________________
दिङ्गागमतनिरासः]
द्वादशारं नयचक्रम् ।
द०७
सर्वेषां स्वग्रन्थानां विषयसंग्रहाय यः प्रमाणसमुच्चयो वृत्त्या सह दिङागेन रचितस्तत्र पञ्चमेऽपोहपरिच्छेदे विस्तरेणापोह निरूपणं वर्तते । अतः सवृत्तिकस्य प्रमाणसमुच्चयस्य 'विशालामलवती'टीकायाश्च भोटभाषानुवादान् मुहुः पर्यालोच्यापोहपरिच्छेदादत्यन्तमुपयोगी अंशो भोटभाषानुवादतः संस्कृतभाषायां परिवर्त्य इहोपन्यस्यते इति नयचक्रेऽपोहचचार्या सर्वत्र यथास्थानं सोऽनुसन्धेयः।
[प्रमाणसमुच्चयान्तर्गतोऽपोहवादः] उक्तं प्रमाणद्वयम् । केचिच्छाब्दमपि प्रमाणान्तरं मन्यन्ते । तत्र
न प्रमाणान्तरं शाब्दमनुमानात् तथाहि तत् ।
कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते ॥१॥ यस्मिन् विषये शब्दः प्रयुज्यते तस्य येनाङ्गेनाविनाभावितया सम्बद्धस्तत् कृतकत्वादिवदर्थान्तरव्यवच्छेदेन द्योतयति । ततोऽनुमानान्न भिद्यते । ये तु 'जातिशब्दः खभेदान् सर्वानेवाभिधत्ते । उक्तेषु नियमार्थ भेदशब्दः' इत्याहुस्तत्रोच्यते
न जातिशब्दो भेदानामानन्त्याद् व्यभिचारतः।
वाचको योगजात्योर्वा भेदाथैरपृथक्श्रुतेः ॥२॥ न जातिशब्दो मेदानां* वाचक इति वक्ष्यति । जातिशब्दस्तावत् सदादिः द्रव्यादीनां न * वाचक आनन्त्यात् । आनन्ये हि मेदानामशक्यः शब्देन सम्बन्धः कर्तुम् । न चाकृतसम्बन्धे शब्देऽर्थाभिधानं युक्तम् , स्वरूपमात्रप्रतीतेः । किञ्चान्यत् , व्यभिचारतः। सच्छब्दो हि यथा द्रव्ये वर्तते तथा गुणादिष्वपीति व्यभिचारात् संशयः स्यात् , नाभिधानम् । येऽपि मन्यन्ते 'जातिमात्रस्य तद्योगस्य वा वाचकः सम्बन्धसौकर्यादव्यभिचाराच्च' इति तदयुक्तम् , वाचको योगजात्योवा भेदाथैरपृथक्श्रुतेः । तथाहि-सद् द्रव्यम् , सन् गुणः, सत् कर्म' इति भेदाथैर्द्रव्यादिशब्दैः सामानाधिकरण्यं न स्यात् । तच दृष्टम् । न हि सत्ता योगो वा द्रव्यं गुणो वा भवति, किं तर्हि ? द्रव्यस्य गुणस्य वा । * उक्तं चविभक्तिभेदो नियमाद् गुगगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धिद्रव्यशब्दयोः ॥* [वाक्यप० ३।१४।८]
सम्बन्धोऽप्यत्र सम्बन्धिधर्मवाच्योऽभिधीयते।
तथा भावीकृत्योच्यते भावोऽप्यन्येन युज्यते ॥३॥ *सम्बन्धनेन सम्बन्धः । स रागादिवदन्यसम्बद्धः। तस्मात् सम्बन्धिधर्मेण सम्बन्धस्याभिधेयत्वात् खधर्मेण सम्बन्धवाचिशब्दाभाव इति अस्य जातिशब्दाभिधेयत्वं नोपपद्यते । ये तु विशेषशब्दैः सामानाधिकरण्यात् सम्बन्धसौकर्यादव्यभिचाराच्च जातिमन्मानं विवक्षितमित्याहुः तत्र
तद्वतो नास्वतन्त्रत्वादुपचारादसम्भवात् । तद्वतो नास्वतन्त्रत्वात् । तथापि सच्छब्दो जातिस्वरूपपात्रोपसर्जनं द्रव्यमाह, न साक्षात् , इति तद्वतघटादिभेदानाक्षेपादतद्भेदत्वे सामानाधिकरण्याभावः । न ह्यसत्यां व्याप्ती सामानाधिकरण्यम् । यथा शुक्शब्दः स्वाभिधेयगुणमात्रविशिष्टद्रव्या
मानाद् द्रव्ये सतोऽपि मधुरादीन् नाक्षिपति ततोऽतद्भेदत्वमेवमत्रापि प्रसज्यते। किञ्चान्यत् , उपचारात । सच्छब्दो हि भूतार्थेन स्वरूपं जातिं वाह। तत्र प्रवृत्तस्तद्वति उपचर्यते । न हि यो यत्रोपचर्यते स तमर्थ भूतार्थेनाह। सारूप्यस्यापि असम्भवात् । तद्वति च गुणसारूप्यं न प्रत्ययसंक्रान्तितो नापि गुणोपकारात् सम्भवति । कथं न प्रत्ययसंक्रान्तित इति चेत्, उपचारे
भिन्नत्वाद् बुद्धिरूपस्य भृत्ये राजोपचारवत् ॥ ४॥ 1 दृश्यतां टिपृ. ९५॥ 2 दृश्यतां तत्त्वसंग्रहपञ्जिका. पृ० ४४१॥ 3 *** एतदन्तर्गतः पाठः PS मध्ये नास्ति ॥ 4 Psv' मध्येऽत्रान्यादृशोऽनुवादः ॥ 5 'तद्वतो नास्वतन्त्रत्वाद् भेदाजातेरजातितः। अर्थाक्षेपेऽप्यनेकान्तस्तेनान्यापोहकृच्च्छुतिः' ॥ इति दिङ्गागस्य ग्रन्थान्तरस्थायाः कारिकायास्तु नयचके खण्डनं दृश्यत इति ध्येयम् ॥ 6 तुलनातत्त्वसंग्रहपलिका. पृ० ३१०॥ 7 "न ह्यसत्यां व्याप्तावित्यादि । व्याप्तिराक्षेपः । यथा रूपशब्देन मधुरादीनामनाक्षेपोऽतद्भेदत्वात् तैः शब्दैः सामानाधिकरण्यं न भवति 'रूपमाम्लम्' इति। व्याप्तौ तु भवति 'रूपं नीलम् , इति।"-विशाला०पृ. २४३ A ॥ 8 तुलना-“यः पुनरस्मिन्नेव पक्षेऽपरो दोषोऽभिहितः-सच्छब्दोऽपि भूतार्थन स्वरूपं जातिं वाह । तत्र प्रवृत्तस्तद्वत्युफ्चर्यमाणो गौणः स्यात्-इति सोऽपि समानः।"-मी० श्लो० वा०शर्करिका पृ० ६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org