________________
६२१
४१२-२
दिमागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । शुक्लतमः, शुक्लशङ्खस्य जातिनित्येति । इह वा किं न दृष्टम्-सव्यं सद्गुणः सत्कर्मेति ? एतदेव तु न प्राप्नोतीत्युच्यते।
यथा चैते जातिमत्पक्षे सच्छब्दप्रयोगे घटाद्यनाक्षेपोऽतद्भेदत्वमसामानाधिकरण्यं च दोषास्तथान्यापोहेऽपि, असाक्षाद्वचनत्वात्।
___ भवत्साक्षाद्वचने च रूपनीलत्ववद् गुणपर्यायलक्षणं विशिष्टं भवदेव सद्यो । वस्त्वभिधीयते प्राधान्येनेति नाखतन्त्रविशिष्टं भवद्वस्तु । तच्च सदसदुपसर्जनं जात्युपसर्जनं वा।
यथा चाहुः-सच्छब्देन सह भेदशब्दा असमानाधिकरणाः, तदभिधानेऽना
अत्र दोषस्तादवस्थ्यादेवमुच्यते-इह वा किं न दृष्टं 'सद्व्यं सगुणः सत्कर्म' इति ? न हि दृष्टाद् गरिष्ठं प्रमाणमस्ति, तस्यानतिक्रमणीयत्वात् । किं तर्हि ? एतदेव तु दृष्टं सामानाधिकरण्यं 10 . गुणशब्दत्वे विशेषणद्वारेण शब्दस्वरूप-जात्युपसर्जने तद्वति वाच्येऽपोहवति वा न प्रामोतीति उच्यते परं प्रति दोषः।
एतदुभयं तुल्यदोषमित्यापादयति यथा चैते जातिमदित्यादि । यथा परपक्षे सच्छब्दप्रयोगे घटाद्यनाक्षेपोऽतद्भेदत्वमसामानाधिकरण्यं च दोषाः शुक्लशब्दमधुरानाक्षेपादिदृष्टान्तास्तथा अन्यापोहपक्षे सच्छब्देऽपि जातिमत्सच्छब्दघटाद्यनाक्षेपादिदृष्टान्ताः । उभयत्र तुल्यो हेतुः-असाक्षाद्वचनत्वादिति । 15
तच्चैतत् सर्वं दोषजातमसत्योपाधिसामान्यसोपानारोहिसत्यभवदर्थविशेषसाक्षाद्वचनपक्षे नास्ति सामानाधिकरण्यं चोपपद्यते इति तत्प्रदर्शनार्थमाह-भवत्साक्षाद्वचने चेत्यादि यावज्जात्युपसर्जनं वेति । रूपनीलत्ववदिति रूपजातिसामान्यासत्योपाध्यनुगतिद्वारेण नीलविशेषस्य सद्यो भवतः सत एवार्थस्य गतिररूपानीलत्वनिवृत्त्यसत्योपाधिद्वारेण वा यथा भवति तथेहास्मदिष्टगुणपर्यायलक्षणं विशिष्टं भवदेव सद्यो वस्तु अभिधीयते प्राधान्येन मुख्ययैव वृत्त्या साक्षाद् । यत्तत्र द्रव्यघटपटादि भेदजातं 20 गुण-कर्म-सामान्य-विशेषादि वा परिकल्पितं तदसत्, संवृतिसत्त्वात् । गुण-पर्यायलक्षणो हि विशेष एव सन् , न अङ्गुलिव्यतिरिक्तमुष्टिवद् बलाकादिव्यतिरिक्तपतयादिवञ्चेति द्रव्याद्यपि तदेव इति एतस्माद्धेतोः नास्वतन्त्रविशिष्टं भवद्वस्तु । तच्चोक्तविधिनाऽपोहवत्पक्षापेक्षमसदसदुपसजनं जातिमत्पक्षापेक्षं जात्युपसर्जनं वा, द्विधापि न दोष इति ।।
यथा चाहुरित्यादि । टीकाकारैर्यानि साधनान्युक्तानि जातिमत्पक्षदोषप्रदर्शनार्थानि तान्येवापोह-25 वत्पक्षेऽपि तद्दोषप्रदर्शनार्थानि । तत्र सच्छब्देनेति प्रथमे साधने भेदशब्दानां सामान्यशब्देन सह सामानाधिकरण्याभावः पक्षीक्रियते । द्वितीये भेदैः सह सामान्यस्य । तदभिधानं गुणभूतेनान्यापोहेनापोहवतोऽभ्युपगतम्, लक्षणवाक्ये शब्दान्तरार्थापोहं हि स्वाथै कुर्वती श्रुतिरभिधत्ते [ ]
१ सहुणं प्र० । ( सन् गुणः १) ॥ २ जातिउप प्र०॥ ३°नाक्षेपत्वादिदृष्टान्ता प्र० ॥ ४ जातिम[त्पक्षवत् सच्छब्द इत्यपि संभवेत् पाठः ॥ ५ चेति प्र० ॥ ६ दृश्यतां पृ० ९३ पं० ८ ॥ ७°पोहावपेक्षापेक्षत्वमसदुपसर्जनं य० । °पोहावपक्षत्वमसदसदुपसर्जनं य० ॥ ८ यथा बाहुरित्यादि प्र०। (यथा वाहुरित्यादि ?)॥ ९ पोटवतो भा० । पोटगतो य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org