________________
६१७
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
कथं साक्षान्न ब्रवीति सत् ? यस्मादन्यापोहेऽपि तावत् साक्षात् प्रवर्तमानस्तद्गतं नित्यत्वादिभेदं नाक्षिपति किमङ्ग पुनरन्यापोहेन व्यवहिते तद्गतान् भेदान् घटादीनाक्षेप्स्यति ? एतदर्थव्यक्तीकरणा) 'सदित्यसन्न भवति' इत्यवश्यं भवतिशब्दप्रयोगाद् ‘भवति' इत्यर्थो मुख्यः श्रयणीयोऽव्याहतः। भेदे तु भवत्यर्थसम्भेदनं स्यात् । असत्त्वविविक्तसत्त्वप्राप्तावेवात्ययस्ते, कुत एव तदन्यापोहः । भवत्य- 5 सम्भेदेऽविविक्तैकसत्त्वप्राप्तौ तवान्यापोहयत्नवैयर्थ्यमेव, घटस्य पटभावादपि ।
एतद् भावयितुकामः प्रश्नयति-कथं साक्षान्न ब्रवीति सदिति । तस्य भावनार्थ व्याकरणं जातिमत्पक्षतुल्यदोषत्वापादनाय च-यस्मादन्यापोहेऽपीत्यादि यावत् तद्गतान् भेदान् घटादीनाक्षेप्स्यतीति, जातिमतीवापोहेऽपि तावदसव्यावृत्तिमात्रे साक्षात् प्रवर्तमानोऽन्यापोहसामान्यगतं नित्यत्वादिभेदं नाक्षिपति अन्यापोहेऽपक्षीणशक्तित्वात् , किमङ्ग पुनरन्यापोहेन व्यवहिते ‘सदित्यसन्न 10 भवति' इत्यसदसत्त्वेनावच्छिन्नेऽभिधेयभागेऽपोहवति गतान् घटादीन् भेदानाक्षेप्स्यतीति सम्भावनास्ति ? इति पिण्डार्थः । वक्ष्यत्यस्यार्थस्य तदुक्तमेव सभावनं दृष्टान्तम् । सच्छब्दाभिप्रायस्यैवोपवर्णनेनान्यापोहवादिनं तावदुट्टयन्निदमाह-एतदर्थेत्यादि यावत् कुत एव तदन्यापोहः ? एतस्यान्यापोहार्थस्य व्यक्तीकरणार्थं 'सदित्यसन्न भवति' इति वाक्यमवश्यमुपादेयम् , सच्छब्दमात्रादनभिव्यक्तेः । तत्र चावश्यं 'भवति'शब्दः प्रयोक्तव्यः, क्रियापदमन्तरेण सच्छब्देन सह प्रयुक्तनबोरर्थाभावात् भवतिशब्दसहितयोः 15 साफल्यात् । यथोक्तम्-यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते [पा० म० भा० २।३।३] इति । तस्माद् भवतीत्यर्थः स एव मुख्यः श्रयणीयः, १०२ कोऽसौ ? सदर्थ एव । स च अव्याहतः कचिदव्यावृत्तो भावे सर्वत्रैवैष्टव्यः । भेदे तु घटे वर्तमान सत्त्वं पटादिषु न वर्तते [३]त्यसदपि स्यात्, एवं च भवत्यर्थसम्भेदनं स्यात्, मा भूदेष दोष इति तद्भयादसम्भेदाय भेदानाक्षेप एव, गमिष्यमाणघटादिद्रव्यप्रभेदस्य तिरस्कृतपटाद्यपेक्षा सत्त्वस्य प्राप्तिर्मनो- 20 रथैरपि न लभ्येत, असत्त्वविविक्तसत्त्वप्राप्तावेवाऽत्ययस्ते, कुतस्ततोऽन्यस्यापोहः ? अँसदसत्वत
र नित्यत्वादयो जातिधर्मा अपोहे संगच्छन्त इति दिङ्गागस्याभिप्रायमत्र निराकरोति । उक्तं हि दिङ्गागेन—“जातिधर्मव्यवस्थितिः॥ ५॥३६ ॥ जातिधर्माश्चैकत्व नित्यत्व-प्रत्येकपरिसमाप्तिलक्षणा अत्रैव तिष्ठन्ति, अभेदादाश्रयानुच्छेदात् कृत्स्नार्थपरिसमाप्तेश्च । एवं दोषाभावाद् गुणोत्कर्षाच शब्दोऽर्थान्तरनिवृत्तिविशिष्टानेव भावानाह।"-प्र० समु०वृ०५।३६ ।। Psvic.ed. पृ० ७५, N. ed. पृ. ८३ B. | Psv N. ed. पृ. १६७ B. । दृश्यतां तत्त्वसं पं० पृ. ३१६ । तुलना--"अत्र भिक्षुणापोहपक्षे जातिपक्षतुल्यत्वमति दिष्टम् , यथाह-'जातिधर्मव्यवस्थितिः' इति । 'जातिधर्माश्चैकत्व नित्यत्व प्रत्येकपरिसमाप्तिलक्षणा अत्रैव तिष्ठन्ति' इत्यर्थः । ते इमे वस्तुधर्मा अवस्तुन्यतिदिश्यमाना असूत्रपट कारित्वं सूचयन्तीत्याह-अपि चैकत्वनित्यत्वप्रत्येकसमवायिताः। निरुपाख्येष्वपोहेषु कुर्वतोऽसूत्रकः पटः ॥ १६३ ॥ इति ।"-मी० श्लो० वा०शर्करिका पृ. ७४ ॥ २ दृश्यतां पृ० ६१९ पं० ३॥ ३ तदसन्यापोहः य० ॥ ४ दृश्यतां पृ० २६१ पं०५॥ ५°त्यर्थ स एव प्र० ॥ ६ भावे तैवैष्टव्यः य० । भावे नैवैष्टव्यः भा० । दृश्यतां पृ. ६१८ पं. ७ । 'भावे सन्नेवैष्टव्यः' इत्यपि पाठोऽत्र भवेत् ॥ ७°नापेक्ष य०॥ ८ असत्वत भा०॥
नय० ७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org