________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६२५ कारात् , स्फटिकवद् विशेषणप्रकर्षमगृहीत्वा विशेष्ये प्रत्ययप्रसङ्गात् , अयथार्थज्ञानोत्पत्तेः, युगपदसम्भवाच । स्वशब्दार्थप्रवृत्ति...........।
मञ्चशब्दो यथाधेयं मञ्चेष्वेव व्यवस्थितः।
तत्त्वेनाह तथा भावशब्दो द्रव्येषु वर्तते ॥ विशेष एव वस्तु परमार्थतोऽस्ति, न द्रव्यार्थः सामान्यम् । तस्यासत्त्वाद् विशेष एव स्वतन्त्रः कल्पितसामान्योपसर्जनः, मञ्चशब्दवत् ।।
इतश्च त्वन्मतिवद् भेदात् तद्वतो न वाचकः । भिन्ना हि व्यावृत्तिमन्तः
किं तर्हि ? 'राजवदमात्यः' इति भिन्नैवाभेदोपचारा भवति । तस्मान्न प्रत्ययसङ्क्रान्तिर्न च सारूप्यमपोहापोहवतोः । अतो नोपचारो निमित्ताभावात् । किश्च, क्रमवृत्त्यभावाच्च, न हि क्रमेण सकृदुच्चरितः 10 शब्दः क्षणिकत्वादसदपोहे वर्तित्वा तद्वति वर्तते राज-भृत्यबुद्धिवत् । तस्मादपि नास्ति प्रत्ययसङ्क्रान्तिसारूप्यासम्भवादुपचारः । स्यान्मतम्-गुणोपकारादिति । तन्नापि गुणोपकारात्, स्फटिकवद् विशेष[ण]प्रकर्षमगृहीत्वा विशेष्ये प्रत्ययप्रसङ्गात् , यथा स्फटिके रक्तत्वादिप्रत्यय उपधानप्रकर्षमगृहीत्वा भवति । तथा विशेषणप्रकर्षमगृहीत्वा विशेष्ये प्रत्ययः स्यात्, न तु भवति । किञ्च, अयथार्थज्ञानोत्पत्तेः, यथा स्फटिके रक्तत्वादिप्रत्ययो मिथ्याप्रत्ययस्तथा विशेषणसरूपप्रत्ययो विशेष्ये स्यात् । किञ्च, युगपद-15 सम्भवाच्च, *यदा च बहवो ग्रहीतारो भवन्ति गुणवतः शुक्लादेः तद्यथा-'घटः पार्थिवो द्रव्यं सन्छुल्लो मधुरः सुरभिः' इत्येवमादिविशेषैस्तदा गुणोपकारो विरुध्यते । न हि शक्यं तदा द्रव्येण एकगुणरूपेण स्थातुम् , अनेकात्मकस्याविशिष्टत्वात् । नाप्येकदेशेन गुणरूपमनुभवितुं शक्यम् , कृत्स्नस्य घटादिरूपप्रतीतेः । अथ पुनः सर्वैर्घटत्वादिभिरुपकारो युगपत् कृत्स्नस्य क्रियते ततः सर्वेषां प्रत्येकं ग्रहीतृणां घटादिरूपग्रहणाभावात् सर्वगुणसङ्करेण मेचकदर्शनम् युगपत् सर्वरूपापत्तेः स्यात्* स्फटिकवदेव, न तु भवति । 20 तस्मादयुक्तस्ताद्रूप्यात् प्रत्ययसङ्क्रान्तेरुपचारः, यमलादिवत् ; नापि गुणोपकारात् स्फटिकवदिति ।।
स्वशब्दार्थप्रवृत्तीत्यादि । अथवायमन्योऽर्थोऽस्य विकल्पस्यैव । मञ्चशब्द इति श्लोकस्यान्त्यपादे पाठान्तरं तथा भावशब्दो द्रव्येषु वर्तते इति । तस्य व्याख्या-विशेष एव वस्तु परमार्थतोऽस्ति, .. न द्रव्यार्थः सामान्य जातिघंटादिवेकं भवत् किञ्चिदस्ति । तस्य सामान्यस्य असत्त्वाद् विशेष एव स्वतन्त्रः कल्पितसामान्योपसर्जनो यथा प्राक् प्रक्रान्तः । किमिव ? मञ्चशब्दवत् , सैव व्याख्या 25 गतार्था भावशब्दस्य गुणपर्यायवाचित्वात् ।
इतश्च त्वन्मतिवदित्यादि । हेत्वन्तरमपि भेदादिति । जातिमत्पक्षदूषणवदसदसत्वत्पक्षदूषणं त्वयैव. कृतम्-तद्वतो न वाचक इति । भिन्ना हि व्यावृत्तिमन्तः सत्वन्त इवार्था घटादय इति हेतु
४१५-२
१ दृश्यतां पृ० ६२४ पं० ४ ॥ २ °वाच प्र० ॥ ३ * * एतदन्तर्गतः पाठः प्रमाणसमुच्चयवृत्तौ प्राय ईदृश एवोपलभ्यते । दृश्यतां पृ० ६०८ पं० १३ ॥ ४°त्वाप्येकदेशेन य० ॥ ५°टेकुंभवत् य० ॥
नय० ७९ Jain Education International For Private & Personal Use Only
www.jainelibrary.org