________________
न्यायागमानुसारिणीवृत्यलङ्कृतं [अष्टम उभयनियमारे तत्रापोहः, तथापि सर्वविशेषयुक्तस्यैव स्वार्थस्य गमनमुपलक्ष्यते । न च पूर्वदृष्टस्य, अज्ञातज्ञानार्थत्वाच्छ्रोतुः। एवं च
अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते ।
तस्य पूर्वमदृष्टत्वे सामान्यादुपसर्जनात् ॥ 5 अतद्भेदत्वे सामानाधिकरण्याभावः, असदसच्छब्दाभिधेयवस्त्वविशेषत्वे साक्षादनुक्तेः सतः।
__ अभ्युपेत्यापि त्वदुक्तन्यायेनाऽन्यापोहमस्मदिष्टविधिरूपाभिधानमेव ब्रूमः-भवतु वा तत्रापोहः ४०९-२ तथापि सर्वविशेषयुक्तस्यैव स्वार्थस्य गमनमुपलक्ष्यते, स्वरूपविधिविनाभूतस्यासम्भवादपोहस्य
विशेषाणामेव सद्भावोदित्युद्राहितार्थवद् विधिरूपेणैवेति । 10 यदप्युक्तम्-पूर्वदृष्टसामान्येन धूमेनाग्न्यनुमानवदभिधानं सामान्यस्य शब्देन न विशेषस्य पूर्वम
दृष्टत्वादिति; तद् न च पूर्वदृष्टस्य, न हि लोके पूर्वप्रतिपादनाय शब्दः प्रयुज्यते प्रकाशितप्रकाशनवैयर्थ्यवत् । क्षणिकत्वाच्च पूर्वदृष्टश्विरनष्टः कासौ ? कथं वा शब्देनोच्यते ? ननूक्तम् 'पूर्वदृष्टसामान्येन' इति, उक्तमिदम् , अयुक्तमुक्तम् , सामान्यस्य संवृत्याख्यस्यापोहाख्यस्य चासत्त्वात् । अतो न पूर्वदृष्टस्य गतिः शब्देन, अत आह-न च पूर्वदृष्टस्य, न हि स पूर्वदृष्टः, नापि पूर्वदृष्टेनार्थः, किं कारणम् ? 15 अज्ञातज्ञानार्थत्वाच्छ्रोतुः श्रोता ह्यज्ञातार्थज्ञानेनाऽर्थी, तस्य ज्ञानाधानार्थः शब्दः प्रयुज्यते वक्त्रा न दृष्टज्ञानार्थम् , उक्तार्थानामप्रयोगात् ।
एवं चार्थशब्दविशेषस्येत्यादि श्लोकः । एवं च कृत्वाऽज्ञातार्थत्वाद् विशेषार्थस्यैव सत्त्वादित्थमस्माभिः पठ्यते
अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते ।
तस्य पूर्वमदृष्टत्वे सामान्यादुपसर्जनात् ॥ इति । यथासङ्ख्यमर्थविशेषस्य वाच्यता शब्दविशेषस्यैव वाचकतास्माभिरिष्यतेऽनयोरेव सत्त्वात्, न सामान्यार्थशब्दयोरसत्त्वात् । तस्य विशेषस्य पूर्वमदृष्टत्वात् स एवाज्ञातत्वाज्ज्ञाप्यते, केनोपायेन चेत् , उच्यतेसामान्यादुपसर्जनात् ।
___ अतद्भेदत्वे सामानाधिकरण्याभावः 'अतद्भेदत्वे' इति किमुक्तं भवतीति तद् व्याचष्टे-अस४१०-१ दसदित्यादि, 'सत्' इत्युक्तेऽसदपोह्यते 'असन्न भवति' इति तदसदसत् , तदेवासदसच्छब्देनाभिधेयं 'वस्तु असद्व्यावृत्तिसामान्यम् , तस्य विशेषा भेदा न भवन्ति घटादयः सत्वन्तः, तेषामसदसच्छब्दाभिधेयवस्त्वविशेषत्वे साक्षादनुक्तेः सतः सामानाधिकरण्याभाव इति वर्तते । । १ स्वरूपविधिनाभूतस्या य० । स्वरूपविधिनाऽभूतस्या भा० । दृश्यतां पृ० ६१० पं० ६ ॥ २°दित्युद्युद्राहि प्र० । अत्र °दित्याधुद्राहि° इति पाठः सम्भाव्यते ॥ ३°तार्थज्ञानेनार्थ य० । तार्थशानेनार्थी भा० ॥ ४'ऽज्ञातज्ञानार्थत्वाद' इति पाठः सम्यग् भाति ॥ ५ पृ. ४६०-२ इत्यत्रापि दृष्टत्वे इत्येव पाठः । नवमारे तु दृष्टत्वात् इति पाठो निर्दिष्ट इति ध्येयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org