________________
६०८
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[अष्टम उभयनियमारे
यथा 'यो मृत्यः स स्वामी' इति भृत्ये स्वामिशब्दाभिधाने राज्ञि भृत्ये च समाना बुद्धिन भवति । उपचारश्च जातिशब्दस्य तद्वति ।
क्रमेणानभिधानाञ्च कुन्दशुक्त्यादिशौक्लयवत् । यत्र समाना प्रतीतिस्तत्र क्रमेणाभिधानं दृष्टम् , यथा कुन्दस्य कुमुदस्य शुक्तेश्च शौक्लयमिति । जातितद्वतोयुगपच्छब्दप्रयोगान्न प्रत्ययसंक्रान्तितः सारूप्यम् ।
गुणोपकारात् ताद्रूप्ये प्रकर्षः स्याद् विना धिया ॥५॥ यदि स्फटिकवद् गुणोपकारात् तद्वान् गुणस्वरूपः स्यात् तथा सति गुणप्रकर्षबुद्धिनिरपेक्षा द्रव्ये प्रकर्षबुद्धिः स्यात् । न हि स्फटिके रक्तबुद्धेर्भाव उपधानबुद्धिमपेक्षते, अविमलेषु मेदबुद्ध्यभावात् । किञ्चान्यत्
संसर्गरूपात् सर्वत्र मिथ्याज्ञानं प्रसज्यते । सर्वो हि शाब्दः प्रत्ययोऽर्थेषु संसर्गरूपेण व्यवच्छिन्नस्ततः स्फटिकप्रत्ययवदयथार्थः स्यात् । किश्चान्यत्
सामान्यादिबहुत्वे च युगपञ्च ग्रहीतृषु ॥६॥
उपकारो विरुध्येत सर्वैर्मेचकदर्शनम्।। सामान्यादिबहुत्वे च युगपञ्च ग्रहीतृषु उपकारो विरुध्येत । यदा च बहवो ग्रहीतारो भवन्ति गुणवतः शुक्लादेः तद्यथा-घटः पार्थिवो द्रव्यं सन् शुक्लो मधुरः सुरभिरित्येवमादि तदा गुणोपकारो विरुध्यते । न हि शक्यं तदा द्रव्येण एकगुणरूपेण स्थातुम् , अविशिष्टत्वात् । नाप्येकदेशेन गुणरूपमनुभवितुं शक्यम् , कृत्स्नस्य घटादिरूपप्रतीतेः । सर्वैर्मचकदर्शनम् । अथ पुनः सर्वैर्घटत्वादिभिर्युगपदुपकारः कृत्स्नस्य क्रियते ततः सर्वेषां प्रत्येक घटादिरूपग्रहणाभावाद् मेचकदर्शनं युगपत् सर्वरूपापत्तेः स्यात् । - PSvi c. ed. पृ०६६-६८. N. ed. पृ० ७३ B-७५ B, Psvi N. ed. पृ० १५७ B--१५९ A, P. ed. पृ० १५६-१५७ [ VT. D.ed. पृ. २३७ B-२४८ A] ।
तुलना—“ व्यक्त्याकृतिजातयस्तु पदार्थः ॥ २।२।६६ ॥..................न व्यक्त्याकृतिजातयः पदार्थ इति केचित् । कुतः ? विकल्पानुपपत्तेः । सदित्येतदेव व्यापकत्वादुपादाय चिन्त्यते । सदित्यनेन पदेन पुनर्जातिरभिधीयते पिण्डो वा सम्बन्धो वा जातिमान् वा पदार्थः। तत्र न तावजातिरभिधीयते भेदार भिन्न विभक्तिकत्वात् । यद्ययं जातिवाचकः सच्छब्दो भवति 'सद् द्रव्यम्' इति भेदवाचिना द्रव्यशब्देन सह सामानाधिकरण्यं न प्राप्नोति । न हि भिन्नार्थवाचकानां सामानाधिकरण्यं पश्यामः । न हि गवाश्वमिति सामानाधिकरण्यं दृष्टम् । अथ द्रव्यादिवृत्तित्वात् सत्ताया एव द्रव्यादिशब्दैः