________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
__ योऽनन्यो न भवतीति चेत्, ननु स एव विधेरनन्यः प्रत्यक्षः। इतरथा अन्यो न भवति अनन्य इति व्यावृत्तिमात्रस्थितित्वादप्रतिष्ठितस्वार्थयोस्तदतयोर्ग्रहणाभावात् कुतः कोऽन्यः ? इतरेतराश्रयभावदोषश्च 'तस्मादन्यः, अन्यस्मात् सः' इति ।
अथान्यापोहलक्षणवाक्यानुवृत्त्या व्यावृत्तिमान स्वार्थो गृह्यते, न व्यावृत्तिमानं 'न सदसत्' इति। हिशब्दो यस्मादर्थे, यस्माद् वृक्षशब्दोऽवृक्षशब्दनिवृत्ति स्वार्थे कुर्वन् । स्वार्थ वृक्षलक्षणं प्रत्याययति एवं निवृत्तिविशिष्टं वस्तु शब्दार्थः द्रव्यादि सन्, न निवृत्तिमात्रम् ।
च स्वरूपानवस्थानम् , विधीयमानस्वार्थानवस्थानात् । तस्मिंस्तु विधेयेऽवस्थिते 'शब्दान्तरमन्यः शब्दस्तदर्थश्च' इति वक्तुं युज्येत अत आह-अन्यशब्दशब्दान्तरार्थयोरस्थितरूपत्वात् को ह्यसावन्यो यस्य यस्माद् वापोहः "क्रियेत स्वरूपविधिविनाभूत इति, न सम्भवत्येषोऽर्थ इत्यर्थः।
योऽनन्यो न भवतीति चेत्, स्यान्मतम्-यथैव स्वार्थः 'अन्यो न भवति' इत्यन्यस्यापोहेन 10 प्रतीयते तथैवान्योऽपि 'अनन्यो [न] भवति' इति तदपोहेन प्रतीयते इति चेद् मन्यसे, अत्र ब्रूमः-ननु स एव विधेरित्यादि, वेन विधेयेनोपलक्षितस्य अनन्यस्य प्राणादन्यप्रतीतेरनन्यः स एव स्वार्थो विधेयः, तस्याग्रहणे 'अनन्यः' इति बुद्धेरभावात् 'अनन्यः स्वार्थो विधेः' इत्यापनम् । इतरथा अन्यो नेत्यादि यावद् ग्रहणाभावात् , यथा 'घटादन्यः पटः' इत्युक्ते स न भवति, एवं पटादन्यो घटः सोऽपि न भवत्येव, द्वयोरपि व्यावृत्तिमात्रस्थितित्वात् । ततश्चाप्रतिष्ठितखार्थयोस्त यो]रयं स्वः अन्यः स इति तदतयो- 15 ग्रहणाभावः । ततश्च कुतः कोऽन्यः ? कुतः कस्यापोहः ? इत्यपोहशब्दार्थाभावः । किञ्चान्यत् , इतरेतराश्रयभावदोषः । कथमिति चेत् , उच्यते-तस्मादन्यः, अन्यस्मात् स इति । इति हेत्वर्थे, यस्मादन्यबलात् स प्रसिध्यति तद्बलादन्यः, इतरेतराश्रयाणि च न प्रकल्पन्त इत्युक्तम् । एवं लौकिकान्यापोह- . शब्दार्थमात्रानुसारेण परीक्ष्यमाणेऽन्यापोहे न घटते स्वार्थः।।
४०६-२ ... अथान्यापोहेत्यादि यावद् न सदसदिति अन्यापोहलक्षणवाक्यानुसारेण परीक्षामाह-20 अन्यापोहलक्षणवाक्यं तेनान्यापोहकच्पुतिः[
] इति, तस्य व्याख्या-शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्त इत्युच्यते [ ] इति, तदनुवृत्त्या व्यावृत्तिर्यस्मिन् विद्यते स्वार्थे स गृह्यते न व्यावृत्तिमात्रम् , हिशब्दस्य हेत्वर्थत्वात् । तद्दर्शयति–'हि'शब्दो यस्मादर्थे, तन्निरूपयति लौकिकोदाहरणेन-यस्माद् वृक्षशब्द इत्यादि यावत् प्रत्याययति इति । एवं निवृत्तिविशिष्टं वस्तु शब्दवाच्यार्थः, कतमोऽसौ ? द्रव्यादि सन् द्रव्य-पृथिवी-मृद्-घटत्वादि, न निवृत्ति-25 ... १ दृश्यतां पृ० ४१६-१॥ २ दृश्यतां पृ० ५४८ पं० १२-१४ ॥ २ °वस्थानात् तस्मिंस्तु विधेये वस्थानात् तस्मिंस्तु विधेय इति द्विर्भूतः पाठः प्रतिषु ॥ ४ क्रियते य० ॥ ५ नन्यो भव' य० ॥ ६ अन्योन्य भवति य० । अन्योन्यान्य भवति भा०॥ ७ष्वेन विधियेनोपालक्षितस्य प्र० ॥ ८ग्रहणेइत्यति बुद्धे य० ॥ ९स्तरयं श्वः अन्यः प्र०॥ १० इति हेत्वों भा० । ( इतिहेत्वर्थे ? )॥ ११ दृश्यतां पृ. ३४ टि. ४ ॥१२ माणो य० ॥१३ दृश्यतां पृ० ६०९ टि. १॥१४ यस्मा वृक्ष" भा०। यस्मादवक्ष य० । दृश्यतां पृ० ५४८ पं० १२-१४ । सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तावुद्धृतेऽस्मिन् दिङ्गागवचने "हिशब्दो यस्मादर्थे, यथा वृक्षशब्दोऽवृक्षशब्दनिवृत्तिं स्वार्थ कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययतीत्युच्यते एवं च निवृत्तिविशिष्टं वस्तु शब्दार्थः न निवृत्तिमात्रम्" [ तत्त्वार्थवृ० ५।२४ पृ० ३५७ ] इति पाठदर्शनादत्र यथा वृक्ष इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org