________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे सत्वन्त इवार्था घटादयः। भेदानां चानन्त्ये सम्बन्धाशक्यत्वाद् व्यभिचाराचावाचक इत्युक्तं प्राक् त्वयैव ।
ननु चायं घटादिषु.........।
यस्याभिधाता सोऽर्थोऽसदसन्मात्राख्यो भेदवत् सत्त्वं वा स्यात् सत्तामात्रं -5वा सत्तासम्बन्धो वा सत्वन्मात्रं वा ? तत्र
. नोपोहशब्दो भेदानामानन्त्याद् व्यभिचारतः।
वाचको योगजात्योर्वा भेदार्थैरपृथक्श्रुतेः॥ तद्वतो नास्वतन्त्रत्वाद् भेदाद् जातेरजातितः।
अर्थाक्षेपेऽप्यनेकान्तः सत्ताद्यर्थोऽप्यतो न सः॥ 10 एवं सन्मात्रसत्ताद्यापादनवदिहापि.........."आरभ्यते
व्याख्या त्वन्मतवदेव । के ते व्यावृत्तिमन्त इति चेत् , उच्यते--असदसन्तोऽर्था घटादयः । भेदानां 'चानन्त्ये सम्बन्धाशक्यत्वाद् व्यभिचाराच्चावाचक इत्युक्तं प्राक्, केन ? त्वयैव ।
. अत्राह-ननु चायं घटादिष्वित्यादि । सत्वन्मात्रपक्षे पूर्वमेव हि द्रव्यादिभेदानभिधानेनानन्त्यव्यभिचारदोषौ परिहृतौ तथेहापि असदसत्वन्मात्रपक्षे भेदानभिधानेन तद्दोषपरिहार इति तद्दर्शयति । 15 अत्र ब्रूमः--यस्याभिधातेत्यादि । यस्यार्थस्य शब्दो वाचक इध्यते सोऽर्थोऽसदसन्मात्राख्यो
भेदवत् सत्त्वं वा स्यात् , भेदवती सभेदा सत्ता जातिरित्यर्थः, किं तदसदसन्मात्रमुच्यते, सत्तामात्रं ४१६१ वा भेदनिरपेक्षा सत्तैव वा, सत्तासम्बन्धो वा, सत्वन्मात्रं वा ? सदनुवृत्त्यभिधानपक्षवदेते चत्वारो
विकल्पाः असदसत्वति व्यावृत्तिमत्यपि पक्षे सम्भवेयुर्गत्यन्तराभावात् । स्यान्मतम्-'असदसत्' इत्यभावपक्षोऽपि सँम्भवतीति । तन्न, अभावस्य प्रतिषिद्धत्वात्, 'शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्ते' 20 इति त्वयैव स्वार्थवचनेन उक्तत्वादस्माभिः स्वार्थ एंव [ ताव] निर्धायते इत्यादिना यावद् अनन्यः
प्रत्यक्ष इति ग्रन्थेन विचार्य भाष्ये प्रतिषिद्धत्वात् । परिशेषादेतावन्त एव विकल्पा भवन्तो भवेयुः 'असदसन्मात्रम्' इति शब्दार्थस्य । तच्चीसदसन्मात्रम् । विधिवादिमतवदपोहवादिमतेऽपि चतुष्टये स्थिते समान एवात्रापि विचारो ग्रन्थश्चेति तथैवाह-नापोहशब्दो भेदानामित्यादि श्लोकद्वयम् । अन्ये पादे तूप
संहारे विशेषः-सत्ताद्यर्थोऽप्यतो न स इति, 'मौत्र'शब्दलभ्याथैतावत्त्वात् । एतच्छ्रोकद्वयं व्याख्यातु25 कामः सम्बन्धयति—एवं सन्मात्रसत्ताद्यापादनवदिहापीति तुल्यदोषत्वविवक्षा भवन्तमन्यांश्च प्रतीति
१'ननु चायं घटादिषु द्रव्यादिभेदानभिधानेन परिहृतो दोषः । न ह्यत्र भेदा अभिधीयन्ते, कि तर्हि ? तेषामसदसन्मानं सामान्यरूपम् । तस्यैकत्वात् सुकरः सम्बन्धः। व्यभिचारोऽपि नास्ति, तदभावे शब्दस्याप्रवृत्तेः' इत्याशयो भाति । तुलना पृ०६०७ पं० २४ ॥ २दिङ्गागस्यैव 'न जातिशब्दः' इत्यादि कारिकाद्वयं किञ्चित् परिवर्त्य दिङ्गागमतं प्रतिविधातुमत्र ग्रन्थकृतोपन्यस्यते । तुलना-पृ० ६०७ पं० ११॥ ३ दृश्यतां पृ. ६०७ पं० २०॥ ४ तत्र भा० ॥ ५ इष्यते सार्थासद? य० । इष्यते सद° भा०। (इष्यतेऽसावर्थोऽसद? ) ॥ ६ सभेदाशत्वाजाति° भा० । सभेदांशत्वाजाति यः। भेदेन सहिता सभेदा इत्यर्थः ॥ ७ स्यान्मतं मसदसत् प्र०॥ ८ सम्भवीति य.॥ ९एवं निर्धार्यते यः। दृश्यतां पृ० ६०९ पं० २॥ १० दृश्यतां पृ. ६११ पं० १॥ ११ भास्य य० ॥ भांस्य भा०। चास्य' इत्यपि पाठोऽत्र भवेत् ॥ १२ तच्चासदसन्मात्र य० । 'तत्रासदसन्मात्रे' इत्यपि पाठोऽत्र स्यात् ॥ १३ दृश्यतां पृ० ६२६ पं० ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org