________________
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे करोति भूतार्थेन, उपचारादसदसद् ब्रवीति । सोऽपोहेऽपि तावददृष्टत्वात् तद्वति अप्रधानत्वादखतन्त्रः । न हि यो यत्रोपचयेते स तमथै भूतार्थेनाह । तथा चोक्तम्
___ मञ्चशब्दो यथाधेयं मञ्चेष्वेव व्यवस्थितः ।
तत्वेनाह तथापोहशब्दो द्रव्येषु वर्तते ॥ स्वरूपेऽन्यापोहे च मुख्यया वृत्त्या वर्तित्वापोहशब्दस्तद्वति वर्तते, न मुख्यया वृत्त्या, उपचारात् । सच्छब्दो हि..........."मश्चशब्दवत् ।
सोऽप्युपचारो न घटते । न तावत् प्रत्ययसंक्रान्तितः सारूप्यादुपचारः संभवति, सारूप्यासम्भवे प्रत्ययसंक्रान्त्यभावात् क्रमेणानभिधानाच । नापि गुणोप
10 इत्थं सच्छब्दोऽसद्ध्यावृत्तिं न करोति भूतार्थेन, किं तर्हि ? उपचारादसदसद् ब्रवीति, अन्यस्या
पोहं गौण्या वृत्त्या ब्रूते, स सच्छब्दोऽपोहेऽपि तावददृष्टत्वात् तद्वति अपोहवति दूरत एवादृष्टत्वा४१४-२ दप्रधानः, अप्रधानत्वादस्वतन्त्रः न हि यो यत्रोपचर्यते स तमर्थ भूतार्थेनाहेति साध्येन मुख्या
नभिधानेन हेतोरुपचाराप्रधानास्वातत्र्यानुगमं दर्शयति । तथा चोक्तम्-मश्चशब्द इत्यादि तन्निदर्शनम् । मञ्चशब्दो मञ्चस्थान मञ्चस्वरूपापन्नानेव ब्रूते न पुरुषत्वापन्नानिति । तथापोहार्थः शब्दोऽपोह एव 15 व्यवस्थितोऽपोहवत्सु द्रव्येषु वर्तत इति दार्टान्तिकम् । पूर्वत्र विशेषणत्वादस्वातत्र्यम् , इहाभिधानवृत्तेरेवोपचारादस्वातत्र्यदोष इति विशेषः । इत्थमस्माभिरुत्प्रेक्षितो दोषविकल्पः।
त्वदुक्तसँत्वत्पक्षदूषणानुसारेणाप्येष दोष उच्यते । एतदनभ्युपगमेऽपि अयमन्योऽर्थोऽन्यापोहवत्पक्षदूषणः-स्वरूपेऽन्यापोहे चेत्यादि । स्वरूपमन्यरूपनिवृत्त्यात्मकमर्थान्तरनिवृत्त्यात्मकं च स्वार्थ मुख्यया वृत्त्या अभिदधानस्तद्वति उपचारेण वर्तते नाभिधानेना पोहशब्द इति समो न्यायः । 20 उपचारादिति हेतुः । सच्छब्दो हीत्यादिरुपनयः । मञ्चशब्दवदिति दृष्टान्तः 'तद्वति न वर्तते मुख्यया वृत्त्या' इति साध्ये । एवमुपचारमभ्युपेत्य दूषणमुक्तम् ।
सोऽप्युपचारो न घटत इति ब्रूमः । द्वयी हि उपचारस्य गतिः-सारूप्यात् , यथा यमलयोरन्यतरस्मिन् ‘स एवायम्' इति प्रत्ययसङ्क्रान्तः, राज्ञो भृत्येऽमात्यादौ 'राजा' इति वा प्रत्ययः । गुणोपकाराद्वा उपधानानु[रा]गादिव स्फटिके रक्तत्वादिबुद्धिः । तत्र न तावत् प्रत्ययसङ्क्रान्तितः सारूप्यादुपचारः सम्भवति सारूप्यासम्भवे प्रत्ययसङ्क्रान्त्यभावात् स्वामिभृत्ययोभिन्नत्वात् , यदि सैव बुद्धिः सङ्क्रान्ता स्यादभिन्ना स्वामिनि भृत्ये च स्वाम्यनुज्ञातमुक्तावलीव स्यात् , न तु भवति,
१'मञ्चशब्दो यथाधेयं मञ्चेष्वेव व्यवस्थितः। तत्त्वेनाह तथा जातिशब्दो द्रव्येषु वर्तते ॥' [ वाक्यप० ३।१४।३५१] इति भर्तृहरेः कारिकात्र परिवोद्धता ग्रन्थकारेण । “मञ्चाः क्रोशन्ति' इति क्रियासम्बन्धस्याधेये मञ्चस्थे प्राणिन्युपपत्तेराधाररूपामे देनाधारवचनोऽपि मञ्चशब्दस्तदाधेयवचन इति निश्चीयते एवम् 'आनीयन्तां गावः' इति क्रियासम्बन्धस्य जांतावनुपपत्तेस्तदभेदापन्ना व्यक्तयः क्रियासमन्वयसमर्था जातिनिबन्धनेन शब्देनोपादीयन्त इत्यवगमः ।" इति हेलाराजकृतायां वाक्यपदीयटीकायां वृत्तिसमुद्देशे ३।१४।३५१॥ २ तुलना-पृ० ६०७ पं० ३०॥ ३ साप्येन प्र० ॥ ४°सत्वपक्ष य० ॥ ५ नाभिधानेनाह शब्द प्र० । 'नाभिधानेनाऽऽह शब्दः' इत्यपि स्यादत्र पाठः ॥ ६सामान्योयः य० ॥ ७ तव न प्र० ॥ ८°मुक्तावलीय स्यात् भा० । °मुक्तावलीय स्मात् य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org