________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
तु गुणधर्म व स्वतोऽन्यान्सीमानाधिकरण्याभावः । स्यादेवम्अनाक्षिप्तैर व्याप्तैरपि सामानाधिकरण्यं भविष्यति विवक्षावशात् । न ह्यसत्यां व्याप्तौ सामानाधिकरण्यम्, रूपशब्देन मधुरादीनामनाक्षिप्तत्वादव्याप्तत्वात् तच्छब्दैः सामानाधिकरण्यं न भवति, व्याप्तौ तु भवति, यथा रूपमाम्लं रूपं नीलमिति ।
६१८
5 एवाभिधाने शक्त्यभाव: दूरत एवान्यापोह इति न स्वार्थाभिधानं नान्यापोहं वा कुर्यात् सच्छब्दः । तस्मादप्रतिपत्तिरेव शब्दार्थ[स्य ] स्यादिति ।
अथ मा भूद् भवत्यर्थस्य सम्भेदनं पटाद्यसत्त्वेनेति सर्वत्र भवत्यर्थ एव चेदिष्यते ततः भवत्य स - म्भेदेऽविविक्चैक सत्त्वप्राप्तौ तवान्यापोहयत्नवैयर्थ्यमेव प्राप्तम् । किं कारणम् ? घटस्य परभावादपि, यदि सन् घट इत्युक्ते पटादिरपि सन्नेवेति सर्वस्य सत्त्वेनैवाक्रान्तत्वे च ' सन्नसन्न भवति' इति किंविषयो10 ऽन्यापोहः स्यात्, असन्नामकार्थस्यात्यन्तमभावात् ? इत्यलमत्युद्घट्टनेन प्रस्तुतमस्तु ।
अयं तु गुणधर्म एवेत्यादि । विशेषणं गुणः, तस्य धर्म एषः, स्वतोऽन्यानित्यादि गतार्थं यावत् सामानाधिकरण्यभावः । सच्छब्दो गुणः विशेषणात् नीलादिवदिति पिण्डार्थः । विशेषणमनुग्राहकमनुग्राह्यं विशेष्यं प्रधानम् ।
स्यादेन (a) मित्यादि । टीकायां चोदितम् - अनाक्षिप्तैर व्याप्तैरपि सामानाधिकरण्यं भविष्यति 15 विवक्षावशात् 'इदं विशेष्यमिदं विशेषणम्' [ ] इति । अत्र भाष्येण पर एवोत्तरमाह - ४११-१ न ह्यसत्यां व्याप्तावित्यादि साधर्म्यवैधर्म्याभ्यां यावद् रूपमाम्लं रूपं नीलमिति । अनाक्षिप्तत्वा
दव्याप्तत्वादिति हेतवः ।
१ 'अयं तु गुणधर्म एव स्वतोऽन्यान् भेदानाक्षेप्तुमसमर्थत्वाद् नीलादिवत् । अतो घटादिभेदानामना क्षिप्तत्वादतद्भेदत्वे सामानाधिकरण्याभावः' इति 'अयं तु गुणधर्म एव स्वतोऽन्यान् व्यावर्त्य सत्वद्द्रव्याभिधानात् नीलादिवत् । ततश्च घटादिभेदानामनाक्षिप्तत्वादतद्भेदत्वे सामानाधिकरण्याभाव:' इति वा कश्चिदाशयोऽत्र सम्भाव्यते । तुलना- पृ० ६०७ पं० २६ ॥ २ तुलना - " एवमपोह मात्राभिधाने दोषसाम्यमुक्त्वा जातिमदभिधानेऽपि तद्वतो नाखतन्त्रत्वात्' [ ] इत्यादिना सामानाधिकरण्याभावादि यद् भिक्षुणोक्तं तदपोहवदभिधानेऽपि समानमित्युपपादयिष्यन् पक्षपरिग्रहं तावत् करोति - ' अथान्यापोहवद्वस्तु वाच्यमित्यभिधीयते' । इति अत्र भिक्षुराह - ' जातिशब्दः सदादिस्तद्विशिष्टमेव द्रव्यमभिदधन्न तद्गतमेत्र घटादिविशेषरूपमाक्षिपति । परतन्त्र सौ सत्तां निमित्तीकृत्य द्रव्ये वर्तते, न तु स्वतन्त्रः सर्वविशेषणविशिष्टं द्रव्यं वक्ति । ततश्च घटादेस्तेन सच्छब्देनानाक्षेपान्नास्ति तद्वाचिना सामानाधिकरण्यम् । न कोपाधिविशिष्टे द्रव्येऽभिहिते परोपाधिना सामानाधिकरण्यं भवति । यथा मधुरशब्देन माधुर्योपाधिविशिष्टं खण्डद्रव्यमभिदधता तद्द्वता परशुक्लायनाक्षेपात् तेन न सामानाधिकरण्यं यथैतन्मधुरं श्वेतमिति तथैतेनापि न भाव्यं 'सन् घटः' इति' [ ] इति । तदेतत् सर्वमस्मिन्नपि पक्षे समानमित्याह -- ' तत्रापि परतन्त्रत्वाद् व्याप्तिः शब्देन दुर्लभा ॥ १२० ॥ इति । तत्रापि ह्यसद पोहविशिष्टद्रव्यं प्रतिपादयन् सच्छब्दः परतन्त्रो वर्तते नासौ तद्गतमपरमघटादिव्यावृत्तं सदाक्षेप्तुं समर्थ इत्यभिप्रायः । अतश्च तथैव खण्डादिद्रव्ये मधुरादिभिः शब्दैरात्मीयामधुरा शुक्ला दिव्यावृत्तिमात्रप्रवृत्तेः परस्परं शुक्लमधुरत्वादिव्याप्त्यसम्भवेनाक्षेप नास्ति । अतश्च मधुरं शुक्लमिति विशेषणं न भवत्येव । सच्छब्देनाप्यसद्व्यावृत्तिमात्र विशिष्टद्रव्याभिधायिना अपरा तद्द्वताघटादिव्यावृत्तिराक्षेप्तुं न शक्यते तत् कथमत्रापि ‘सन् घटः' इति सामानाधिकरण्यम् ।" - मी० श्लो० वा० शर्करिका. पृ० ६० ॥ ३ तुलना पृ० ६०७ पं० २७ ॥ ४ सम्भेदे विवि प्र० ॥ ५°न्तत्वे व य ं । ( ° न्तत्वेन ? ? ) ॥ ६ गुण विशे० प्र० ॥ ७ नीलावदिवदिति य० ॥ ८ ग्राह्यं विशेष्यं प्रधान भा० | ग्राह्य प्रधान य० ॥ ९ रूपमंलंरूपं नीलमिति य० । रूपं नीलमिति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org