । कस्मान्न वाचकः ? आनन्त्याद् भेदानाम् ।।
आनन्त्ये हि भेदानामशक्यः शब्देन सम्बन्धः कर्तुम् । न चाकृतसम्बन्धे शब्देऽर्थाभिधानं न्याय्यम् , स्वरूपमात्रप्रतीरित्यादि यावद् न, गुणत्वादिव्यभिचारात् । ........
गताथं यावदारभ्यते । न जातिशब्द इत्यादि तदारम्भः । पूर्वमपोहशब्देन सम्पन्नत्वाद् विश्रब्धं परवाचोयुक्त्यैव 'न जातिशब्दः' इत्यादि परग्रन्थमेव उददिक्षत् , [अ]सदसद्विशिष्टसन्मात्र-भेद-सत्ता- ... सम्बन्ध-सत्वत्पक्षाणां त्वदिष्टानां विधिरूपाणां च परेष्टानामविशेषादिति । तद्यथा-न जातिशब्दो भेदानां 10 'वाचकः' इति वक्ष्यति । जोतिशब्दस्तावत् सदादिरिति, यस्मात् सच्छब्दो आतिसम्बन्धिनो जातिमुपादायात्मरूपेण द्रव्यादीनभेदोपचारादाह तस्मादभेदोपचारहेतुना व्यपदिश्यते जातिशब्द इति । यथा 'सिंहो ४१६-२ माणवकः' इति सिंहशब्दो माणवकगुणानुपादायाभेदोपचारप्रवृत्तेरभेदोपचारहेतुना व्यपदिश्यते गुणशब्द इति । कस्मान्न वाचक इति हेतुपरिप्रश्नः, यस्माद् वाङ्मात्रेण न श्रद्धीयते । उच्यते---आनन्त्यादिति हेतुः । कस्यानन्त्यात्? भेदानाम् , यस्मात् ते पूर्व प्रकृता न चान्यः श्रूयते । आनन्त्ये हि भेदानामशक्यः 15 शब्देन सम्बन्धः कर्तुम् , न हि पाटलिपुत्रादिस्था द्रव्यादय इहस्थेन सच्छब्देन सहाख्यातुं शक्याः । कर्तुम् आख्यातुम् , करोतेरनेकार्थत्वात् । आनन्याद्वा द्रव्यादीनाम् , तथाहि-ते घट-पट-रथादिभेदेनानन्ताः । एवं तावत् सम्बन्धिभेदाद् भेदमभ्युपगम्येदमुच्यते, न तु तस्य वस्तुनः स्वगतो भेदोऽस्ति । तत्रेदमेव कारणम्-यत् सम्बन्धान्तरविशिष्टाभिधायी शब्दः सम्बन्धान्तरविशिष्टशब्दवाच्यमसमर्थो वक्तुम् , गवाश्वादिवत् । तस्माद् भेदानामवाचकः ।
20 __ न चाकृतसम्बन्ध इत्यनाख्यातसम्बन्धे शब्द इति द्विष्ठत्वेऽपि सम्बन्धस्य शब्दस्यैवाविनाभावि- ... त्वादर्थप्रत्यायकत्वं दर्शयति । अत्र चानन्त्यं पारम्पर्येणानभिधानहेतुः-ततो हि सम्बन्धाशक्यता, सम्बन्धाव्युत्पत्तेरनभिधानं स्वरूपमात्रप्रतीतेरिति यत्र शब्दस्यार्थेन सम्बन्धोऽव्युत्पन्नो यथा म्लेच्छशब्दानां तत्र
१ दृश्यतां पृ० ६.७५० ११, २५ ॥ २ पृ. ६०७ पं० १३॥ ३तिभेदाना प्र० । दृश्यतां पृ० ४६०-१॥ ४ तुलना-"सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ [ वाक्यप० ३।११३३], वक्ष्यमाणैराश्रयादिभिः स्वसम्बन्धिभिर्भिद्यमानोपचरितभेदा गवाश्वादिषु सत्तैव महासामान्यमेव जाति!त्वाश्वत्वादिका अपरसामान्यं, नान्या परमार्थभिन्ना सा विद्यते। तथा गोः सत्ता गोत्वं नापरमन्वयि प्रतिभासते एवमश्वस्य सत्ता अश्वत्वमित्यादि वाच्यम्। तस्यामेव च गवादिभेदभिन्नायां सत्ताख्यायां जातौ सर्वे गवादयो डित्थादय आकाशादयश्च शब्दा पाचकत्वेन व्यवस्थिता इत्यसांकर्येण नियतोपाधिवशाजात्यभिधायिनः सिद्धाः।" इति वाक्यपदीयस्य हेलाराजरचितटीकायाम् ॥ ५ संबंधः इत्य प्र०॥ ६ चात्यंतं पारंपर्येणाभिधानहेतुः य० ॥ ७°शक्यता ना संबंधान्युत्पत्तेरन यः। शक्यता ता संबंधान्यत्तेरन भा०। ८ऽव्युत्पत्ती भा० । व्युत्पत्ती य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org