________________
दिनागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
श्रुतगुणगतभेदाभेदत्वादनाक्षेपः । यथा [शुक्लशब्देन मधुरादीनाम् । अत्र च स्वरूपापोहगुणा गुणत्वेनोच्यन्तेऽनुग्राहकत्वापेक्षया, अपोह-गुण-द्रव्याणि च द्रव्यत्वेन अनुग्राह्यत्वापेक्षया। शुक्लशब्दो हि स्वाभिधेयगुणमात्र विशिष्टं द्रव्यमभिदधद् द्रव्ये सतोऽपि मधुरादीन् नैवाक्षिपति, ततश्चातद्भेदत्वम् , एवमिहापि सच्छब्दो हि पूर्वमसन्न भवतीत्यसत्त्वादवच्छिन्नमंशमात्रमभिधाय सत्वद् द्रव्यम-5 भिदधद् नैवाक्षिपति तद्विशेषं तद्विशेषान् वा यत्तत्तद्वत् ] सत्वन्मात्रवदिति सच्छब्दवाच्यार्थाभेदत्वं द्रव्यादीनां घटादीनां वा।
वक्ष्यमाणशुक्लदृष्टान्तभावनार्थमाह-श्रुतगुणगतभेदाभेदत्वादनाक्षेपः । श्रुतो गुणो विशेषणं शुक्लसदादि, तद्गता भेदाः शुक्लतरादयो [ द्रव्यादयो ? ] वा, तेषामभेदत्वं तद्वति, अनुवृत्तिपक्षेऽन्यापोहपक्षे वा जातिस्वरूपोपसर्जनमात्रत्वाद् गुणभूतत्वादन्यापोहमात्रोपसर्जनत्वाद् गुणभूतत्वाश्चातद्भेदत्वादनाक्षेपः । 10 कस्य ? ततो जातेरन्यस्यापोहाद्वान्यस्य तद्वत इति । दृष्टान्तः यथेत्यादि उद्घाहितार्थभावनार्थमुदाहरणं पक्षद्वयसाम्यापादनम् । सत्वत्पक्षे शब्दस्वरूपं गुण एव, जाति-गुणौ गुणो द्रव्यं च, द्रव्यं तु द्रव्यमेव, उपकारी गुणः प्रधानं द्रव्यमित्यर्थः । विवक्षावशात्तु प्रतिपाद्यार्थस्य । अपोहपक्षे शब्दस्वरूपं गुण एव, अपोह-गुणौ गुणो द्रव्यं च, द्रव्यं च द्रव्यमेवेति पक्षद्वयेऽपि विशेषणविशेष्यत्वविभागक्रमेण तुल्यदोषत्वापादनेन च सामानाधिकरण्याभावोत्कीर्तनो ग्रन्थो यावत् सत्वन्मात्रवदिति प्रायो गतार्थः । 15 विशेषस्तु विव्रियते-अत्र च स्वरूप-जाति-गुणा गुणत्वेनोच्यन्ते जाति-गुण-द्रव्याणि च द्रव्यत्वेनेति परेणोक्तत्वान्नोच्यते । अत्र च स्वरूपापोहेत्यादि यावदनुग्राह्यत्वापेक्षयेति तत्समानार्थोक्तेः सोऽपि द्रष्टव्यः । एतस्यार्थस्य भावना-शुक्लशब्दो हीत्यादि यावत् ततश्चातद्भेदत्वं शुक्लाभेदत्वमिति सत्वदभिधानपक्षे दोषोत्कीर्तनं निदर्शनत्वेन गतार्थम् । एवमिहापि सच्छब्दो हि पूर्वमसन्न भवतीत्यादि दार्टान्तिकत्वेन ४११-२ सैव परिपाटी तुल्या यावत् सत्वद्रव्यमभिदधदिति नयेनेत्यतः प्रभृति उदकादिना द्रव्यभेदेन सत्वद् 20 गुणरूपादिगुणभेदेन कर्मगमनादिकर्मभेदेन वा सत्वदिति । तं विशेषमिति एकं वापोहवन्तं द्रव्यादिभेदानामन्यतमं तान् विशेषान् वेति सर्वान भेदान् वा 'नैवाक्षिपति' इति वर्तते । व(१)यत्तत्तद्वदिति, 'तिष्ठन्तु तावद् विशेषाणामन्यतमः सर्वे वा, किं तर्हि ? विवक्षितमेकं घटादि वा गुणादिविरहितं तद्वस्तु नैवाक्षिपति नाप्यारातीयं ततो द्रव्यादि वा तद्वद्वस्तु तं विशेष तद्विशेषान् वा, नारातीयानामपि विशेषाणामवि(मि?)धातेति। सत्वन्मात्रवदिति, यथा सत्वान्निराक्रियते सत्वन्मात्रपक्षेऽनाक्षेपस्तथा त्वदिष्टेऽन्यापोह-25 वत्पक्षेऽपि । इति सच्छब्दवाच्यार्थाभेदत्वं द्रव्यादीनां घटादीनां वेति भावितार्थानुसारेणोपसंहारः ।
१ तुलना पृ० ६०७ पं २७ ॥ २च्चतद्भेदत्वादनापेक्षः प्र०॥ ३ सत्वमात्र प्र.। दृश्यतां पृ० ६१९ पं० २५॥ ४ °जातिगुण गुणत्वेनोच्यते य० । जातिगुणत्वेनोच्यन्ते भा० ॥५ तत्समानोर्थोक्तेःप्र० । 'तत्समानोऽर्थोक्तेः' इत्यपि पाठोत्र भवेत् ॥ ६°दवदिति प्र.॥ ७ (वर्ततेऽत्र यत्तत्तद्वदिति ?)॥ ८ (तिष्ठतु ?)॥ ९ (तद्वद्वस्तु?)॥ १०°याणमपि विशे य० ।याणाम विशे भा० ॥ ११ यथा त्वनिराक्रियते प्र० । 'यथा सत्वान्निराक्रियते' इति पाठोऽत्र सम्माव्यते। सदस्ति अस्येति सत्वान् , यथा स निराक्रियते त्वया सत्वन्मात्रपक्षेऽनाक्षेपात् तथाऽन्यापोहवत्पक्षेऽपीत्याशयो भाति ॥ ११ अत्र 'पक्षेऽनाक्षेपात्तथा' इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org