________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
कथम् ? अन्यापोहकृच्छुतिः। शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते इत्युच्यते [ ]। अर्थो च स्वसामान्यलक्षणावुक्तौ, तृतीयार्थासम्भवात् । स्वार्थ एव तावदवधार्य:-कः स्वार्थः ? स्वार्थः खलक्षणोऽनन्यः प्रत्यक्षविषयः। स इह सविकल्पार्थे न सम्भवति स्वार्थः प्रत्यक्षविषयः। न च ततोऽन्यः स्वार्थः । शब्दान्तरार्थापोहश्च न खार्थः। तद्द्वयातिरिक्तश्च तृतीयो न कश्चिदन्योऽस्ति । तिष्ठतु तावत् स्वार्थः। 5
तथा च जाति-सम्बन्ध-जातिमदभिधानानामसम्भवादन्यापोहकृच्छुतिः[
कथम् ? इत्युपपत्तिप्रश्नः । भेद-जातिमद भिधानपक्षेषु दोषदृष्टेरादापन्नम् 'अन्यापोहकृच्छ्रुतिः' इत्यन्यापोहं वर्णयति "शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिः 'अभिधत्ते' इत्युच्यते' इत्यन्यापोह-४०५-१ वादिनोक्तम् , अर्थों च स्वसामान्यलक्षणावुक्तौ, नातोऽन्यत् प्रमेयमस्ति इति ततोऽन्यतृतीयार्थासम्भवात् स्वार्थ एव तावदवधार्यः, तावच्छब्दस्य क्रमार्थत्वादर्थान्तरस्याप्यवधारयिष्यमाणत्वात् , 10 शब्दान्तरार्थापोहमात्रोक्तौ 'दोषोऽसत्त्वप्राप्तिः, तस्मात् तावताऽपरितोषात् 'स्वार्थे कुर्वती' इत्युक्तः कः स्वार्थः ? उच्यते-स्वार्थः स्वलक्षणः, अन्यतोऽन्यः स्वः, अनन्यः स एवेत्यर्थः प्रमाणयोरपि नियतविषयावधृतेः प्रत्यक्षविषयः स स्वार्थ इति । स इहेत्यादि । इह शब्दार्थे सविकल्पार्थे सामान्यतः सविकल्परूपेऽध्यारोपापवादात्मनि स न सम्भवति स्वार्थः प्रत्यक्षविषयः, 'स्वलक्षणमनिर्देश्यम्' [प्रै० समु० ११५, २।२ ? ] इत्युक्तत्वात् प्रत्यक्षविषयस्य । स्यान्मतम्-प्रत्यक्षादर्थादन्योऽस्ति स्वार्थ इति चेत्, 15 तन्न च ततोऽन्यः प्रत्यक्षार्थात् स्वार्थः। शब्दान्तरार्थेत्यादि । अन्यापोहः स्वार्थो न भवति, तहयातिरिक्तश्च तृतीयो न कश्चिदन्योऽस्ति, लक्ष्यद्वित्वावधारणात् ततश्च प्रमाणद्वित्वावधारणात् । तस्मात् तृतीयोऽर्थोऽपि नास्ति, कुतः स्वार्थः ? इत्यत आह-तिष्ठतु तावत् स्वार्थः असत्त्वादविचार्य इत्यर्थः ।
तथा चेत्यादि । एवं च कृत्वा शब्दवाच्यविचारे प्रस्तुते जाति-सम्बन्ध-जातिमदभिधाना
१'अर्थाक्षेपेऽप्यनेकान्तस्तेनान्यापोहकृच्छुतिः।' इति प्रमाणसमुच्चयस्य पञ्चमेऽपोहपरिच्छेदे द्वादश्यां कारिकायां दृश्यते, किन्तु तस्य दिङ्नागविरचितायां वृत्तौ 'शब्दान्तरार्थापोहं हि' इत्यादिव्याख्याया अदर्शनादिदं दिङ्नागस्यान्यस्माद् ग्रन्थादत्रोद्धृतं भाति ॥ २ दृश्यतां पृ. ४१६-१॥ ३“उक्तं प्रमाणद्वयम् । केचित् शाब्दमपि प्रमाणान्तरं मन्यन्ते। [तत्र PSY' ] न प्रमाणान्तरं शाब्दद्मनुमानात् तथाहि तत् । कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते ॥ ५॥१॥ शब्दो यस्मिन् विषये प्रयुज्यते तस्य येनाङ्गेनाविनाभावितया सम्बद्धस्तत् कृतकत्वादिवदथान्तरव्यवच्छेदेन द्योतयति ततोऽनुमानान्न भिद्यते । [पृ० १५७ B].........यस्माजातिशब्दः कथञ्चिदपि भेद-सामान्य-सम्बन्ध-जातिमद्वाचको न युज्यते तेनान्यापोहकृच्छतिः[प्र. समु०५।१२] । तस्मात् 'कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते' इति यद् [ उक्तं ] तदेव स्थितम् | पृ० १६०]।” इति प्रमाणसमुच्चयवृत्ती पञ्चमेऽपोहपरिच्छेदे दिङ्नागेनोक्तम् । Psv"पृ० ७३ B-७६ B॥ ४ दृश्यतां पृ० ५४७-५४८ । तुलना-"वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कुशः । आह च स्वार्थसामान्य ताहग वाच्यं खपुष्पवत् ॥ १११ ॥” इति समन्तभद्ररचितायाम् आप्तमीमांसायाम् ॥ ५ प्रमाणसमुच्चयवृत्त्यादौ दिनागेनोक्तौ । दृश्यतां टिपृ० १०० पं० १ टि. १ ॥ ६ दोषो सत्वाप्राप्तिः प्र. । ( दोषः सत्त्वाप्राप्तिः ?)॥ ७°ऽपरतोषात् भा० । परतोषात य० ॥ ८ दृश्यतां टिपृ० १०४ पं० १३ । प्रमाणसमुच्च 'स्वसंवेद्यमनिर्देश्य रूपमिन्द्रियगोचरः' इति कारिका दृश्यते । 'वलक्षणमनिर्देश्यं रूपमिन्द्रियगोचरः' इति तु पाठभेदेन नयचक्रवृत्तौ अष्टमेऽरे पृ० ४३७-२ इत्यत्र उद्धृता, अत इयं कारिका दिनागस्य ग्रन्थान्तरादत्रोद्धृता प्रतीयते । प्रमाणसमुच्चयस्य द्वितीयपरिच्छेदस्य द्वितीयश्लोके तु 'स्वलक्षणमनिर्देश्य ग्राह्यभेदात् तदन्यथा' इति पाठो भाति ॥
नय०७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org