________________
६१२
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे यथा कृतकत्वस्य अनित्यत्वविशिष्टः शब्दोऽनुमेय एवं शब्दोऽपि खमभिधेयमर्थान्तरव्यवच्छेदविशिष्टं द्योतयति प्रमाणत्वात् ।
अत्रापि विधिरेवाङ्गीकृतः, अव्यावृत्तस्वार्थार्थत्वात् 'देवदत्त ! गामभ्याज शुक्लाम्' इति गवानयनविधायकवाक्यवत् । व्यावृत्तिव्यतिरिक्तस्य स्वार्थस्य विधानं त्वयैवोक्तम् , शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्त इत्युच्यते, हिशब्दो यस्मादर्थे, यस्माद् वृक्षशब्दोऽवृक्षनिवृत्तिं स्वार्थ कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययति [ ] इति त्वद्वचनादेव स्वार्थविधानस्य प्रदर्शनात् । निवृत्तिविशिष्टं वस्तु शब्दार्थों द्रव्यादि सन् [ ] इत्यादिग्रन्थेनापि खार्थविधानमेव प्रदर्शितम् । अन्यथा सर्वत्रैव व्यावृत्तिमात्रम्, न स्वार्थो नाम कश्चिदस्तीति स्वार्थ कुर्वती श्रुतिरित्यनर्थकं स्यात् ।
10 मात्रं खपुष्पतुल्यमिति दृष्टान्तः । अथवा 'अनुमानानुमेयसम्बन्ध एव वाच्यवाचकसम्बन्धः' इति मन्यमानो यथा कृतकत्वस्येत्यादि सैतत्स्वरूपव्याख्यानमुदाहृत्यानुमानम् एवं शब्दोऽपीत्यादि दार्टान्तिकं च सतत्स्वरूपव्याख्यानं निगमयति 'प्रमाणत्वात्' इति हेतुधर्मं च तयोस्तुल्यम् । शेष गतार्थम् । उभयोरन्यापोहविशिष्टार्थप्रत्यायनतुल्यत्वादिति पिण्डार्थः । यथा वक्ष्यति निदर्शनम्-न प्रमाणान्तरं शाब्दमनुमानात् [ प्र० समु० ५।१] इति । 15 अत्र ब्रूमः-अत्रापीत्यादि । त्वयैवं ब्रुवतापि अपोहातिरिक्तः स्वार्थ उक्तः, अतो विधिरेवा
ङ्गीकृतः । कस्मात् ? अव्यावृत्तस्वार्थार्थत्वात् , अव्यावृत्तस्वार्थोऽर्थोऽस्येत्यव्यावृत्तस्वार्थार्थमेतद्
'व्यावृत्तिमान स्वार्थो गृह्यते' इत्यादि वाक्यम् । यस्याव्यावृत्तस्वार्थार्थत्वं तद् वाक्यं विधिमङ्गीकुर्वद् ४०७-१ दृष्टम् , यथा 'देवदत्त गामभ्याज शुक्लाम्' इति गवानयनविधायकं वाक्यमगवादिदोहादिव्यावृत्तिमद्देव
दत्तकर्तृकशुक्लगवकर्मानयन क्रियास्वार्थम् , तथा 'घटः पटो न भवति' इत्यन्यापोहोपलक्षितस्वार्थवाक्यमिति 20 त्वयैवोक्तम् । तद्यथा-व्यावृत्तिव्यतिरिक्तस्येत्यादि परवाक्यप्रत्युच्चारणम् । तद्विवरणं च हिशब्दो यस्मादर्थे इत्याद्युपक्रम्य हेत्वर्थभावनोदाहरणं वृक्षशब्दः सव्याख्यादण्डकः सोत्त[र]पूर्वपक्षप्रत्युच्चारणं सव्याख्यानं यावत् प्रदर्शनादिति त्वद्वचनादेव स्वार्थस्य विधानं स्फुटीकृतम् ।
किश्चान्यत् , निवृत्तिविशिष्टमित्यादि । एवं निवृत्तिविशिष्टं वस्तु शब्दार्थो द्रव्यादि सन् इत्यादिना ग्रन्थेन कृतकत्वस्यानित्यत्वविशिष्टशब्दानुमेयत्वदृष्टान्तेन सँभावनेन एवं शब्दोऽपि स्वमभिधेय20 मित्यादिना स्वार्थविधानमेव प्रदर्शितम् । अन्यथेत्यादि । एवमनिच्छतस्ते दोषः-यथा वृक्षशब्दप्रयोगे
पटाद्यवृक्षान्यशब्दार्थव्यावृत्तिरपि प्राप्ता, ततः सर्वत्रैव व्यावृत्तिमात्रम् , न स्वार्थो नाम कश्चिदस्ति, अतः 'स्वार्थ कुर्वती श्रुतिः' इत्यनर्थकं स्यात् ।
१ दृश्यतां पृ० ६०७ पं० ९॥ २ तत्स्वरूपव्याख्यानेन सहितं सतत्स्वरूपमित्यर्थः ॥ ३ चातयो भा० । (चानयों ?)। ४ “न प्रमाणान्तरं शाब्दमनुमानात् तथाहि तत् । कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते ॥” इति सम्पूर्णा कारिका प्रमाणसमुच्चयस्य पञ्चमेऽपोहपरिच्छेदे, दृश्यतां पृ० ६०७ पं० ७॥ तत्त्वसंग्रहपञ्जिकायामप्युद्धतेयं कारिका पृ० ४४१ ॥ ५ दृश्यतां पृ० ६११ पं० ४॥ ६ °क्रियस्वा प्र० ॥ ७ दृश्यतां पृ० ६११ पं०६ ॥ ८ सहावनेन प्र०॥ ९ पट्टाद्य प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org