________________
दिङ्गागप्रणीतापोहवाद निरासः ]
द्वादशारं नयचक्रम् ।
६१३
यदपि च तत् सदित्यसन्न भवतीति तदप्यतिपरिश्लथम् । ननु युगपद्भूतपटाद्यभवनेनैव घटभवनं दृष्टम्, युगपद्भूतरसाद्यभवनेनैव च रूपभवनं दृष्टम् । अन्यथा तद्भवने घटो न भवेत् त्वन्मतवदुक्तवच्च । अयुगपद्भाविष्वपि [ अ ] युगपद्भूतपिण्डादि शिवकादिपूर्वोत्तर भवनाभवनेन च भवति 'सन्' इति, अन्यथानुपपत्तेः । यदि तु सदसन्न भवेत् ततोऽन्यापोहो निर्विषय एव भवेत् । ततश्च "भेदो भेदान्तरार्थं तु विरोधित्वादपोहते [ प्र० समु० ५।२८ ]
अत्राह - स्यादेतदेवं यदि [ अ ] वृक्षनिवृत्त्या गम्यते स्वार्थः कश्चिदिति, किं तर्हि ? वृक्षः सन्नित्यसन्न भवतीति तस्यापि वृक्षसत्त्वस्यावृक्षासत्त्वमात्रार्थत्वादन्यापोहमेव शब्दार्थमभ्युपगच्छामीति । अत्र ब्रूमः - यदपि च तत् सदित्यसन्न भवतीति सच्छन्दोऽसच्छब्दार्थं निवर्तयतीति ततः 'सत्' इत्युक्ते ४०७-२ ‘असन्न भवति' इत्ययमर्थो गम्यते ततोऽन्यापोह एवेति भवतोक्तं तदप्यतिपरिश्लथम्, दुर्बद्धदारुभारकवद् 10 विशीर्यत इत्यर्थः । कस्मात् ? [ युगपद ] युगपद्भाविनोऽर्थस्यासत्त्वाविनाभाविन एव सत्त्वात् । तत्र तावन्ननु युगपद्भूतपटाद्यभवनेनैव घटभवनं दृष्टं युगपद्भूतरसाद्यभवनेनैव च रूपभवनं दृष्टम्, यद् घटस्य सत्त्वं तत् पटस्यासत्त्वम्, रसस्यासत्त्वं रूपस्य सत्त्वम् । तस्मात् सँदित्यसन्न न भवति, असद् भवत्येव । अन्यथा तद्भवने घटो न भवेत्, पँटस्य सतो घटे भवने घट एव न भवेत्, पटसत्त्वेनावष्टब्धत्वे घटाकाशाभावात् । किमिव ? त्वन्मतवत्, तेवैव हि ' शब्दान्तरार्थापोहं 15 स्वार्थे कुर्वती श्रुतिरभिधत्ते' इति मतमितरेतराभावात्मकं च तत्त्वमिति । किञ्चान्यत् उक्तवच्च, अनन्तरातीतनये 'भावाभावभावनायाम्' इत्युपक्रम्य बहुधोक्तम् । तस्मान्न युक्तं 'सदित्यसन्न भवति' इति । तथा रूपरसादियुगपद्भाविषु योज्यम् । एवं तावद् युगपद्भाविषूक्तम् । अयुगपद्भाविष्वपि [ अ ] युगपद्भूतेत्यादि । पिण्डो यदि न भवेत् कोशक-स्था स क - कुशूल कादिर्वा यदि न भवेत् ततः शिवको भवेत् । एवं कोशकादिष्वपि पूर्वोत्तरभावाभावे वर्तमानभावो भवेत्, न भावे । तथा कपाल - शकल शर्क - 20 कादिभावेषु योज्यं बाल-कुमार - युव- मध्यम स्थविरेषु च तथैव प्रागनेकधा भावितम् ' अभवन्नेव भवति' इति ।
अथैवं नेच्छसि यदि तु सदसन्न भवेत् तव ततोऽन्यापोहो निर्विषय एव भवेत् । तद्यथा - 'घटः' इत्यघटो न भवतीति नैव स्यात्, घट इत्युक्ते [s] घट एव स्यात् घटश्च न भवेत्, अघटासत्त्वाभावात् घटसत्त्वाभावाच्च । किं कारणम् ? सदसन्न भवति इति घटस्याघटत्वेनात्मा सद्रूपे - 25 पपटादिना भवनात् । ततः को दोषः ? ततश्च इदं दोषजातमनिष्टमापद्यते - भेदो भेदान्तरेत्यादि यावदित्यादि 'आदि' ग्रहणात् सामान्यान्तरभेदार्थाः स्वसामान्य विरोधिनः [प्र० समु० ५।२८ ] इति वा ४०८-१
१ पृ० ६१५ पं० १८ ॥ २ पृ० ६१५ पं० १८ ॥ ३ पृ० ६१५ पं० १९ ॥ ४ " मेदो भेदान्तरार्थं तु विरोधित्वादपोहते । सामान्यान्तरभेदार्थाः खसामान्यविरोधिनः ॥” इति सम्पूर्णा कारिका । दृश्यतां पृ० ४२६-१ ॥ ५ दृश्यतां पृ० ६१५ पं० १९ ॥ ६ सदित्यन्न न भवति प्र० ॥ ७ पटस्यासतो भा० । अयं भा०पाठोऽपि कथञ्चित् सङ्गच्छेत ॥ ८ नाचत्वत्वे प्र० 11 ९ तत्रैव प्र० ॥ १० दृश्यतां पृ० ५५३ पं० २ ॥ ११ भावतायाम् भा० ॥ ९२ दृश्यतां पृ० ६१५ पं० १९ ॥
१३ घटस्य न य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org