________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । [ न्या० सू० ।।१।३३] इति वाक्ये साध्यविशेषागतिवत् । घटादिसंवृत्यर्थासत्त्वादगतिरेव सामान्यार्थस्यापि, असत्त्वेनाभ्युपगतत्वात् । अर्थविशेषश्च तवावाच्य एव ।
अस्मन्मतेन तु यदा तदाऽनेनैव विषयेण भवितव्यम् , उक्तवत् । तथा चान्यापोह उपेक्ष्यः।
ननु चात्राप्यपोहो देशकालभेदानां परस्परतः। अत एवोपेक्ष्यः । भवतु वा 5
[न्यायसू० १।१।३३ ] इत्यस्मिन् वाक्ये साध्यहेतुदृष्टान्ताभासयोरपि असाध्यत्वनिवृत्तिलक्षितयोः साध्यत्वात् साध्यविशेषस्वार्थागतिः तथा[s]घटो न भवतीति अंघटनिवृत्तौ चरितार्थत्वाद् घटस्वार्थविशेषागतिः स्यात् ।
स्यान्मतम्-साध्यसामान्यगतिवद् घटसामान्यगतिः स्यादिति । तन्न, घटादिसर्वसंवृत्यर्थासत्त्वादगतिरेव सामान्यार्थस्याप्यसत्त्वेनाभ्युपगतत्वात् त्वयैव, अत एव चास्माभिरेवमिति शि(विशे)षितमनन्तरातीतासद्वस्तु आन्नानात् असत्योपाधिसत्यशब्दार्थवादिनोऽस्य नयस्य मतेनापि सामान्यार्था-10 वाच्यत्वाद् नास्ति शब्दस्य स्वार्थः । इतश्च नास्ति; यस्मात् अर्थविशेषश्च तवावाच्य एव, यथोक्तम्
नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते ।
तस्य पूर्वमदृष्टत्वात् सामान्यं तूपदेक्ष्यते ॥ [ ] इति । सामान्यस्यासत्त्वाद् विशेषस्यावाच्यत्वात् कतमोऽन्यः स्वार्थ इति, नास्ति त्वन्मतेनैव ।
अस्मन्मतेन तु अभिधेयो विधिनैवावश्यम् , यस्मादस्य च वाक्यस्य यदा तदाऽनेनैव विषयेण 15 भवितव्यम् , शब्दाभिधेयेनार्थेन चेत् कार्य सुदूरमपि विचाराध्वना गत्वा यस्मिन् कस्मिंश्चित् काले ४०९-१ विशेषस्यैव वस्तुत्वादन्यस्यार्थस्याभावादनेन विशेषेणैव विषयेण भवितव्यम् , नान्येन । किमिव ? उक्तवत् । ननु युगपद्भूतपटाद्यभवनेनैव इत्यादि यावद् भवनाभवनेन च भवति ‘सन्' इति, अन्यथाऽनुपपत्तेः । यदि तु सदसन्न भवेत् इत्यादिना यावत् साध्यविशेषागतिवत् इत्येतदवधिना ग्रन्थेन असत्त्वस्यापादितत्वात् । तथा चान्यापोह उपेक्ष्यः, यस्मादन्या[न]पोहरूप एव भावस्तस्मादन्यस्यापोहो नास्तीत्युपेक्ष्योऽ-20 न्यापोहः।
__आह-ननु चात्राप्यपोहो देशकालभेदानां परस्परतः। देशतः 'पटो घटो न भवति, घटोऽपि पटो न भवति' इति परस्परतोऽपोहः सिद्धः, तथा 'रूपं रसो न भवति रसोऽपि रूपं न भवति' इति । कालतः पूर्वक्षण उत्तरक्षणभाव्यर्थो नास्ति, उत्तरः पूर्वो न भवति' इति परस्परापोहसिद्धिरेवेति । अत्रोच्यते-अत एवोपेक्ष्यः, यस्मात् 'परस्परता विधिरूपैव' इत्यनेकधा प्ररूपितं तस्माद् 'विधेरेव विशेष- 25 विषयस्य सत्त्वात् ततोऽन्यस्य शब्दार्थस्याभावात् पारस्पर्यस्य विशिष्टार्थविषयत्वाद् विधेरेव व्यावृत्तिरूपत्वाच्चोपेक्ष्योऽन्यापोह इति सुष्टुक्तम् ।।
१ दृश्यतां पृ० ६१५ पं० १९॥ २ तुलना-“सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते। सामान्याभावतस्तेषा मृषैव सकला गिरः ॥ ३१ ॥"-आप्तमीमांसा ॥ ३ तथा घटो य० । तथा टो भा० ॥ ४ ऽघट य० । घट भा० ॥ ५"त्वागतिरेव प्र. ॥ ६ मिह विशेषित इत्यपि पाठोऽत्र सम्भाव्यते। तथा चानेन शब्दनयेन सामान्यस्याभ्युपगतत्वादसंगतिपरिहाराय टीकाकृद्भिः 'त्वयैव' इति विशेषितमित्याशयो भवेत् ॥ ७ दृश्यतां पृ० ६१३ पं० १॥ ८ दृश्यतां पृ० ६१५ पं० १॥ ९विधिरेव प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org