________________
६१०
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [ अष्टम उभयनियमारे इत्युक्तं त्वया न प्रत्यक्षविषयवार्थत्वेन । अनुमानविषयोऽपि नैवास्य स्वार्थः, अपोहार्थवरूपत्वात् । अग्निरनग्निन......। भेदोपादाने वाऽस्वार्थत्वमपोहार्थादन्यत्वात् परप्रत्यायनादित्वभिन्नार्थत्वाच ।
अथ कचिददृष्टोऽपि 'अन्यापोहः' इत्यस्मादेव शब्दादवगन्तव्यः स्वार्थः, 5 यस्मिन्नन्योऽपोह्यते स स्वार्थः । तदपि न, 'स्वार्थे' इत्याधाराधेयादर्शनात् स्वरूपविधिविनाभूतत्वात् कस्मिन् खार्थेऽपोह्यते ? अन्यशब्दशब्दान्तरार्थयोरस्थितरूपत्वात् को ह्यसावन्यो यस्य यस्माद् वाऽपोहः क्रियेत ?
नवादव।
नामसम्भवात् 'अन्यापोहकृच्छ्रुतिः' इति भेदपक्षस्य जातिमत्पक्षाविशिष्टत्वेष्टेः शब्दार्थाववधृत्य उक्तं
त्वया, न प्रत्यक्षविषयस्वार्थत्वेनेति त्वद्वचनमेव ज्ञापकम् । ४०० स्यान्मतम्-अनुमानविषयः स्वार्थ इति । तच्चानुमानविषयोऽपि नैवास्य शब्दस्य स्वार्थः,
अपोहार्थस्वरूपत्वात् । तदर्शयति-अग्निरनग्निर्नेत्यादि, तस्यापि चापोहार्थस्याख्येयत्वात् , न चाख्यातोऽसौ 'ईदृशः स्वार्थः' इति विशेष्य । स्यान्मतम्-अग्निमत्त्वविशिष्टदेशादिः स्वार्थो भिन्नस्तत्सम्बन्धीति चेत् । एवं तर्हि भेदोपादाने वा अस्वार्थत्वमपोहार्थादन्यत्वात् , अपोहार्थस्यैव त्वयानुमानत्वेष्टेः । किश्चान्यत् , परप्रत्यायनादित्वभिन्नार्थत्वाच्च, सचानुमानविषयः स्वार्थः आत्मनः प्रत्यायने लिङ्गादि15 वस्तुरूपः, परप्रत्यायने शब्दवाच्यो ज्ञानरूपो ज्ञानार्थत्वाच्छब्दप्रयोगस्येत्ययुक्तमस्य स्वार्थस्य द्वैरूप्यम् । एवं न प्रत्यक्षविषयो नानुमानविषयः स्वार्थो घटते शब्दस्य त्वन्मतादेव ।
अथ क्वचिदित्यादि । शब्दार्थविचारे प्रत्यक्षानुमानविषयत्वविचारोऽसम्बद्ध इति चेत् , तन्न, 'तृतीयार्थासम्भवात्' इत्यादेः प्रदर्शितत्वात् । तथापि त्वदनुवृत्त्या यद्यपि प्रत्यक्षानुमानेविषययोरदृष्टोऽपि 'अन्यापोहः' इत्यस्मादेव शब्दादवगन्तव्यः स्वार्थः, अन्यस्यापोहो न स्वस्यार्थस्य, स्वार्थे 20 चान्यस्यापोहो न निराश्रय उक्तदोषात् । तस्मात् यस्मिन्नन्योऽपोह्यते स स्वार्थ इति 'घटः' इत्युक्ते 'अघटो न भवति पटादिः' इति घटे पटाद्यपोहाद् घटः स्वार्थ इति शब्दविषय एव स्वार्थो निश्चित इति मतम् । तथापि तदपि न स्वार्थ इत्याधाराधेयादर्शनात् , स एवाधाराभिमतः स्वार्थ आधेया
भिमतश्च शब्दो न दृश्येते तौ स्वरूपविधिविनाभूतत्वात् , यस्मिन् 'अन्यस्य शब्दान्तरार्थस्यापोहं ४०६-१ करोति' इत्युच्यते स एवाधारोऽर्थो न विधीयते शब्दश्चाधेयः । तस्मात् तथोरदर्शनात् कस्मिन् 25 स्वार्थेऽपोह्यते इत्यभिसम्भन्त्स्यते, न चेद् विधीयते अन्यस्यार्थस्य सूत्रोक्तस्य भाष्योक्तस्य शब्दान्तरार्थस्य
१वा न्यापोह प्र०॥ २ मत्प्रक्षाविशिष्टत्वेष्टः य० । मत्प्रत्यक्षाविशिष्टत्वेष्टेः भा० ॥ ३ हार्थः स्वरू' य० ॥ ४ आत्मान प्र० । अत्र 'आत्मने' इति पाठोऽपि समीचीनो भाति, 'स्वस्मै इदं स्वार्थम् , परस्मै इदं परार्थम्' इत्याशयेन 'आत्मने' इत्यपि पाठोऽत्राभिप्रेतो भवेत् ॥ ५ ज्ञानात् नानार्थत्वा य० । ज्ञानात् नानानार्थत्वा भा० । अत्र ज्ञानाधानार्थत्वा इत्यपि पाठो भवेत् ॥ ६ सत्यक्षा प्र०॥ ७°संबंध प्र०॥ ८ पृ. ६०९ पं० २॥ ९नविषयो प्र.॥ १० अनस्यपोहे प्र०॥ ११ दृश्यतां पृ०६०९ पं० ११॥ १२ इइत्या भा० १३ दृश्यते प्र० ॥ १४ अन्यार्थस्य भा० । अयं भा०प्रतिपाठोऽपि समीचीन एव । 'तेनान्यापोहकृच्छतिः' इति दिङ्गागप्रणीते सूत्रे योऽन्यार्थ उक्तः 'शब्दान्तरार्थापोहं हि' इत्यादि भाष्ये च यः शब्दान्तरार्थ उक्तस्तस्य स्वरूपानवस्थानमित्याशयः ॥ १५°रार्थ च प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org