________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे पुनरुक्तदोषाद् विशेषशब्दाप्रयोग एव स्यात् ।
अत एव नियमार्था पुनः पुनः श्रुतिः, तदर्थत्वात् पूर्वश्रुतेः। नियमः स्वार्थव्यवस्थापनम् । सञ्चारि चैतत्, द्रव्यनय..........। 'युगपदयुगपत्......."| यावच्च ......... तावत् सर्वमनेन शब्दनयशब्दार्थेन व्याप्तम् । एवमेव च विशेषप्रधान5 शब्दार्थव्यवस्थापनार्थमिदमपि
नै जातिशब्दो भेदानामानन्त्याद् व्यभिचारतः। वाचको नियमार्थोक्तेर्जातिमद्वदपोहवान् ॥
मित्यादि, पुनरुक्तदोषात् सामान्यशब्देनोक्तत्वाद् विशेषशब्दाप्रयोग एव स्यात् , उक्तार्थानामप्रयोगः
[पा० म० भा० २।११] इति न्यायात् । ४०.18 . अत एवेत्यादि । सत्यवृत्त्या नोक्तो विशेषः, उपाधिवृत्त्योक्तोऽप्यनुक्त एव । नियमार्था पुनः
पुनः श्रुतिर्विवैक्षितार्था, कस्मात् ? तदर्थत्वाद् विशेषार्थत्वाद् विशेषणार्थत्वात् पूर्वश्रुतेः सामान्यश्रुतेः ब्राह्मणादेः । तस्माच्छ्रवणकालक्रमेण पुनः श्रुतिरिति विशेषशब्द उच्यते । कोऽसौ नियमो नाम ? इत्युच्यते-नियमः स्वार्थव्यवस्थापनं विवक्षितेऽर्थेऽवधारणम् । सञ्चारि चैतदिति, न पुनस्तत् सामान्यशब्देन उक्तवदुक्तं वस्तु व्यवस्थितमेव, किं तर्हि ? सञ्चारि विशेषपरम्परया । तत्र कारणं सञ्चरणे 15 द्रव्यनयेत्यादि, एवंसमवस्थस्यार्थस्य सत्त्वात् ।
किं पुनः सत्यमिति चेत् , युगपदयुगपदित्यादि । तस्य विशेषस्य प्रधानस्य प्रत्याय्यस्य प्रत्यायकत्वेन उपसर्जनमात्रप्रवृत्तिरसत्योपाधिरर्थः, तद्दर्शयति-यावच्चेत्यादि गतार्थम् तावत् सर्वमनेन 'शब्दनयशब्दार्थेन व्याप्तमिति ।
एवमेव चेत्यादि एतन्न्याये व्याप्तिप्रदर्शनद्वारेण दर्शनान्तरं निराचिकीर्षुराह । विशेषप्रधान20 शब्दार्थव्यवस्थापनार्थमिदमपीति तद्विचारवस्तुसूत्रम्
न जातिशब्दो भेदानामानन्त्याद् व्यभिचारतः।
वाचको नियमार्थोक्तेर्जातिमद्वदपोहवान् ॥ इति । जातिशब्दो विशेषार्थनियमोक्तेर्भेदानामवाचकः, व्यभिचारादानन्याच्च । जातिमतो वाचकत्वे च ये दोषास्तेऽन्यापोहाभिधानेऽपीति प्रतिज्ञा।
१ 'युगपदयुगपत्तत्त्वस्य विशेषस्य प्रधानस्य उपसर्जनमात्रप्रवृत्तिरसत्योपाधिरर्थः' ईदृशमपि मूलमत्र स्यात् ॥ २“न जातिशब्दो भेदानामानन्त्याद् व्यभिचारतः । वाचको योगजात्योर्वा भेदार्थैरपृथक्श्रुतेः ॥” [प्र० समु० ५।२ ] इति दिङ्नागेन यदुक्तं दूषणं तद् दिङ्नागस्याप्यपोहपक्षे समानमेवेति प्रतिपादनार्थमिदं प्रतिवचनं मल्लवादिनोक्तम् ।। २ °वक्षतार्था प्र० ॥ ४ युगपदित्यादि य० ॥ ५ प्रत्ययोस्य य० ॥ ६ शब्देनय प्र० ॥ ७ इत आरभ्य 'अन्यापोहः शब्दार्थः' इति बौद्धाचार्यदिङ्गागस्य मतं निराक्रियते । तत्रेदमवधेयम्-दिङ्गागेनापोहवादोऽनेकेषु ग्रन्थेषु सिद्धान्तितः । तत्र दिनागस्य के ग्रन्थं लक्ष्यीकृत्य उभयनियमनयेनापोहवादोऽत्र प्रतिविहित इति निश्चतुं न पार्यते तथापि पृ०४१७-१ इत्यत्र 'सामान्यपरीक्षाकारलिखित एवात्रापि' इति वक्ष्यमाणोल्लेखदर्शनात् सामान्यपरीक्षान्तर्गतोऽपोहवादोप्यऽत्राभिप्रेतः स्यादिति सम्भाव्यते । दिनागेन बहवो ग्रन्थाः संस्कृतभाषायां रचिताः, ते च प्रायः सर्वेऽपि नष्टाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org