सह सामाना. धिकरण्यम् , तथापि पारतच्यात् सत्ताया गुणत्वम् , गुणगुण्यभिधायिनोश्च शब्दयोः सामानाधिकरण्यं न दृष्टमिति यथा शङ्कस्य शौक्लयमिति । एतेन सम्बन्धो व्याख्यातः । सच्छब्दः पिण्डानां वाचको भविष्यतीति न युक्तं पिण्डानामानन्त्यात् । न ह्येकस्य शब्दस्यानेकद्रव्यगुणप्रपञ्चेन सम्बन्ध आख्यातुं शक्यः । न चानाख्याते शब्दार्थसम्बन्धे शब्दादर्थप्रतिपत्तियुक्ता स्वरूपमात्रप्रतीतेः व्यभिचाराच्च । सच्छब्दश्रवणाच्च द्रव्यगुणकर्माणीति परिप्लवमाना बुद्धिरवतिष्ठते । न च यस्मादभिधानात् परिप्लवते बुद्धिस्तदभिधानमिति युक्तं वक्तुम् । तस्मात् सच्छब्दो भेदानां न वाचक इति । जातिमन्मात्राभिधायकोऽपि सच्छब्दो न भवति । कस्मात् ? अस्वतन्त्रत्वात् । न हि सच्छब्दात् तद्भेदा घटादयो गम्यन्त इति तद्वद्घटादिभेदानाक्षेपात् सामानाधिकरण्याभावः । अथवा अस्वतन्त्रत्वादिति सच्छब्दः प्राधान्येन सत्तायां वर्तते । तत्र वर्तमानः तद्वत्युपर्यते । यच्च यत्र वर्तमानमन्यत्रोपचर्यते न तत् तस्याभिधायक मञ्चशब्दवदिति । उक्तं चात्र । किमुक्तम् ? तद्वतामानन्त्यात् न सच्छब्देनाभिधानं युक्तमिति । तद्वति च न गुणसारूप्यात् प्रत्ययसंक्रान्तिः यथा स्वामिशब्दस्य भृत्ये । न गुणोपरागात् यथा नीलः स्फटिक इति क्रमवृत्त्यभावाद् युगपदसम्भवाच्च अयथार्थज्ञानोत्पत्तिप्रसङ्गाच्च । तस्मान्न जातिमन्मात्राभिधायकोऽपि । असाधारणविशेषणविशेष्याभिधायको भविष्यतीति न युक्तम् , अन्यत्र प्रत्ययाभावप्रसंगात् । न चान्या गतिरस्ति । तस्मादन्यार्थापोहकृच्छ्रुतिरिति अन्यशब्दार्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्युच्यत इति ।"-न्यायवार्तिक २।२।६६ ॥
1 यथा यः स्वामी स भृत्य इत्यत्र राज्ञि भृत्ये च Psv* 2 “अत्र भिक्षुणोक्तम्-किञ्चित् कुत्रचिद् वर्तमानमुप. कारमासजद्वर्तते यथा लाक्षा स्फटिकेऽनुरजनोपकारेण वर्तते । वर्तते चेजातिव्ये तया तस्यानुरञ्जनाद्युपकारः कर्तव्यः। ततश्च जातिबुद्धया विनैव तदुपकृतद्रव्यमात्रप्रतीत्या भवितव्यम् । न हि लाक्षानुरक्ते स्फटिके गृह्यमाणे तद्ब्रहणमपरमपेक्षते । न चैवमत्रास्ति तेन नास्ति उपकारको(तो) द्रव्ये वृत्तिः-इति । तदुक्तम्-गुणोपकारतो द्रव्ये प्रकर्षः स्याद्विना धिया ।---- इति।"-मी० श्लो० वा० शर्करिका. पृ० ६५-६६ ॥ 3 अविमले VP. ॥ 4 स्फटिकवत् सर्व ज्ञानमयथार्थ स्यात् Psvin 5 सर्वमेचकदर्शनम् (2)॥ 6 सर्वरूपप्रतीतेः VP. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org