________________
६२०
न्यायागमानुसारिणीवृत्यलङ्कतं [अष्टम उभयनियमारे ___ सच्छब्दो हि असत्त्वादवच्छिन्नं धर्मिणोंऽशमात्रमभिधत्ते, तत्स(स्त्र)रूपजातिविशिष्टद्रव्याभिधायित्वात् , शुक्लश्रुतिवत् । द्रव्यशब्दश्च अद्रव्यापोहमात्रमभिधत्ते न तद्विशेषम् । इत्थं तयोरवच्छिन्नभागमात्रविषयत्वादभेदवत्त्वानिर्विषयत्वात् कुत एकार्थता ? इत्यसदसद्रूपेऽपि अतद्भेदत्वादनाक्षिप्तत्वादसामानाधि5 करण्यम् । अत्रापि सच्छब्देन असद्वयावृत्तिमात्रविशिष्टद्रव्याभिधानात् सतोऽपि द्रव्यादीनामनाक्षेपः, ततश्च तदभेदत्वम् ।
ननु च तत्र दृष्टं सामानाधिकरण्यम्-शुक्लं खण्डम् , तच्च मधुरम् , शुक्लतरः
सच्छब्दो हीत्यादि कारणभावना । 'सदित्यसन्न भवति' इति असत्वादवच्छिन्नं धर्मिणोंऽशमात्रं सच्छब्दोऽभिधत्ते न तस्यान्यं कञ्चित् , अपोहनित्यत्वाद्यंशवत् । मा मंस्थाः-'नैवं संभवतीति, 10अत आह-तत्स(त्स्व)रूपजातिविशिष्टद्रव्याभिधायित्वात् , व्याख्यातार्थ एवायं हेतुः, दृष्टान्तानुगुण्येन तु पक्षद्वयप्रसिद्ध्यापादनार्थं तद्वदिति सामान्येनोक्तः । शुक्लश्रुतिवदिति, अशुक्लनिवृत्तिमात्रं धय॑शं शुक्लशब्दोऽभि[द]धत्तस्यैवांशान्तरं नाभिधत्ते यथा तथा सच्छब्दोऽसन्निवृत्तिमात्रमुक्त्वा नान्यत्
किश्चिदिति । ४१२-१ तदुपसर्जनं द्रव्यमाह' [ ] इत्यत्र द्रव्यशब्दश्च 'अद्रव्यं न भवति' इत्येतावदद्रव्या15 पोहमात्रमभिधत्ते तेनैव न्यायेन, [न] तद्विशेषं न द्रव्यविशेषम् । ततः किमिति चेत्, इत्थं तयोः सद्रव्यशब्दयोरवच्छिन्नभागमात्रविषयत्वादभेदवत्त्वम् , अभेदवत्त्वाद् निर्विषयत्वम् , निर्विषयत्वात् कुत एकार्थता सच्छब्दद्रव्यशब्दयोः ? इत्यतः असदसद्रूपेऽपि असद्व्यावृत्तिरूपे सत्यपि न सतो भेदा द्रव्यादयः, न द्रव्यस्य घटादयः, न सच्छब्दस्य द्रव्यादिशब्दाः, तस्मादतद्भेदत्वमनाक्षिप्तत्वात् ,
अतोऽसामानाधिकरण्यम् । अतद्भेदत्वानाक्षिप्तत्वापादनाय परदूषितपक्षसमानदोषापादनग्रन्थोऽयम् 20 अत्रापि सच्छब्देनेत्यादिरक्षरविपर्यासेनान्यापोहपक्षेऽपि यावत् तदभेदत्वमिति समानः । दृष्टमिष्टं च सामानाधिकरण्यं सत्वदभिधानेऽपोहवद भिधाने "चेत्थं न प्राप्नोतीति ।
____ अत्राह-ननु च तत्र दृष्टमित्यादि । अनाक्षिप्तत्वमतद्भेदत्वं चानैकान्तिक शुक्लखण्डादिसामानाधिकरण्यदर्शनात् । अथवा दृष्टविरुद्धं त्वयोच्यते शुक्लशब्दस्वरूप-जाति-गुणानां खण्डद्रव्यस्य 'वात्यन्तभिन्नार्थत्वात् जातिमत्पक्षेऽपोहवत्पक्षे चेति । पुनः तच्च खण्डं मधुरम्' इति रूपरसयोर्भेदात् 25 द्रव्यस्य रूपरसाभ्यां च भेदादसम्बद्धमेवेदम् । तथा 'शुक्लतरः शुक्लतमः' इति गुणजातिगतप्रकर्षभेदस्य द्रव्येणासम्बन्धः । तथा 'शुक्लशङ्खस्य जातिर्नित्या' इति शङ्खदैव्य-शुक्लगुण-जाति-तन्नित्यत्वानामत्यन्तं भेदादसम्बन्धः । स च दृष्टः ।
१ नैवं न भवतीति प्र० ॥ २ व्याख्यार्थ एवायं हेतु दृष्टान्तोनुगुण्येनतु भा० । व्याख्यार्थ एवायं हेतु दृष्टान्तोतु य० ॥ ३ मात्र मुक्त्वा इति रम्यं भाति ॥ ४ दृश्यतां पृ० ६०७ पं०२ असद प्र० ॥ ६ असतो य० ॥ ७ वेत्थं न प्रा भा० । चेत्थं प्राय० ॥ ८ वात्यन्त प्र० ॥ ९शुक्ला प्र०॥ १० द्रव्य प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org