________________
६१४
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे इत्यादि यथार्थ न भवति । नापोहेताप्येवं विरोध्यविरोधित्वात् ।
अथ युगपदयुगपद्भाविसर्वभावभेदभवनस्य भवननियमो घटाद्यसद्वयुदासेनेति । तदपि न, विदितभवनानुवादत्वात् सदभ्युपगमादसत्सत्त्वात् । नैव चैवं खार्थविशेषगतिः स्यात्, प्रतिपक्षापक्षेपणक्षीणशक्तित्वात् , 'साध्यनिर्देशः प्रतिज्ञा
5 यथार्थ यथा त्वयाभिवाञ्छितं तथा न भवति, अनृतं तदित्यर्थः । अत्र प्रयोगः-नापोहेताप्येवम् , त्वदुक्तेन विधिना 'सन्नसन् न भवति' इति विरोधित्वात् अस्मन्मतेन 'सन्नसन् भवति' इत्यविरोधित्वात् द्विधापि पक्षधर्मसिद्धेः विरोध्यविरोधित्वादिति । यथा सदित्यसदेव अनपोहात् विरोधित्वेऽपि सति अविरोधित्वात् तथा 'वृक्षः शिंशपा' इति अवृक्षाशिंशपादि नापोहेतेत्यन्यापोहाभावः।
अथ युगपदयुगपदित्यादि यावद् व्युदासेनेति । स्यान्मतम् - नाहं ब्रवीमि युगपद्भाविनां घटा10 दिरूपादीनां भावानां शिवकादिबालादीनां वोऽयुगपद्भाविनां भेदभवनेऽन्यस्याभवनं नास्तीति, किं तर्हि ?
संवृतिसत्त्वाद् घट एवासन् सन्तानपतिताश्च रूपादय एवासन्तः क्षणिकत्वाद् घटरूपादिसंवृतिसतां मुष्टिपतयादिवदसत्त्वात् सन्नसन्न भवतीति । तस्माद् युगपदयुगपद्भाविसर्वभावभेदभवनस्य भवननियमः ‘सैन्नेव तत्व(त्त ?)द् भवति' इत्युच्यते घटाद्यसद्व्युदासेनेति । इति हेत्वर्थे, अस्मान्न्याया
ददोष इति । 15 अत्रोच्यते तदपि न, विदितभवनानुवादत्वात् , एवंवादिनस्ते घटादिरूपाद्यसत्त्वात् तदप्रसिद्धौ
घटो रूपादिर्वा भवति न भवति अपोह्यते नापोह्यते वा स्वार्थो न स्वार्थ इत्याद्यनुवादायुक्तिः, प्रसिद्धविदितार्थविषयत्वादनुवादस्य । अनुवदता च त्वया घटो रूपादि च 'सत्' इत्यभ्युपगतम् , ततः सदभ्युप
गमात् सुतरामसत्सत्त्वमापन्नम् , अतोऽसत्सत्त्वादुक्तदोषाविमोक्षस्तदवस्थ एव ।। ४०८-२ नैव चैवमित्यादि । रूपादिव्यतिरिक्तघटाद्यसत्त्वाभ्युपगमे अनिर्देश्यपरमनिरुद्धक्षणिकसन्तानिव्यति20 रिक्तसन्तानरूपाद्यसत्त्वाभ्युपगमे च घटादिविशेषः स्वार्थ इति वचनमगतिकम् , नैव 'घटोऽयम्' इति स्वार्थविशेषगतिः स्यात् 'अघटो न भवति' इत्यर्थगतेरभ्युपगमे । कस्मात् ? प्रतिपक्षापक्षेपणक्षीणशक्तित्वात् , 'असन्न भवति' इति प्रतिपक्षस्यापक्षेपणे क्षीणा शक्तिरस्य घटशब्दस्य, यत्र च शब्दे प्रतिपक्षापक्षेपणक्षीणशक्तित्वं तस्य स्वार्थविशेषवचनगति स्ति, यथा अक्षपादपक्षलक्षणे 'साध्यनिर्देशः प्रतिक्षा'
१ दिङ्गागवचनेनैव दिङ्गागमतमत्र निराक्रियते । तथाहि दिङ्गागेनोक्तमक्षपादं प्रति--“साध्य निर्देश इत्यत्र सिद्ध्यभावे कृतार्थता । तथा चासिद्धदृष्टान्तहेतुवादः प्रसज्यते ॥ ३३ ॥ नैयायिकास्तु 'साध्यनिर्देशः' [न्या० सू. १।१।३३ ] इति । अत्र सिद्ध्यभावे कृतार्थता । 'साध्य'वचनं ह्यत्र सिद्धिनिवृत्तौ चरितार्थत्वात् साध्यविशेषे नावतिष्ठते । तथा चासिद्धदृष्टान्तहेतुवादः प्रसज्यते। यथा शब्दो नित्यः, अस्पर्शत्वात् , बुद्धिवत् [इति Psvi]। एवं चाक्षुषत्वादनित्य इति । इदमपि साध्यनिर्देशात् प्रतिज्ञा प्रसज्यते।"-प्र०समु०७० ३।३। Psvc. ed. पृ० ४१, N. ed. पृ० ४५ A. I PSv° N. ed. पृ० १२७ A, P. ed. पृ० १२५ B। दृश्यतां पृ० ४३६-१ । प्र० वार्तिकालं० पृ० ५५९, ५६३ । प्र०वा० म० पृ. ४७०॥ २ सदसन् य०॥ ३ यप्दा भा० ॥ ४ तंम नाहं प्र० ॥ ५(चायुग?)॥ ६ सती प्र० ॥ ७ सन्नेव न त्वसन् भवेति' इति ‘सन्नेव न त्वसद् भवति' इति 'सन्नेव तद् भवति' इति वा पाठोऽप्यत्र सम्भाव्यते ॥ ८°मसत्त्वमा य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org