________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
६२३ ननु चासदसछ्रुतेः सामान्यश्रुतित्वादयमप्रसङ्गः। केन तस्याः सामान्यश्रुतित्वम् ? यदा सा ख[रूप]गुणमात्रविशिष्टं द्रव्यमाह तदा भेदानामनाक्षेपात् कस्य तत् सामान्यं यदभिदधतीति 'सामान्यश्रुतिः' इत्युच्येत । न सछुतिः...।
अथवा सच्छब्दो मुख्यया वृत्त्या भूतार्थेन स्वरूपेण प्रकाश्यमानः संवृतिसद्वस्तु खरूपव्यवहितमाह स तत्र वृत्तः स्वरूपव्यवहितेऽर्थे सति असद्व्यावृत्तिं न
अत्राह-ननु चासदसच्छ्रुतेः सामान्यश्रुतित्वादयमप्रसङ्गः । सच्छब्दनिवर्तितासदपोहः सर्वत्र वृत्तेः समानः, तद्वाचित्वाञ्चासौ सामान्यशब्दः, भेदाश्च घटादयोऽसद्व्यावृत्त्या व्याप्तत्वादाक्षिप्तास्तद्भेदा एव । अतः सर्वोऽयं वाग्व्यायामो विफल:-'सामानाधिकरण्यं नास्ति , भेदा न भवन्ति, सामान्य न भवति, अनाक्षेपात्' इत्यादिरप्रसक्त एव विचार इति । ___अत्र ब्रूमः त्वद्वचनानुवृत्त्यैव त्वमिदं प्रष्टव्योऽसि-केन तस्याः सामान्यश्रुतित्वम् ? केन हेतुना 10 तस्या असद्यावृय॑याः सच्छ्रुतेः सामान्यश्रुतित्वम् ? नास्त्येव हेतुरित्यभिप्रायः । त्वन्मतेनैव यदा सा ४१४-१ स्व[रूप]गुणमात्रविशिष्टं द्रव्यमाह, स्वरूपं गुणो विशेषणम् , तत् परिमाणमस्य तत् स्वरूपगुणमात्रम् , तेनैव विशिष्टं नाधिकेन, लक्षणवाक्येऽपि शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती [ ] इति वचनात् द्रव्यमसद्वयावृत्तिगुणप्रमाणविशेषणमित्यर्थः । गुणधर्मत्वं च सत्वत्पक्षवद् भावितमेव । तदा भेदानामनाक्षेपात् कस्य तत् सामान्यं यदभिदधतीति 'सामान्यश्रुतिः' इत्युच्यतेति । अत्र 15 प्रयोगः 'न सछ्रुतिः' इत्यादिर्गतार्थः । तस्मात् तदवस्थः प्रयोगो भेदानाक्षेपादिस्त्वन्मतादेवेति । __अथवेत्यादि यावदपोहशब्दो द्रव्येषु वर्तते । व्याख्यानविकल्पान्तरं तद्वतो नास्वतन्त्रत्वात्,
___] इत्यस्य । सच्छब्दो मुख्यया वृत्त्या भूतार्थेन स्वरूपेण प्रकाश्यमान इति शब्दस्वरूपमात्रेण बुद्ध्या गृह्यमाणः संवृतिसद्वस्तु स्वरूपव्यवहितमाह । स तत्र वृत्तः स्वरूपव्यवहितेऽर्थे सति व्यावृत्तेरसतः 'सन् असन्न भवति' इति प्रसज्यप्रतिषेधासम्भवात् प्रतिषेधसमाश्रयोऽर्थः सत्तुल्य]-20 एव स्यात् 'असन्' इति, 'नभिवयुक्तमन्यसदृशाधिकरणे [पाँ० वा० ३।१।१२] इति परिभाषितत्वात् । 'अब्रामणो ब्राह्मणवदधीते' इति ब्राह्मणसदृशे पुरुष एव प्रत्ययो नाश्वे न गवीति यथा न तु तथा किञ्चिदसत् सत्तुल्यमस्ति, संतोनस्यासत्त्वादसतोनत्वाभावात् । तस्मादयुक्तमेवैतत् 'सदित्यसन्न भवति' इति ।
१ तुलना-पृ०६०७ पं० २६-२७॥ २ तुलना-पृ. ६०७ पं० २९ ॥ ३ वासद प्र० ॥ ४ निवृत्तितास य० ॥ ५ वृत्ते प्र०॥ ६°त्तार्था प्र० ॥ ७ सत्यपक्ष य० ॥ ८°दवतीति प्र० । स्त्रीलिङ्गत्वात् सामान्यश्रुतेः 'अभिदधती' इति शतृप्रत्ययान्तोऽयं प्रयोग इति ध्येयम् ॥ ९ “तद्वतो नाखतन्त्रत्वाद् भेदाजातेरजातितः । अर्थाक्षेपेऽप्यनेकान्तस्तेनान्यापोहकृच्छ्रुतिः ॥” इति सम्पूर्णः श्लोकः प्रतिभाति । श्लोकोऽयं न प्रमाणसमुच्चयादपि तु दिनागस्यैव ग्रन्थान्तरादुद्धृतोऽत्रेति प्रतीयते। अतोऽस्य पूर्वार्द्ध पृ० ४७३-२,४७५-१ इत्यत्र यथा वक्ष्यते तथात्रास्माभिर्योजितम् । प्रमाणसमुच्चये तु यथायं श्लोकस्तथा पृ०६०७ इत्यत्र दर्शितमस्माभिः ॥ १०°स्वरूपेण बुद्ध्या भा०॥ ११ संप्रतिसद्वस्तु प्र०॥ १२ सत एव य०॥ १३ दृश्यतां पृ. २३२ टि. ७॥ १४ ह्मणी ब्रा भा० ।
ह्मणै ो य० ॥ १५ तत्तु य० ॥ १६ सता ऊनस्य असत्त्वादसता ऊनत्वाभावादित्याशयो भाति । अत्रारुचौ तु 'सतोऽन्यस्यासत्त्वादसतोऽन्यत्वाभावात्' इति पाठः कल्पनीयः ॥ ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org