________________
६२२
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे क्षिप्तत्वाद् भेदानाम् , शुक्लाभिधानानाक्षिप्तमधुरादिवत् । सच्छब्दो भेदैः सहासमानाधिकरणः, सामान्यानभिधायित्वात् , शुक्लशब्द इव मधुरादिभिः सहासामान्यवाची। द्रव्यादिशब्दो वा सच्छब्देन सहासमानाधिकरणः, अतद्विशेषसम्बन्धित्वात् , मधुरशब्द इव शुक्लशब्देन । सच्छब्दो वा असद्व्यावृत्तिमन्तं नाभिधत्ते, घटादिशब्दैः सहासमानाधिकरणत्वात् , अनित्यशब्दवत् । यथा चाह
विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ [वाक्यप० ३।५४ ]
इति वचनात् । भेदानाक्षेपश्चान्यापोहे चरितार्थत्वादिष्टः । अतः सिद्धो हेतुः-तदभिधानेऽनाक्षिप्तत्वाद् भेदानाम् , तेषामेव च पक्षीकृतत्वात् । शुक्लाभिधानानाक्षिप्तमधुरादिवदिति दृष्टान्तोऽपि भावितार्थः । 10. द्वितीयेऽपि साधने सच्छब्दे पक्षीकृते भेदानाक्षेपात् कस्य तत् सामान्यमपोहवद्वस्तु ? इति सामान्यानभिधायित्वं सिद्धं तस्य । दृष्टान्तः-शुक्लशब्दो मधुरादिभिः संहासामान्यवाचीति । पूर्वत्र शुक्लशब्दसहयोगावधिका भेदशब्दा एव साध्याः दृष्टान्ताश्च, इह तु भेदशब्दावधिकाः सामान्यशब्दा इति विशेषः ।
__ तृतीये द्रव्यादिशब्दो वेति साक्षाद् विशेषशब्द एव तद्वारेण विशेषार्थ एव वा साक्षात् 15 पक्षः । अतद्विशेषत्वम् , असदसतः सामान्यस्य न विशेषा द्रव्यादयः, अनाक्षिप्तत्वादुक्तन्यायेन । न
चें तत् सामान्यं तेषां सम्बन्धि ते वा तस्येति सिद्धमतद्विशेषसम्बन्धित्वम् । 'तद्विशेषासम्बन्धित्वात् ,
अतद्विशेषसम्बन्धित्वात्' इति वा पाठान्तरे। मधुरशब्द इव शुक्लशब्देनेति गतार्थो दृष्टान्तः । ४१३-२ सच्छब्दो वाऽसद्व्यावृत्तिमन्तं नाभिधत्ते, अपोहवतः स्वार्थाभिमतस्याभिधानमेव वा निराकुर्महे ।
घटादिशब्दैः सहासमानाधिकरणत्वात् , सच्छब्दस्य घटादिशब्दैः सहासमानाधिकरणत्वं भेदाना20 क्षेपात् सिद्धम् । अनित्यशब्दवत् , 'अनित्यः शब्दः' इत्युक्ते 'नित्यो न भवति' इति नित्यत्वव्यावृत्तिमन्तं
ब्रूते नासद्व्यावृत्तिमन्तम् , 'शब्द'शब्देनैव च समानाधिकरणोऽनित्यशब्दो न घटादिशब्दैः । अतः साध्यसाधनधर्मद्वयं दृष्टान्ते दार्टान्तिके च सिद्धमिति ।
यथा चाहेति ज्ञापकं सम्प्रतिपन्नवाद्यन्तरंमतप्रदर्शनं तस्यार्थस्य दृढीकरणार्थम् । प्रधानेषु विशेष्येषु विद्यमाना अपि भेदहेतवो धर्माः सर्वे नोच्यन्ते, कश्चिदेव विशिष्टो विवक्षितः केनचिद् ‘विशेषणेन 25 तद्वाचिना विशेषशब्देनोच्यतेऽर्थो विशेषान्तराव्यापारेण, तत्रैव चरितार्थत्वात् तस्य गुणभूतत्वात् । अत
एव च ते 'विशेषशब्दाः' इत्युच्यन्ते व्यावृत्तार्थाभिधायित्वादिति । एतेनैव यत्नेन त्वदीयेन च विधिप्रधानसत्वदभिधानपक्षदोषोक्तियत्नेन कृतप्रयोजनत्वान्न पृथग् दूष्यते ।
१°वदि दृष्टाप्र०॥ २ सह सामान्य प्र०॥ ३ च सामान्यं य० ॥ ४ नामवधा निरा प्र०॥ ५त्वात् च्छब्दस्य भा०। स्वात् शब्दस्य य० ॥ ६ यथा वाह प्र०॥ ७रतमप्र य० । रमप्र भा० ॥ ८ विशेषेणन य० ॥ ९°न्तरव्यापाप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org